तदभावान् नैव षट्काद् अन्यो निग्रह इष्यते
जल्पवितण्डयोः कथात; प्रागपि निग्रहस्थानसम्भवः
वादिप्रतिवादिनोर् जल्पाऽरम्भोत्तरकालीनं निग्रहस्थानम् उक्तम् । कथातः प्रागपि सम्भवात्
कथालक्षणम्
विद्याहीनत्वलिङ्गेऽपि वादिनोः स्यात् पराजयः ।
सम्भावितसमानविद्ययोरेव जल्पविण्डाऽधिकारित्वात् कथातः प्रागेव वादिप्रतिवादिनोर् अन्य- तरस्य प्रतियोग्यपेक्षया विद्याहीनत्वलिङ्गे पदवाक्यप्रमाणाज्ञत्वदोषे प्राप्ते पराजय एव । दुरे जल्पाऽऽदि । एतेन ‘कथाबाह्यानाम् अनिग्रहस्थानत्वं ’ इति परास्तम् ।
कथालक्षणटीकाभावदीपः
(रा. टि.) ॥ अपराधमपोहमुखेनेति ॥ अनुवादाप्रतिबुद्धप्रतिबोधनयोर् अपराधत्वाभावमुखेन ‘स्वयं वा प्राश्निकैर्वादे’ इत्यत्र उक्तकर्माननुष्ठानरूपम् अपराधम् इत्यर्थः । ’ अयं न दोषः’ इत्युक्ते अन्यस्तु दोष इति लाभाद् इति भावः । अप्रतिबुद्धौ गुणदोषाज्ञानिनौ । अन्यापोहेन लब्धम् आह ॥ किं नामेत्यादिना ॥ प्रागुक्तति ॥ स्वयं वा प्राश्निकैर्वादे इत्यत्र उक्तेति वा विष्णुभक्तिर्हि इत्युक्तेति वा अर्थः । अपोहेन कस्माद् एतदुक्तं ? आह ॥ मतान्तरेति ॥ अनुवादाऽदिराहित्यस्य दोषत्ववादिमतान्तरेत्यर्थः ॥ समान- विद्ययोरिति ॥
(रा. टि.) ययोरेव समं वित्तं ययोरेव समं श्रुतम् ।
तयोर् विवाहो वादश्च…………………..
इत्युक्तेर् इति भावः । वादो विवाद इत्यर्थः ॥ पदेति ॥ शब्दमीमांसातर्कशास्त्राऽज्ञत्वदोष इत्यर्थः ॥ एते- नेति ॥ ’ विद्याहीनत्व ’ इत्यादिना कथातः प्राक्तनस्याऽपि निग्रहस्थानत्वकथनेन इत्यर्थः ॥ पद्धत्यादौ अनिग्रहस्थानत्वोक्तिः परमताभिप्राया वा विद्याहीनत्वाद् अन्यनिग्रहस्थानाभिप्राया वा इति ज्ञेयम् ।
कथालक्षणटीकाविवरणं
(वे. टि.) अपोहमुखेनेति ॥ व्यतिरेकमुखेन इत्यर्थः । ’ अयम् अस्य न दोषो भवति’ इत्युक्ते तदतिरिक्त एव तस्य दोषः’ इति प्राप्नोति इति भावः ॥ एवकार सूचितं हेतुं दर्शयति ॥ अनुवादाद्यभावेऽपीति ॥ लिङ्गेऽपि इति अपिशब्दाभिप्रायम् आह ॥ कथातः प्रागपीति ॥
सर्वेषामपि निग्रहस्थानानां विरोधादिषु षट्स्वेवान्तर्भावः
कथालक्षणपञ्चिका
(टी.) ननु विरोधादिव्यतिरिक्तानि हेत्वाभासादीनि निग्रहस्थानानि सन्ति । विजयमात्र- प्रयोजनयोश्च जल्पवितण्डयोः पराजयनिमित्तानि सम्भावितानि च । अतः कथं विरोधाऽदिषट्केनैव जल्पाऽदौ पराजय इत्यत आह
कथालक्षणम्
***तदभावान् नैव षट्काद् अन्यो निग्रह इष्यते ॥ २२ ॥ ***
अन्तर्भावात्इहान्येषांनिग्रहाणाम्…………….
