१५ विपर्ययानङ्गीकर्तृमीमांसकमतनिरासः

अथ वा विपर्ययाद्यनङ्गीकारे दूषणान्तरमेतत्

विपर्ययानङ्गीकर्तृमीमांसकमतनिरासः

प्रमाणलक्षणटीका

अथ वा विपर्ययाद्यनङ्गीकारे दूषणान्तरमेतत् । यदि शुक्तिकायां ‘इदं रजतं’ इत्यादिरूपोविपर्ययाद्यनुभवो नास्ति किं तु ? पुरोवृत्यनुभवे सति रजतस्मृतौ तयोः स्वरूपतो विषयतश्च विवेकाग्रहादेव ‘इदं रजतं’ इत्यादिव्यवहार इत्युच्यते तर्हि पुरोवृत्त्यनुभवो रजतस्मृतिश्च नास्तीति वदामः । ज्ञानपूर्वकत्वाद् व्यवहारस्य कथं तदभावेऽसौ स्यात् ? इति चेत् हन्त तर्हि विशिष्टज्ञानपूर्वकत्वाद् विशिष्टव्यवहारस्य कथमसावपि तद्विना स्यात् ।

स्मृत्यनुभवयोरगृहीतविवेकत्वेन विशिष्टज्ञानसादृश्याद् व्यवहार इति चेत् तर्हि अविवेकाग्रहेण अविशिष्टज्ञानसादृश्यात् तदभावस्याप्यापातः स्यात् । तस्माद् विपर्ययादेर्व्यावर्तनीयस्य सद्भावाद् याथार्थ्यमेवोपपन्नं लक्षणमिति ।

प्रमाणलक्षणटीकाभावदीपः

॥ दूषणान्तरमिति ॥ विपरीतज्ञानाभावे तदङ्गीकृतविपरीतव्यव-हाराभावरूपं दूषणान्तरमित्यर्थः ॥ असौ स्यादिति ॥ इदं रजतमिति भ्रमरूपो व्यवहार इत्यर्थः ॥ विशिष्टज्ञानेति ॥ शुक्तिरजतताद•त्म्यविषयकज्ञानेत्यथर्ः ।

॥विशिष्टज्ञानसादृश्यादिति ॥ ‘अयं घटः’ इत्यादौ पुरोवृत्तिघटतादात्म्य-ज्ञानमेकमेवेति तत्र विवेको भेदो न गृह्यत इति अगृहीतविवेकत्वम् । घटादिविशिष्टज्ञान इव इदं , रजतम् इति ग्रहणस्मृतिरूपज्ञानद्वयस्थलेऽपि दोषवशाद् विद्यमानोऽपि विवेको न गृह्यत इति विशिष्टज्ञानसादृश्यात् ‘अयं घटः’ इति विशिष्टव्यवहार इव ‘इदं रजतम्’ इति विशिष्टविपरीतव्यवहार इत्यर्थः

॥ तर्ह्यविवेकाग्रहेणेत्यादि ॥ ‘अयं घटः,अयं पटः’ इति ज्ञानयोर् अविवेको ऽभेदो ऽसत्त्वादेव न गृह्यत इति अभेदाग्र्रहाद् घटपटयोर्विशिष्टशब्दिताभेदव्यवहारो नास्ति यथा, तथैव इदं, रजतम् इति ग्रहणस्मरणरूपज्ञानयोर्विवेक इव अविवेको ऽभेदोऽपि न गृह्यत इत्यविशिष्टघटपटज्ञानसादृश्येन अविवेकागृहेण ‘इदं रजतम्’ इति विशिष्टव्यवहारोऽपि न स्यात् । किं तु घटोऽयं पटोऽयमितिवद् इदंरजते इति व्यवहारः स्यादित्यथर्ः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ दूषणान्तरमेतदिति ॥ अनुभवविरोधरूपमेकं दूषणं पूर्ववाक्येनाक्त्वातदनुभवाभाव इति वाक्येन दूषणान्तरमुच्यत इत्यर्थः । रजतस्मृति-श्चेत्यनन्तरम् इति ज्ञानद्वयमपीति शेषः ॥ ज्ञानपूर्वकत्वादिति ॥ व्यवहारस्य लोके व्यवहर्तव्यज्ञानपूर्वकत्वदर्शनात् । तदभावे स्मृत्यनुभवरूपज्ञानद्वयाभावे इदमिति व्यवहारो रजतमिति व्यवहारश्च कथं स्यात् ? इत्यर्थः । तथा च तदन्यथानुपपत्त्या ज्ञानद्वयसिद्धिरिति भावः

