लिङ्गत्वेन प्रामाण्ये कल्पनागौरवं दृष्टहानिश्च
स्मृतेरनुमानत्वेन प्रामाण्यमिति पक्षनिरासः
प्रमाणलक्षणटीका
सत्यम् , स्मृतिरेवानुभूते प्रमाणम् । किं नाम ? लिङ्गत्वेनैव । पटुतरो ह्यनुभवः संस्कारं जनयति । स च सदृशदर्शनादिना समुद्वुद्धः स्मृतिमिति । संस्कारजन्या स्मृतिः संस्कारे लिङ्गम् । स च पूर्वानुभवे भविष्यति । अतो नानुभूतस्याप्रामाणिकत्वं नापि लक्षणस्याव्याप्तिः स्मृतेरपि सम्यगनुभवसाधनत्वादित्यत आह
प्रमाणलक्षणम्
***लिङ्गत्वेन प्रामाण्ये कल्पनागौरवम् ***
यदि स्मृतेर्लिङ्गत्वेन प्रामाण्यं कल्प्यते तर्हि कल्पनागौरवं स्यात् । साक्षाद् अर्थ एव प्रामाण्यसम्भवेऽपि स्मृतेः संस्कारे लिङ्गत्वं, तस्यानुभव इत्यप्रामाणिकस्यानेकस्य कल्प्यमान-त्वादिति । दोषान्तरं चाह
***दृष्टहानिश्च ***
यदि स्मृतेर्लिङ्गत्वेन प्रामाण्यं तर्हि पृथक्प्रमाणतया दृष्टस्य अपि प्रत्यक्षादेर् लिङ्गत्वमेव स्यात् तत्रापि प्रत्यक्षादिना कर्मकारकस्यार्थस्यानुमानसम्भवात् ।
अतः प्रत्यक्षादिवत् स्मृतेरपि साक्षात्प्रामाण्यात् तत्राव्याप्तं परोक्तप्रमाणलक्षणमयुक्तमेवेति यथावस्थिता-र्थविषयत्वमेव लक्षणमुपपन्नमिति ।
प्रमाणलक्षणटीकाभावदीपः
॥ प्रागादिशब्देनेति ॥ ईश्वरज्ञानादावित्यादिशब्देनेत्यर्थः । ज्ञाने अव्याप्तिसमर्थनार्थमेव एतावतो ग्रन्थस्य प्रवृत्तत्वाद् इदानीम् आदिपदसङ्गृहीतोक्ते-रवसर इति भावः ॥ तत्रेति ॥ अव्याप्त्यभिधाने कृते सतीत्यर्थः ।
॥ साधितत्वादिति ॥ स्मृत्यनुवादयोर्नाप्रामाण्यं यथार्थत्वानुभवाद् इत्यत्रेति भावः । अर्धाङ्गीकारेण शङ्गते ॥ सत्यमित्यादिना ॥ धूमेनाग्निरिव स्मृतिरूपकार्येण संस्कारमनुमाय तेन तत्कारणानुमानमिति परम्परया स्मृतिरनुभवे लिङ्गमिति भावेन कार्यकारणभावं व्यनक्ति ॥ पटुतरो हीत्यादिना ॥ सदृशदर्शनादिनेति ॥ अदृष्टादिरादिपदार्थः ॥ स्मृतिमिति ॥ जनयतीत्यनुकर्षः ॥ सम्यगनुभवसाधनत्वादिति ॥ संस्कारानुमिति रूपसम्यगनुभवसाधनत्वा-दित्यर्थः ।
॥ प्रत्यक्षादेरिति ॥ साक्षात्कारज्ञानस्य शाब्दज्ञानस्य च ‘क्रियां कुर्वद्धि कारकम् ‘इति कर्मकारकजन्यत्वेन अपरोक्षादिरूपकार्यलिङ्गेन घटादेः कारकस्य अनुमानेन सिद्धिरिति स्यात् । तथा च घटादिरप्यनुमेय एवेत्यापद्येतेति अनुमानमेक-मेव प्रमाणमिति स्यादित्यर्थः । अत एव कर्मकारकस्येत्युक्तम् ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
शङ्कते ॥ यथार्थस्मृताविति ॥ प्राकृ आदिशब्देन सङ्गृहीतेति शेषः । तथा च पूर्वम् ईश्वरज्ञानादावव्याप्तेर् इत्यत्रत्यादिशब्देन अस्मदादिज्ञानस्यापि गृहीतत्वेन यथार्थस्मृतिरूपे अस्मदादिज्ञानेऽप्यव्याप्तिरित्युक्तम् । तत्र स्मृतिर्न प्रमाणमित्यर्थः । यद्वा उत्तरवाक्यमुत्थापयितुं मूलमुपलक्षणपरम् इत्यभिपे्रत्याह ॥ यथार्थस्मृताविति ॥
तस्योपरि शङ्कते ॥ तत्रेति ॥ कुतोे न वाच्यम् ? इत्यत आह ॥ साधितत्वा-दिति ॥ स्मृत्यनुवादयोर्नाप्रामाण्यं यथार्थत्वानुभवाद् वेदानुमानादिप्रामाण्य-प्रसिद्धेश्च इत्यादिना स्मृतिप्रामाण्यस्य साधितत्वादित्यर्थः ॥ स्मृतिं विनेति ॥ कार्यस्यैव कारणप्रमापकत्वादिति भावः ।