अन्येषां विरोधाऽदिपदैर् अगृहीततया ततोऽन्यत्वेन शङ्कितानां हेत्वाभासादीनाम् इह षट्के अन्तर्भावात्, पट्कानन्तर्भूतानां च आश्रयासिद्ध्यादीनां तदभावान् निग्रहस्थानत्वाभावात्,
जल्पवितण्डयोः षट्कादन्यनिग्रहस्थानानङ्गीकारो न दोषाय इति ॥
कथं हेत्वाभासादीनाम् एतेष्वन्तर्भावः ? कथं च अनन्तर्भूतानाम् अनिग्रहस्थानत्वं ? इत्यत
आह
कथालक्षणम्
……………………………………………………..इति स्म ह ।
उक्तपरामर्श इतिशब्दः । स्म ह इति निपातौ सुप्रसिद्धिं द्योतयतः । हेत्वाभासाऽदीनां विरोधाऽदिषु अन्तर्भावः, अनन्तर्भूतानां च अनिग्रहस्थानत्वं विरोधाऽदीनां हेत्वाभासादीनां च स्वरूपयाथात्म्यज्ञाने सति सुज्ञानमेव इति किं तत्र यत्नेन ? इति ।
**विद्यापरीक्षापूर्वैवजल्पवितण्डाप्रवृत्तिः
**कथातः पूर्वं विद्याहीनत्वलिङ्गेन पराजय इत्युक्तं, तन्न । कथामन्तरेण विद्याहीनत्वलिङ्गस्य अप्रतीतेर् इत्यतःआह
कथालक्षणम्
विद्यापरीक्षापूर्वैव वृत्तिर्जल्पवितण्डयोः ॥ २३ ॥
कथालक्षणपञ्चिका
(टी.) जल्पवितण्डाऽधिकारिणोः खलु विद्याहीनत्वलिङ्गेन कथातः प्राक् पराजय इष्यते । जल्प- वितण्डाप्रवृत्तिश्च विद्यापरीक्षापूर्वेव । विद्यापरीक्षा च वादेनैव । वादे च न सम्भावितसमान- विद्यत्वाऽपेक्षा । एवं च विद्यापरीक्षया विद्याहीनत्वनिश्वयान् न विरोधः । विद्यासाम्ये तु जल्पवितण्डे इति ।
अपस्मारादिना प्राप्तानामपि विरोधादीनां न पराजयहेतुत्वं
विरोधाऽदीनि निग्रहस्थानानि इत्युक्तम् । तत्र विशेष आह
कथालक्षणम्
स्खलितत्वाऽदिमात्रेण न तत्राऽपि पराजयः ।
तत्र जल्पवितण्डयोरपि स्खलनेन अपस्माराऽदिवशेन वा प्राप्तैर् विरोधाऽदिभिर् न पराजयो मन्तव्यः, अपटुकरणत्वादिना सम्भवतः स्खलनाऽऽदेः प्रतियोग्यपेक्षया अपकर्षस्य अद्योतकत्वात् । किमु वादकथायाम् इति ।
कथालक्षणटीकाभावदीपः
(रा. टि.) ॥ हेत्वाभासादीनीति ॥ उदाहरणाऽभा सतर्क पराहत्यादिर् आदिपदार्थः । व्याचष्टे ॥ अन्येषामित्यादिना ॥ ’ उक्तपरामर्श इतिशब्द इत्युक्तम् । तद्व्यनक्ति ॥ हेत्वभासादीनां विरोधाऽदि- ष्वन्तर्भाव इति । व्याचष्टे ॥ जल्पवितण्डाऽधिकारिणोर् इत्यादिना ॥ वृत्तिशब्दार्थः प्रवृत्तिर् इति । तत्र इत्यनुवादः । जल्पवितण्डयोर् इति व्याख्या । आदिपदार्थम् आह ॥ अपस्माराऽदीति ॥
कथालक्षणटीकाविवरणं
