१६ मतानुज्ञाया असङ्गतान्तर्भावः

इष्टापत्तिः सिद्धसाधनत्वाद् असङ्गतमेव

मतानुज्ञाया असङ्गतान्तर्भावः

प्रमाणलक्षणटीका

स्वपक्षदोषमनुद्धृत्य प्रतिबन्दीग्रहणं मतानुज्ञेत्येके । तदनुपपन्नम् । प्रतिबन्दीग्रहणस्य परोक्तव्यभिचारोद्भावन-रूपत्वेन बाधकतर्कोद्भावनरूपेण वा परोक्तदूषणत्वात् । स्वपक्षास्थापनेन प्रवृत्तेर्दोषत्वमिति चेत् तर्हि अप्राप्तकाल-साङ्कर्यापातात्।

स्वपक्षे दोषमनुद्धृत्य परस्येष्टापादनमित्यन्ये । तदप्यसत्। विशेषणासामर्थ्यात् ।

तस्माद् इष्टापादनमेव मतानुज्ञेति भावेन तत्स्वरूपा-नुवादेन सिंहावलोकनन्यायेन प्रकृतदूषणानुमानदोषस्य मतानुज्ञाया उक्तान्तर्भावमाह

प्रमाणलक्षणम्

***इष्टापत्तिः सिद्धसाधनत्वाद् असङ्गतमेव ***

इष्टापादनरूपा मतानुज्ञा असङ्गतावन्तर्भूता । परसिद्धार्थ-साधनस्वरूपत्वात् । सिद्धसाधनस्य च असङ्गतत्वमुक्तम् । अनिष्टापादनस्यैव सङ्गतत्वादिति न विरोधादिभ्यो दूषणान्तर-मस्तीति । व्याप्त्यभावादीनामन्तर्भावस्तु स्फुटत्वान्नोक्तः ।

प्रमाणलक्षणटीकाभावदीपः

॥ व्यभिचारोद्भावनेति ॥ जीवभेद्ये ब्रह्मणि भिन्नोऽभिन्नो वा ? आद्ये अनवस्था अन्ते अन्यतरपरिशेष इति परेणोक्ते जीवैक्यं ब्रह्मणि भिन्नमभिन्नं वा ? इति प्रतिबन्दी गृह्यते । तत्रैक्यस्य ब्रह्माभेदेनाङ्गीकारे अन्यतरपरिशेषापत्तेस् तत्रव्यभिचार इति व्यभिचारोद्भावनरूपेण, यद्येवं विकल्पदोषाभ्यां भेदोऽपाक्रियते तर्हि ऐक्यमप्येवमपाकर्तुं शक्यत इत्यैक्यसिद्धिरपि तव न स्याद् इत्यादिबाधक-तर्कोद्भावनरूपेण चेत्यथर्ः ।

॥ विशेषणासामर्थ्यादिति ॥ व्यावर्त्याभावाद् अप्राप्तकालसाङ्कर्यापाता-च्चेति भावः ॥ प्रकृतेति ॥ परसिद्धैर्दूषणम् इतिप्रकृतेत्यर्थः । दूषणानुमानदोषस्य मतानुज्ञाया इति विशेषणविशेष्यभावेन सामानाधिकरण्यम् ।

॥ उक्तमिति ॥ सिद्धसाधकोऽसङ्गत इत्यत्रेति भावः । इष्टापादनरूप-दोषस्येव व्याप्त्यभाव तर्कप्रतिरूपाणां दूषणानुमानदोषाणामन्तर्भावः कुतो नोक्तः ? इत्यत आह ॥ व्याप्त्यभावादीनामिति ॥ प्रकृतदूषणानुुमानदोषाणामिति योज्यम् । व्याप्त्यभावो ऽव्याप्तौ । तर्कप्रतिहतिरपि तथैव । विपर्ययापर्यवसानं न्यूने । परानुकूलत्वम् असङ्गतौ इति स्फुटत्वादिति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