॥ हन्त तर्हीति ॥ ‘अयं घटः’ इत्यादिविशिष्टव्यवहारस्य विशिष्टज्ञान-पूर्वकत्वदर्शनात् । असावपि ‘इदं रजतम्’ इति विशिष्टव्यवहारोऽपि । तद्विना ‘इदं रजतम्’ इति भ्रमरूपविशिष्टज्ञानं विना । कथं स्यात् ? अतस्तदन्यथानुपपत्या विपर्ययसिद्धिरिति भावः । अत्र व्यवहारशब्देन प्रवृत्तिरप्यभिमता । तथा च लोके प्रवृत्तेर्विशिष्टज्ञानसाध्यत्वदर्शनाद् भ्रमरूपविशिष्टज्ञानाभावे प्रवृत्तिरेव न स्यात् । अतस्तदन्यथानुपपत्त्यापि भ्रमसिद्धिरित्यपि योज्यम् । अन्यथा उत्तरग्रन्थासङ्गतेरिति द्रष्टव्यम् ।

शङ्कते ॥ स्मृत्यनुभवयोरिति ॥ विवेको भेदः । सादृश्याद् भेदाग्रहरूपात् । ‘अयं घटः’ इत्यादिविशिष्टज्ञाने भेदस्याभावादेव भेदाग्रहोऽस्ति । अत्रापि ज्ञानद्वये विद्यमानस्यापि भेदस्य अग्रहोऽस्ति । भेदग्रहे हि प्रवृत्तिरेव न स्यात् । अतो विशिष्टज्ञानसादृश्याद् भेदाग्रहाद् व्यवहारः प्रवृत्तिर्युक्तेत्यथर्ः । अविवेकोऽभेदः ॥ अविशिष्टज्ञानेति ॥ भेदाग्रहमात्रेण प्रवर्तकविशिष्टज्ञानसदृशं यत् ‘इदं रजतम् ‘इति ज्ञानं तद्भिन्नं यत् ‘नेदं रजदम्’ इति ज्ञानं भेदग्रहेण निवृत्तिजनकं तद् विशिष्टज्ञानमित्युच्यते । तत्सदृशोऽभेदाग्रहस् तस्मात् । तदभावस्य प्रवृत्तिरूपव्यवहाराभावस्यापि आपातादित्यर्थः । ‘नेदं रजतम्’ इति ज्ञानविषय-योर्भेदग्रहस्यैव सत्त्वेन अभेदस्य अभावादेव अभेधाग्र्नहोऽस्ति । ‘इदं रजतम्’ इत्यत्रापि अभेदाग्रहोऽस्ति । अभेदग्रहेत्वन्मते अन्यथाख्यात्यापत्तेः । तथा च इदं ज्ञानद्वयं प्रवर्तकविशिष्टज्ञानसादृश्याद् भेदाग्रहाद् यदि प्रवृत्तिमुपजनयेत् तर्हि निवर्तकाविशिष्टज्ञाननिष्ठभेदग्रहसादृश्याद् अभेदाग्रहान् निवृत्तिमपि कुतो न जनयेत् ? इति भावः । व्यावर्त्यस्य यथावस्थितपदव्यावर्त्यस्य । याथार्थ्यमेव लक्षणमुपपन्नमित्यन्वयः ।

प्रमाणलक्षणटीकाविवरणं

तस्मात् परोक्तलक्षणानामप्रामाणिकत्वात् स्वोक्तलक्षणमेव युक्तमित्यभिप्रेत्योपसंहरति ॥ तथाचेति ॥ मिथ्याज्ञानादेरित्यत्र मिथ्याज्ञानशब्दार्थ-माह विपर्ययवृत्तिरादिशब्दार्थः संशय इति । अतः परं स्पष्टो ग्रन्थः ।