स्वप्रकाशात्माङ्गीकारे तत्राव्याप्तेः
तार्किकोक्तप्रमाणलक्षणस्य साक्षिण्यव्याप्तिः
प्रमाणलक्षणटीका
एवं स्वप्रकाशात्मरूपसाक्षिज्ञानस्य प्रमाणप्रामाण्यज्ञाना-र्थमङ्गीकारे किं स्यात् ? इत्यत आह
प्रमाणलक्षणम्
***स्वप्रकाशात्माङ्गीकारे तत्राव्याप्तेः ***
स्वप्रकाशात्मभूतसाक्षिज्ञाने प्रमाणे अङ्गीकृते तस्य सम्यगनुभवत्वेन तत्साधनत्वाभावात् तत्राव्याप्तेरयुक्तमेत-ल्लक्षणमिति ।
प्रमाणलक्षणटीकाभावदीपः
॥ वक्तुमिति ॥ स्वयंप्रकाशाङ्गीकारे तत्राव्याप्तेर् इति वाक्येन वक्तुमित्यर्थः ॥ तस्येति ॥ साक्षिण इत्यर्थः । आधारविषयाद्यर्थकत्वासम्भवादाह ॥ तादर्थ्य इति ॥ ‘चर्मणि द्वीपिनं हन्ति’ इत्यादौ चर्मार्थमितिवत् प्रामाण्यज्ञानार्थमित्यर्थ इति भावेनाह ॥ प्रामाण्यज्ञानार्थमिति ॥ सम्यगनुभवसाधनमेवेति ॥ समर्थप्रवृत्तिजनकत्वादिरूपानुमानमेवेत्यर्थः ।
॥ न स्यादिति ॥ प्रामाण्यमित्यनुषङ्गः । तस्य स्वप्रकाशत्वे किं मानम् ? इत्यत आह ॥ मामहमित्यादि ॥ आत्मनः स्वप्रकाशत्वे साक्षिणः किमायातम् ? इत्यत आह ॥ साक्षिणश्चेति ॥ प्रमाणप्रामाण्येति ॥ प्रमाणानां प्रामाण्यज्ञानार्थमित्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
साक्षिज्ञाने साक्षिरूपज्ञाने ॥ वक्तुमिति ॥ स्वप्रकाशात्माङ्गीकारे तत्राव्याप्तेर् इत्यत्रेत्यर्थः । मूलं योजयति ॥ प्रामाण्यज्ञानार्थमिति ॥ प्रत्यक्षादिसर्वप्रमाणानां प्रामाण्यज्ञानार्थमित्यर्थः ।
शङ्कते ॥ प्रामाण्यज्ञानार्थमपीति ॥ प्रत्यक्षादिज्ञानप्रामाण्यज्ञानार्थमित्यर्थः ॥ किञ्चिदिति ॥ समर्थप्रवृत्तिजनकत्वादिरूपं लिङ्गान्तरमेवेत्यर्थः । ज्ञानं मानसावसेयं प्रामाण्यं पुनरनुमानेनेति प्रामाण्यस्य परतस्त्वाङ्गीकारादिति भावः । तत्रापीत्यस्य तदर्थमपि इत्यर्थमभिप्रेत्य व्याचष्टे ॥ यदीति ॥ सम्यगनुभवसाधनमिति ॥ अनुमानमित्यर्थः । प्रामाणिकं प्रमाणसिद्धम् ॥ न स्यादिति ॥ प्रामाण्यग्राहकं न स्यादित्यर्थः । स्वयमसिद्धप्रामाण्यकस्य अन्यप्रमाणप्रामाण्यप्रमापकत्वासम्भवादिति भावः । सिद्धं ग्राह्यम् ॥ अन्यत्रापीति ॥ प्रत्यक्षादिप्रमाणप्रामाण्यग्राहकानुमानप्रामाण्यस्य स्वेनैव सिद्धत्वाङ्गीकारे तद्वदेव प्रत्यक्षादिप्रामाण्यस्यापि स्वेनैव ग्राह्यत्वाङ्गीकारप्रसङ्गेन ग्राहकान्तराङ्गीकारा-योगादित्यर्थः ॥ तस्मादिति ॥ तथा च स्वतस्त्वमेव अङ्गीकार्यमिति भावः ॥ साक्षिज्ञानेनैवेति ॥ ज्ञानग्राहकेणैवेत्यर्थः ।