(वे. टि.) वस्तुतोऽन्यत्वे अन्तर्भावासम्भवाद् आह । अन्यत्वेन शङ्कितानामिति ॥ ’ हेत्वाभासा विरोधाऽदिभ्योऽन्ये विरोधाऽदिपदैर् अगृहीतत्वात्’ इति शङ्कितानाम् इत्यर्थः ॥ इह पट्केऽन्तर्भावादिति ॥ तथा च विरोधाऽदिपदैर् अगृहीतत्वम् असिद्धम् इति भावः ॥ कथामन्तरेणेति । तथा च अनवस्था इति भावः । नन्वेवम् अनवस्था इत्यत आह । वादे चेति ॥ ’ न तत्रापि’ इति अपिशब्दाभिप्रायम् आह ॥ किमु वादेति ॥
कथालक्षणपञ्चिका
(टी.) ‘तत्र वादे चतुर्धा निग्रहस्थानगतिः । किञ्चिद् असम्भावितमेव, यथा प्रतिज्ञाहानिः प्रतिज्ञासन्न्यासो निरर्थकम् अर्थान्तरम् अविज्ञातार्थम् अपार्थकम् इति षट्कम् । एषाम् अशक्तिसङ्ग्रहन-
प्रकारत्वात् तत्ववुभुत्सुतया च वादे तदभावात् । प्रमादात् सम्भवेऽपि उद्भाव्य त्याजनीयानि । किञ्चित् सम्भवदपि अनुद्भाव्यमेव, यथा प्रतिज्ञान्तरं हेत्वन्तरम् अज्ञानम् अप्रतिभा विक्षेपः मतानुज्ञा पर्यनुयोज्योपेक्षणम् इति सप्तकम् । एतदुद्भावनानुद्भावनयोस् तत्वनिर्णयाऽनुगुण्यवैगुण्याभावात् । किश्चिद् उद्भाव्यमात्रम्, यथा विरोधो ऽप्राप्तकालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अपसिद्धान्त इति सप्तकम् । किञ्चित् कथावसानिकम्, यथाहेत्वाभासो निरनुयोज्याऽनुयोग इति द्वयम् ।
कथालक्षणटीकाभावदीपः
(रा. टि.) ननु वादे पित्रादिना विद्यासाम्यादिनिर्णयात् प्रागेव केनचिन् निग्रहस्थानेन अन्यतरनिग्रहे कथापर्यवसानात् तयोः स्वरूपनिर्णयो वादेनापि असम्भवी इत्यतस् तत्र कथाऽवसाननिग्रहस्थानमेव नास्ति इति भावेन आह । तत्र वाद इति ॥ वादेनैव विद्यासाम्याऽदिनिर्णये कर्तव्ये सति इत्यर्थः । यद्वा पूर्वभा- विवाद इत्यर्थः ।
सुधायां तु विक्षेपस्य असम्भावितमध्ये अननुभाषणस्य अनुद्भाव्यमध्ये, निवेशोक्तिर् द्वैरूप्यस्याऽपि सत्त्वाद् इत्याहुः ।
कथालक्षणटीकाविवरणं
(वे. टि.) तत्वनिर्णयवैलोम्यं वादे साक्षात् पराजयः ।
इत्यत्र वादे पराजयहेतुर् द्विविधः मुख्यामुख्यभेदाद् इत्युक्तम् । तत्प्रपञ्चनाय परोपन्यस्तानि वादे मुख्या मुख्य पराजय हेतु निग्रहस्थानानि दर्शयति ॥ वादे चतुर्धेति ॥ गतिः स्थितिः ॥ एषामशक्तीति ॥ उपलक्षण- मेतत् । पराज्ञानप्रकाशकत्वं च ज्ञातव्यम् । तथा च प्रतिज्ञाहानि सन्न्यासार्थान्तराणां खाशक्तिसङ्ग्रहनार्थत्वं, निरर्थकापार्थका विज्ञातार्थानां पराज्ञानप्रकाशनार्थत्वम् इति विवेकः ॥ तदभावादिति ॥ स्वाशक्तिसङ्ग्रहनपरा ज्ञानप्रकाशनयोर् अभावाद् इत्यर्थः ॥ प्रमादाद् इत्युपलक्षणम् । भ्रमाद् इत्यपि द्रष्टव्यम् ॥ उद्भाव्य त्याज- नीयानीति । तदा तृतीयकोटौ निवेश इत्यर्थः । इयांस्तु विशेषः, प्रतिज्ञाविरोधाऽदीनां बुद्धिपूर्वकाणामेव सम्भवः । हान्यादीनां तु अबुद्धिपूर्वकाणाम् इति ।
