आनन्दतीर्थमुनिना ब्रह्मतर्कोक्तिमार्गतः । मानलक्षणमित्युक्तं संक्षेपाद्ब्रह्मसिद्धये
प्रमाणादिनिरूपणप्रयोजनादि
प्रमाणलक्षणटीका
एवं प्रमाणदिस्वरूपं निरूप्य तन्निरूपणस्य प्रयोजनादिकं दर्शयति
प्रमाणलक्षणम्
***आनन्दतीर्थमुनिना ब्रह्मतर्कोक्तिमार्गतः । मानलक्षणमित्युक्तं संक्षेपाद्ब्रह्मसिद्धये ॥ *
लक्षणादिनिरूपणेन संशोधितैरेव खलु वेदादिभिर्ब्रह्मज्ञानं भवति । तदिदं न वाद्यन्तरोक्तवदेवेति मन्तव्यम् । परमाप्ततमेन सुरवरावतारेणोक्तत्वादिति भावेनोक्तम् ॥ आनन्दतीर्थमुनिनेति ॥ यस्तु स्वप्रभावानभिज्ञस् तं प्रत्याह ॥ ब्रह्मतर्कोक्तिमार्गत इति ॥ यस्तु अनधिगतब्रह्मतर्कोक्तिमार्गोऽपि तदनुजिवृक्षया आह ॥ इत्युक्तमिति ॥ युक्त्यादियुक्तता प्राक् प्रदर्शितेति इतिशब्देन स्मर्यते । यद्येवं कथं तर्हि स्वल्पेनैव ग्रन्थेन समाप्तं ? इत्यत उक्तम् ॥ संक्षेपादिति ॥ श्रोतृबुद्धिमनुसृत्य शब्दसंक्षेपेणोक्तमिति ।
प्रमाणलक्षणटीकाभावदीपः
॥ प्रयोजनादिकमिति ॥ समूलत्वमादिपदार्थः । लक्षणादीत्या-दिपदेन परीक्षाग्रहः । संशोधितैर् निर्दोषतया प्रमितिजनकत्वेन अवधारितैरित्यथर्ः । प्रदर्शिता युक्त्यादियुक्ततेत्यन्वयः । स्वोक्तलक्षणविभागादेर् अव्याप्त्यादिशून्यत्वं परकीयस्य तद्वत्वमिति प्रदर्शिता युक्तियुक्ततेत्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
॥ प्रयोजनादिकमिति ॥ सप्रमाणकत्वेन वाद्यन्तरोक्तलक्षण-साम्याभावआदिशब्दार्थ इति द्रष्टव्यम् । ब्रह्मसिद्धये परब्रह्मज्ञानाय मानलक्षणमुक्त-मिति मानलक्षणनिरूपणस्य ब्रह्मज्ञानार्थत्वमुक्तम् । तत्कथम् ? इत्यतस् तद् उपपादयति ॥ लक्षणादिनिरूपणेनेति ॥ संशोधितैर् आभासविविक्तैः । वेदादिभिरित्यादिपदेन अनुमानप्रत्यक्षयोर्ग्रहणम् । श्रवणमनननिदिध्यासन-रूपैरित्यर्थः । तत्र श्रवणम् आगमान्तर्भूतम् मननम् अनुमानान्तर्भूतं निदिध्यासनं प्रत्यक्षान्तर्भूतमिति विवेको द्रष्टव्यः ।
॥ परमाप्ततमेनेति ॥ अतिशयितविवक्षितार्थ-तत्त्वज्ञानादिमतेत्यर्थः । अत्र आप्तेरतिशयस्य तमपैवोक्तत्वात् परमत्वं न आप्तेर्विशेषणम् । तथा च परमश्चासौ आप्ततमश्चेति विग्रहः । ‘विशेषणं विशेष्येण बहुलम्’ इति बहुलग्रहणाद् अवाक्यनादर इत्यादौ दर्शनाच्च विशेषणयोरपि समासो युक्त इत्यवधेयम् । परमत्वाप्ततमत्वोपपादनायोक्तं सुरवरावतारेणेेति । सुरवरो वायुस् तदवतारेणेत्यर्थः।
तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषण
इति श्रुतेरिति भावः ।
॥ स्वप्रभावेति ॥ सुरवरावतारत्वादिरूपस्वसामर्थ्येत्यर्थः ॥ अनधिगतेति ॥ ब्र्रह्मतर्कोक्तिमार्गाज्ञानिनो ‘ब्रह्मतर्कोकितमार्गत उक्तम्’इत्यक्ते विश्वासो न भविष्यतीत्यर्थः । अनुजिघृक्षा अनुग्रहं वर्तुमिच्छा
॥ प्रागिति ॥ अतीतग्रन्थसमुदायेनेत्यर्थः । अनेन त्रिविधा अधिकारिणः। उत्तमा मध्यमा अधमाश्चेति । तत्र सुरवरावतारेण उक्तत्वाद् इदं लक्षणं न वाद्यन्तरोक्तलक्षणवद् इति मन्यमाना उत्तमाः । ब्रह्मतर्कानुसारेण उक्तत्वाद् इदं न तथा इति मन्यमाना मध्यमाः । युक्तियुक्तत्वाद् इदं न तथा इति मन्यमाना अधमा इति सूचितं भवतीति सम्प्रदायविदः ।
॥ यद्येविमिति ॥ ब्रह्मतर्कोक्ति-मार्गानुसारेणोक्तं चेदित्यर्थः ॥ शब्दसंक्षेपेणेति ॥ न त्वर्थसंक्षेपेणेति भावः ।