शङ्कते ॥ सत्यमित्यादिना ॥ लिङ्गत्वेनैवेति ॥ अनुभूतेऽर्थे केवलत्वेन साक्षात्स्मृतित्वेन प्रामाण्यं नास्तीत्याशयः । निर्विकल्पकानुभवस्य संस्कारजनकत्वा-भावात् पटुतर इत्युक्तम् । सविकल्पकानुभव इत्यर्थः । संस्कारमात्रस्य स्मृतिजनकत्वा-भावात् समुद्बुुद्ध इत्युक्तम् । समुद्बोधलक्षणसमकार्युपेत इत्यर्थः । समुद्बोधकारण-प्रदर्शनाय सदृशदर्शनादिनेत्युक्तम् । आदिपदेन अदृष्टचिन्तादिग्रहणम् । यथोक्तं परैः सदृशादृष्टचिन्ताद्याः स्मृतिवीजस्य बोधकाः ॥ इति । स्मृतिबीजं संस्कारस् तस्य बोधका उद्बोधका इति तदर्थो द्रष्टव्यः । स्मृतिं जनयति इति वर्तते । ततः किं प्रकृते ? इत्यत आह ॥ संस्कारजन्येति ॥ तथा च इति शेषः । ‘अयं संस्कारवान् स्मृतिमत्त्वाद् यो यत्कार्यवान् स तत्कारणवान्’ इति सामान्यव्याप्तेरिति भावः ।
स च संस्कारः । भविष्यति लिङ्गमिति वर्तते । ‘अयं पूर्वानुभववान् संस्कार-वत्वात्’ इत्यनुमानं द्रष्टव्यम् । अत्र स्वरूपासिद्धिपरिहाराय पूर्वानुमानमिति बोध्यम् ॥ स्मृतेरपीति ॥ संस्कारद्वारेति शेषः ॥ सम्यगनुभवेति ॥ ‘अयमनुभववान्’ इतिपूर्वानुभवविषयको यः सम्यगनुभवोऽनुमितिरूपस् तत्साधनत्वेन अनुमाने अन्तर्भावादित्यर्थः ।
॥ साक्षादर्थ एवेति ॥ पूर्वानुभवविषयीकृते घटादिरूपार्थविषय एव साक्षात्प्रामाण्यं केवलप्रमाणतवं, तस्य सम्भवेऽपीत्यर्थः । साक्षाद्यथावस्थितज्ञेय-विषयीकारित्वरूपकेवलप्रमाणत्वसम्भवेऽपि उक्तरीत्या सम्यगनुभवसाधनत्वरूपा-नुप्रमाणत्वाङ्गीकारेगौरवमिति भावः ।
॥ पृथगित्यादि ॥ साक्षाद्धटादिविषयप्रमितिरूपतया ‘घटज्ञानवानहम्’ इत्याद्यनुव्यवसायविषयीकृतस्य ‘अयं घटः’ इत्यादिज्ञानस्यापि अर्थे लिङ्गत्वेनैव प्रामाण्यं स्यात् । न पृथक् प्रत्यक्षत्वेन प्रामाण्यमित्यर्थः । तदेव विवृणोति ॥ तत्रापीति ॥ ‘अयं घटः’ इत्यादिप्रत्यक्षस्थलेऽपि ॥ प्रत्यक्षादिना ‘अयं घटः’ इत्यादिज्ञानरूप कार्येण ॥ कर्मकारकस्येति ॥ कर्मतया जनकस्येत्यर्थः ॥ अनुमानसम्भवादिति ॥ सौत्रान्तिकमतानुसारेणेति शेषः । सौत्रान्तिकमते ज्ञानातिरिक्तः सर्वोप्यर्थप्रपञ्चोऽनुमेय एव । न तु प्रत्यक्षः । ज्ञानमेव नीलाद्याकारं प्रत्यक्षवेद्यम् । इदं च कादाचित्कत्वात् किमपि कारणमपेक्षमाणं बाह्यमर्थमनुमापयिष्यतीति भावः । यथोक्तमनु व्याख्याने
विश्वं प्रत्यक्षगं त्यक्त्वा तयोर्योऽनुमितिं वदेत् ॥ इति ।
यद्वा ‘विमतं स्थलं घटवद्भवितुमर्हति तद्वत्वेनोपलभ्यमानत्वात्’ इति प्रयोगसम्भवेन प्रत्यक्षस्याप्यर्थे लिङ्गत्वसम्भवेन पृथक्प्रामाण्यं न स्यादित्यर्थः । अतोऽत्र लिङ्गत्वेन प्रामाण्यकल्पने दृष्टहानिरित्येव त्वया वाच्यम् । तद् अस्माकमपि समानमिति भावः । उपसंहरति ॥ अत इति ॥ साक्षात्प्रमाण्यात् । अर्थ एवेति शेषः ॥ साक्षादिति ॥ न लिङ्गत्वेनेत्यर्थः । इति सिद्धमिति शेषः ।
प्रमाणलक्षणटीकाविवरणं
साधितत्वादिति ॥ स्मृत्यनुवादयोर्नाप्रामाण्यं यथार्थानुभवत्वाद् वेदानुमानादिप्रामाण्यप्रसिद्धेश्च । स्मृतिप्रत्यक्षमैतिह्यमित्यादियुक्त्यादिना प्रामाण्यस्य साधितत्वाद् इत्यर्थः ।
अनुभवमात्रस्य संस्कारजनकत्वाभावादाह पटुतर इति । संस्कारसत्वेऽपि स्मृतेरभावादाह समुद्बुद्ध इति । सदृशदर्शनादिति समुद्बोधे कारणोक्तिः ।अत एवोक्तं परेणापि सदृशा दृष्टचिन्ताद्याः स्मृतिबीजस्य बोधका इति स च संस्कारः भविष्यति लिंगमिति शेषः । अन्यस्याप्यर्थे लिंगत्वमेव स्यात् । विमतं स्थलं घटवत् तत्वेनोप-लक्ष्यमानत्वादित्यनुमानप्रयोगसंभवादिति भावः ।