ननु ’ समीचीनमेव साधनं त्वयोपन्यस्तम् । मया च तत्र असदेव दूषणम् उक्तम् । तद्भयात् किमर्थं त्वं साधनं त्यजसि ? अपलपसि वा ?’ इत्येवं सद्विषययोर् हानिन्यासयोर् उद्भावने सत्साधनेन तत्वनिर्णय सम्भवात् कथाऽवसानिकत्वस्य प्राप् त्या कथं तृतीयकोटौ प्रवेशः ? इति चेत् । मैवम् । न हि अत्र हान्याद्युद्भावनेन तत्वनिर्णयः । किन्तु ? सद्धान्यादौ तत्वनिर्णयाभावप्रसङ्गरूपं बाधकं प्रदर्श्य हान्यादित्याजनेनैव । अत एव किमर्थं त्यजसि ? इत्याद्युक्तम् ।
वादे चतुर्धा निग्रहस्थानगतिः
(वे. टि.) एवञ्च न तृतीयकोटौ प्रवेश इति सद्विषयप्रतिज्ञाहानित्वाऽदिना कथाऽवसानिकत्वेऽपि निग्रह- स्थानत्वसाक्षाद्व्याप्यधर्मावच्छेदेन विवक्षितस्य कथाऽवसानिकत्वस्य अत्र अभावात् । सद्विषयप्रतिज्ञा- हा नित्वाऽदिकं च न निग्रहस्थानत्वसाक्षाद्व्याप्यं, किन्तु ? तद्व्याप्यप्रतिज्ञाहानित्वाऽदिव्याप्यम् इत्यवधेयम् इत्यप्याहुः ॥ आनुगुप्य वैगुण्याभावादिति । एतेषां पुरुषदोषत्वाद् इति भावः ॥ उद्भाव्यमात्रमिति ॥ उद्भाव्य त्याजनीयमित्यर्थः ।
कथालक्षणपञ्चिका
(टी.) तत्वनिर्णयस्य हि साक्षाद् विरुद्धा विपरीतप्रतिपत्तिः, सा च हेत्वाभासाद्यनुद्भावने भवति । पारम्पर्यात् ‘विरोधादयः । व्यासङ्गाऽदिना तत्वनिर्णयसामग्रीप्रतिरोधात् प्रतिज्ञाविरोधाऽ- दीनाम् । आकाङ्क्षासन्निधियोग्यतावत्तया प्रतिसंहितं प्रमाणाप्रतिहतं च वाक्यं खलु तत्वनिर्णया- ङ्गम्, न अन्यत् । तत्र प्रतिज्ञाविरोधे योग्यताविरहः । अप्राप्तकाले तु आकाङ्क्षाविरहः । न्यूने तु आकाङ्क्षिता समभिव्याहारेण सन्निधिविरहविशेषः । अधिके तु अनाकाङ्क्षिताभिधानेन आकाङ्क्षा - भावः । पुनरुक्तेऽपि एवम् । अननुभाषणे तु उक्ताननुसन्धानेन असन्निधानम् । अपसिद्धान्ते तु सम्मुग्धप्रमाणाऽबाधोत्क्रान्तिर् इति ।
तदिदम् आचार्याणाम् असम्मतम्, आत्यन्तिकसाधनदूषणनिवृत्तौ एव वादावसानस्य उक्त- वाद् इति ॥
कथालक्षणटीकाभावदीपः
(रा. टि.) विपरीतप्रतिपत्तिः साक्षाद् विरुद्धा इत्यन्वयः । तत्वनिर्णयवैलोम्यम् इत्यर्थः ॥ पारम्पर्यात विरो- धाऽदय इति ॥ कथावसानिका इत्यनुषङ्गः ॥ पारम्पर्य व्यनक्ति ॥ व्यासङ्गाऽदिनेति ॥ सामग्रीति ॥ आकाङक्षासन्निधियोग्यतारूपशाब्दसामग्री । प्रतिबन्धं व्यनक्ति ॥ आकाङ्क्षेत्यादिना ॥ अप्राप्तकाल इति ॥ क्रमविपर्यासरूप इत्यर्थः । विलम्बेन उच्चरितत्वाभावाद् आह ॥ सन्निधिविरहविशेष इति । एवमिति ॥ आकाङ्क्षाऽभाव इत्यर्थः । उक्तेति ॥ वादिना प्रतिवादिना वा यदुच्यते तस्य अननुसन्धानेन असन्निधानम् इत्यर्थः ॥ सम्मुग्धेति ॥ स्वाऽचार्यवाक्यस्य प्रमाणत्वेन स्वयम् अङ्गीकारात् तद्विरुद्धाभ्युपगमरूपस्य प्रत्यक्षानु- मानाऽदिविशेषव्यवहारहीनसामान्यप्रमाणबाध इत्यर्थः । अनेन 2 प्रमाणप्रतिहतत्वरूप सामग्री प्रतिबन्ध उक्तो भवति ॥ तदिदमिति ॥ साक्षाद्वा परम्परया वा कथाऽवसानिक हेत्वाभासादिकम् इत्येतद् इत्यर्थः । कुतः? इत्यत आह । आत्यन्तिकेति । तथैव प्राक् साक्षात् पराजय इत्यत्र व्याख्यानाद् इति भावः । उक्तं च सुधायाम् ’ वादाऽवसानं तु अन्यतरस्य साधनदूषणयोः स्थितयोर् अन्यतरस्मिंश्च निस्साधनदूषणे सति भवति । अत एव हि तत्वनिर्णयः’ इति ।
कथालक्षणटीकाविवरणं
(वे. टि.) ननु उद्भाव्यत्वाविशेषे कथं प्रतिज्ञाविरोधाऽदीनाम् उद्भाव्यत्वमात्रत्वं, हेत्वाभासनिरनुयोज्या- नुयोगयोस्तु कथाऽवसानिकत्वं, इति व्यवस्था ? इत्यत आह ॥ तत्वनिर्णयस्य हीति ॥ साक्षाद्विरुद्धेति ॥ ग्राह्याभावावगाहितया विरुद्धा इत्यर्थः ।
विपरीत प्रतिपत्तिशब्देन संशयविपर्ययौ विवक्षितौ । इदमुपलक्षणम् । अप्रतिपत्तिरपि ग्राह्या । द्विविधो हि हेत्वाभासः प्रतीत्यजनकः विपरीतप्रतिपत्तिजनकश्चेति । तत्र स्वरूपासिद्धानवध्यसितौ प्रतीत्यजनकौ । तदतिरिक्ता विपरीतप्रतिपत्तिजनकाः । तत्रापि अनैकान्तिकसत्प्रतिपक्षौ संशयजनकौ, विरुद्धकालात्ययापदिष्टौ तु ‘विपरीत- प्रतीतिजनको इति विवेकः ।
ततश्च हेत्वाभासानुद्भावनें दुष्टेन हेतुना न तत्वनिर्णयः । तदुद्भावनेन तु तस्मिन् साधने भन्ने प्रति- साधनेन तत्वनिर्णयसम्भवात् कथाऽवसानिकत्वं हेत्वाभासोद्भावनस्य । निरनुयोज्यानुयोगानुद्भावने हि छलाद्य- सहूषणदूषितेन साधनेन तत्वनिर्णयायोगात् तदुद्भावनेन असदूषणे भने सति दोषशङ्काशून्येन साधनेन तत्वनिर्णयसम्भवात् तस्याऽपि कथाऽवसानिकत्वम् इति द्रष्टव्यम् । तदिदम् आह ॥ सा चेति ॥ पारम्पर्यादिति ॥ प्रतिज्ञाविरोधाऽदीनां पारम्पर्याद् विरोधे इत्यन्वयः । तत्वनिर्णयस्य इति वर्तते । पारम्पर्याद् इत्युक्तमेव विवृणोति ॥ व्यासङ्गाऽदिनेति ॥ तत्वनिर्णय सामग्रीप्रतिरोधादिति ॥ व्यासङ्गः व्यग्रता ।
व्यग्रताजनकत्वेन तत्व निर्णय सामग्रीप्रतिरोधकत्वम् अधिकपुनरुक्तयोरेव, न प्रतिज्ञाविरोधाऽदीनां सर्वेषाम् । अधिके पुनरुक्ते च अनाकाङ्क्षितेऽभिहिते, किमर्थम् इदमुक्तं ? इति व्यग्रप्रतिपत्ता न विशिष्टं वाक्यम् आकाङ्क्षा- दिमत्तया अनुसन्धातुमर्हति इति । आदिमदेन योग्यताऽदिविरह सङ्ग्रहः ।