तत्र का मतानुज्ञा ? इति शङ्कायां स्वयं तां लक्षयितुं परोक्तं तल्लक्षणमनूद्य दूषयति ॥ स्वपक्षेत्यादिना ॥ यथा जिनस्य आप्तत्वं मन्यमानं क्षपणकं प्रति ‘जिनोऽनाप्तः स्खलितवाक्त्वात् , इति तार्किकेणोक्ते जिनस्य आप्तत्वरूपे स्वपक्षे स्खलितवाक्त्वरूपं दोषमनुद्धृत्य ‘तर्हि भवदाचार्योऽपि तत एवानाप्तः स्यात•’ इति प्रतिबन्दीग्रहणं मतानुज्ञेत्यर्थः ।

॥ परोक्तेति ॥ जिनानाप्तत्वसाधकस्खलितवाक्त्वोक्तेस् तदीयाचार्ये व्यभिचारोद्भावनरूपत्वेनेत्यर्थः ॥ बाधकतर्केति ॥ ‘तर्हि तत एव त्वदीया-चार्यस्यापि अनाप्तत्वं स्यात्’ इति बाधकतर्कोद्भावनरूपेण चेत्यर्थः । तथा च मतानुज्ञाया न स्वातन्त्र्येण निग्रहस्थानतया दूष्यत्वमिति भावः ।

॥ स्वपक्षेति ॥ स्खलितवाक्त्वपरिहारेण जिनस्य आप्तत्वरूपस्वपक्षस्थापनं कृत्वा अनन्तरं प्रतिबन्दीग्रहणादिना परपक्षे दोषोऽभिधानीयः । एवमत्रापि प्रवृत्ते-र्मतानुज्ञाया निग्रहस्थानत्वेन दोषत्वमित्यर्थः ॥ तर्हीति ॥ आदौ स्वपक्षं प्रमाणेन प्रसाध्य पश्चात् परपक्षो दूष्य इति क्रमपरित्यागेन अप्राप्तकालसाङ्कर्यापातात् । विवक्षितक्रमविपर्यासो ऽप्राप्तकालमिति तल्लक्षणात् । अतोऽप्राप्तकाले अन्तर्भावप्राप्त्या न पृथङ्निग्रहस्थानत्वमिति भावः ।

इष्टापादनं मतानुज्ञा इति वर्तते । यथा केनचित् स्वस्य चोरत्वमभ्युपगम्य ‘त्वं चोरः पुरुषत्वात्’ इत्युक्ते ‘तर्हि तत एव तवापि चोरत्वप्रसङ्गः’ इत्येवं स्वपक्षे दोषमनुद्धृत्य आत्मनश्चोरत्वमपरिहृत्येति यावत् । परस्येष्टापाद नंमतानुज्ञेत्यर्थः

॥ विशेषेणेति ॥ ‘स्वपक्षे दोषमनुद्धृत्य’ इत्यस्य व्यावर्त्याभावेन वैयर्थ्यादित्यर्थस् तत्स्वरूपानुवादेनेति मूले इष्टापत्तिरित्यनेन मतानुज्ञास्वरूपानु-वादादित्यर्थः । ननु निग्रहस्थानानामन्तर्भावकथनपरे अन्यच्च इत्यत्रैव अस्या अप्यन्तर्भावे वक्तव्ये तत्रानक्ुत्वा अत्रोक्तौ किं निमित्तम् ? इत्यत उक्तं सिंहावलोकनन्यायेनेति ॥ प्रकृतेति ॥ ‘तदनुभवाभाव इत्युक्ते’ इति मूलवाक्येन प्रकृत यद् दूषणानुमानं तद्दोषस्य तद्दोषभूताया इत्यर्थः ।