प्रतिज्ञाविरोधाऽदीनां तत्वनिर्णयसामग्रीप्रतिरोधकत्वं दर्शयितुं तत्वनिर्णयसासग्री तावद् आह । आका- क्षेति ॥ प्रमाणाप्रतिहतमिति ॥ समनलप्रमाणेन अप्रतिहतम् इत्यर्थः । प्रबलप्रमाणाप्रतिहतेर् योग्यताग्रहणेनैव लाभाद् इति ज्ञेयम् ॥ सन्निधिविरहविशेष इति ॥ आकाङ्क्षितस्य अविलम्बेन उच्चारणं हि सन्निधिर् इत्युच्यते । तदभावश्च अस्य आकाङ्क्षितस्य विलम्बेन उच्चारणे अनुच्चारणे च भवति इति न्यूने सन्निधिविर- हविशेष इत्यर्थः । अत एव पद्धतौ ‘सन्निध्यभावविशेषः’ इत्युक्तम् ॥ आकाङ्क्षात्रभाव इति ॥ उक्तरीत्या आकाङ्क्षाऽऽदिमतोऽविलम्बेन प्रतिसन्निहितत्वस्यैव सन्निधिशब्दार्थतया विवक्षणीयत्वात् । अन्यथा मौनिकृत- श्लोके उच्चारणाभावेन अव्याप्तिप्रसङ्गात् । अत एव आह ॥ उक्ताननुसन्धानेन असन्निधानमिति । तत्व-
जल्पवितण्डयोःसभापत्यादिनियमापेक्षा
निर्णयाङ्गतया यदुक्तम् आकाङ्क्षाऽऽदिमद् वाक्यं तस्य अननुसन्धानेन इत्यर्थः ॥ प्रमाणाऽवाधेति ॥ प्रमाणा- प्रतिहतम् इति विशेषणस्य अपगम इत्यर्थः । सिद्धान्तस्य प्रामाणिकतया अभ्युपगतार्थरूपत्वाद् इति भावः । नन्वेवम् अपसिद्धान्तस्य प्रमाणवाधरूपत्वेन योग्यता विघटकत्वमेव प्राप्तं, न उक्तरूपप्रमाणाप्रतिहतिविघटकत्वम् इत्यत उक्तम् ॥ सम्मुग्धेति ॥ तत्सिद्धान्तमूलप्रमाणे प्रामाण्यम् अपसिद्धान्तोद्भावनकर्तुः परस्य सन्दिग्धम् इत्यर्थः । तथा च अपसिद्धान्तस्य उक्तरूपप्रमाणाप्रतिहतिविघटकत्वमेव इति भावः ।
अनेन विरोधादिषु तत्वनिर्णय वैलोम्येतरविवेकं तु करिष्याम इति यदुक्तं तदपि कृतं भवति इति ज्ञातव्यम् । तथा हि, आद्यद्वितीयकोटिनिविष्टानां निग्रहस्थानानां प्रायः पुरुषदोषरूपाणां संवादाऽनुक्ति- रूपतया तयोस् तत्वनिर्णययैलोम्येतरत्वम् । प्रतिज्ञान्तर हेत्वन्तरयोस्तु पद्धत्युक्तरीत्या निग्रहस्थानत्वम् । प्रति- ज्ञासन्यासाऽर्थान्तरयोर् विरोघासङ्गतिरूपत्वेन अर्थदोषत्वेऽपि तयोः खाशक्तिसङ्गूहनार्थत्वेन वादे अवक्तव्यत्वात् तृतीय कोटिनिविष्टानां च अर्थवचनदोषतया विरोधासङ्गतिन्यूनाधिकरूपत्वात् तेषाम् उक्तरीत्या न साक्षात् तत्वनिर्णय वैलोम्यरूपत्वम् । चतुर्थकोटिनिविष्टयोस्तु हेत्वाभासनिरनुयोज्यानुयोगयोर् विरोधासङ्गतिविशेषरूपत्वात् तयोर् उक्तरीत्या साक्षात् तत्वनिर्णयवैलोम्यरूपत्वम् इति ॥ आत्यन्तिकसाधनदूषणनिवृत्तावेवेति ॥ हेत्वा- भासोद्भावनेन एकस्य साधनस्य निवृत्तावपि तस्यैव अन्यस्य वा पुनः साधनान्तरस्फूर्ती तैस् तत्वनिर्णयसम्भवेन कस्यापि दूषणान्तरास्फूर्तावेव वादाऽवसानस्य उक्तत्वाद् इत्यर्थः ।