वस्तुगत्या एतज्जातीये दूषणानुमाने दोषत्वं, नात्र इत्याशयः ॥ उक्तान्त-र्भावमिति ॥ उक्तेषु विरोधादिनिग्रहस्थानषट्केषु अन्तर्भावमित्यर्थः । इष्टापत्तिरित्य-नन्तरमध्याहार्यमाह ॥ इष्टापादनरूपा मतानुज्ञेति ॥ असङ्गत्यन्तर्भावमुपपादयितुं प्रवृत्तस्य सिद्धसाधनत्वादित्यस्यार्थमाह ॥ परेति ॥ परेणापि स्वस्य चोरत्वमभ्युपगम्यैव ‘त्वं चोरः पुरुषत्वात्’ इत्युक्तत्वेन ‘तर्हि तत एव तवापि चोरत्वप्रसङ्गः’ इत्येवं परं प्रतीष्टापादनरूपाया मतानुज्ञायाः परसिद्धार्थसाधन-रूपत्वेन सिद्धसाधनत्वादिति भावः । ततः किम् ? इत्यत आह ॥ सिद्धसाधनस्य चेति ॥ उक्तमिति ॥ सिद्धासाधकोऽसङ्गत इत्यत्रेत्यर्थः । तथा च असङ्गतम् इत्यतः पूर्वं सिद्धसाधनं चेति शेष एव इत्यत पूर्वम् इत्युक्तमिति शेष इत्युक्तं भवति । असङ्गतत्वमुपपादयति ॥ अनिष्टापादनस्यैवेति ॥ तथा च इष्टापादनरूपमता-नुज्ञाया असङ्गतत्वमेेवेति भावः । तथा च इष्टापत्तिरसङ्गतान्तर्भूता सिद्धसाधनत्वात् । सिद्धसाधनं च असङ्गतमित्युक्तमेव इति वाक्यवृत्तिर्द्रष्टव्या । अनेन यदुक्तं पूर्वं मतानुज्ञायाः प्रयोजनविशेषात् पृथगन्तर्भावं वक्ष्यति इति तत् प्रदर्शितं भवतीति ज्ञातव्यम् । उपसंहरति, विरोधादिनिग्रहस्थानषट्केभ्योऽन्यदूषणं नास्तीति ।

प्रमाणलक्षणटीकाविवरणम्

पूर्वमन्तर्भावकथनकाले मतानुज्ञाया अंतर्भावं प्रयोजनविशेषाद् वक्ष्यतीत्युक्तं तद्वक्तुं प्रसंजयति । स्वेति । व्यभिचारोद्भावनकथनेति । तद्यथा यदि प्रमेयत्वात्पर्वतो वन्हिमान् तर्हि हृदोऽपि स्यादित्यादौ प्रतिबंदीग्रहणं व्यभिचारोद्भावनप्रमेयत्वस्य ह्रदे सत्वेऽपि वन्हित्वस्य भावाद् व्यभिचार इति ।

यदि विपर्ययो नांगीक्रियते तर्हि अनुभव उक्त इति च न स्यादिति प्रतिकूल-तर्कोद्भावनरूपत्वेनेत्यर्थः । विशेषणासामर्थ्यादिति स्वपक्षे दोषमनुपमृद्येति विशेषणेत्यर्थः । नन्वन्तर्भावकथनावसर एवास्याप्यंन्तर्भावो वक्तव्यो ऽत्रान्तर्भाव-कथनमयुक्तमित्यत आह ॥ सिंहेति ॥ स्मृतिसिद्धसाधको सङ्गत एवेत्यनेनेत्यर्थः। असंगतत्वमेवोपपादयति ॥ अनिष्टेति ॥ ननु यथाचार्येण सिद्धसाधको संगत इष्टापत्तिः सिद्धसाधनादसंगतमेव साध्याविशिष्टो सिद्ध इत्यादिना पृथक् पृथक् अन्तर्भाव उक्तस् तथा व्याप्यत्वासिद्धो व्याप्तौ विरुद्धो इत्यादिना पृथकू पृथक् अन्तर्भाव उक्तस् तथा व्याप्यत्वासिद्धो व्याप्ताविति पृथगन्तर्भावः कुत उक्त इत्यत आह ॥ व्याप्त्यभावनादिति ॥ पृथगिति शेषः । ननु सर्वथा अन्यच्चेत्यादिना तदुक्तेरिति बोध्यम् ।