ननु यदि प्रत्यक्षादिप्रमाणप्रामाण्यग्राहकं साक्षिरूपं ज्ञानमित्यङ्गीक्रियते तर्हि तत्प्रामाण्यमपि प्रमाणसिद्धं न वा ? नेति पक्षे स्वयमसिद्धप्रामाण्यकस्य अन्यप्रामाण्यप्रमापकत्वासम्भवात् । आद्ये किं स्वेनैव सिद्धं ? प्रमाणान्तरेण वा ? नाद्यः प्रत्यक्षादिप्रामाण्यस्यापि साक्षिवत् स्वेनैव ग्राह्यत्वप्रसङ्गेन साक्षिवेद्यत्वाङ्गी-कारायोगात् । द्वितीये साक्षिप्रामाण्यमपि पुनः प्रमाणान्तरेण वेद्यं तस्याप्येवमिति भवन्मतेऽपि अनवस्था स्यादेव इत्यत आह ॥ तस्य चेति ॥ साक्षिरूपज्ञानस्येत्यर्थः ॥ स्वप्रकाशत्वेनेति ॥ स्वविषयकज्ञानरूपत्वेनेत्यर्थः ।
स्यादेतदेवं , यदि साक्षिणः स्वप्रकाशत्वमेव स्यात् । तदेव नास्ति प्रमाणा-भावाद् इत्यतोऽनुभव एव तत्र प्रमाणमित्याह ॥ मामहमिति ॥ दर्शनादिति ॥ अनुभूयमानत्वादित्यर्थः । नन्वेतत् ‘कर्णे स्पृष्टे कटिं चालयति’ इति न्यायमनुसरति । साक्षिणः स्वप्रकाशत्वे प्रमाणाभावेन आक्षिप्ते आत्मनः स्वप्रकाशत्वमनुभव-सिद्धमित्युच्यते । अतोऽसङ्गतमेतद् इत्यत आह ॥ साक्षिणश्चेति ॥ आत्मन एव साक्षित्वादिति भावः । तथा च आत्मन एव साक्षिचैतन्यरूपत्वेन तस्य स्वप्रकाशत्वे अनुभवबलेन सिद्धे सति साक्षिण एव तत् सिद्धं भवतीति भावः।
नन्वेवमेव ‘अयं घटः’ इत्यदिवृत्तिज्ञानानामेव स्वप्रकाशत्वमङ्गीकृत्य स्वप्रामाण्यग्राहकत्वमङ्गीक्रियतालाघवात् । किं साक्षिवेद्यत्वमङ्गीकृत्य तस्य स्वप्रकाशत्वेन स्वप्रामाण्यग्राहकत्वाङ्गीकरणेन ? गौरवाद् इति चेन्न । वृत्तिज्ञानानां जडत्वेन स्वप्रकाशत्वसाधकाभावात् । साक्षिणश्च चेतनत्वेन तत्साधकस्योक्ता-नुभवस्यैव सत्त्वात् । प्रमाणवतो गौरवस्य अदोषत्वादित्यवधेयम् ॥ स्वरूपेति ॥ स्वरूपभूतेत्यर्थः । सम्यगनुुभवत्वेन सम्यगनुभवस्वरूपत्वेन ।
प्रमाणलक्षणटीकाविवरणम्
अधिकरणत्वासंभवादाह तादर्थ्य इति । न स्यात् प्रामाण्यग्रहण-मिति शेषः सर्वत्रापीति । प्रथमस्य स्वयमेव प्रामाण्यग्राहकत्वं स्यात् । तथा च तत्र गा्रहकान्तरांगीकारविरोध इति अर्थः । पूर्वस्यैव तत्प्रामाण्यग्राहकत्वे अन्योन्याश्रयादिकमपि बोध्यम् । न चैवं साक्षिणोरपि प्रामाण्यग्राहकत्वं न संभवति। अगृहीतप्रमाण्यभावस्य साक्षिणः प्रामाण्यग्राहकत्वे परोक्तस्याप्यगृहीतप्रामाण्य-भावस्यैव तद् गा्रहकत्वापत्याऽनवस्थानं स्यात् । तस्माद् गृहीतप्रामाण्यभावस्यैव तदिति वाच्यं तद्ग्राहकसाक्षिणोऽप्येवमिति अनवस्था स्यादित्यत आह ॥ तस्य चेति ॥ स्यादेतदेवं यदि साक्षिणः स्वप्रकाशत्वं स्यत् । तदेव नास्ति तत्र प्रमाणाभावादित्यतो ऽनुभवमेव तत्र प्रमाणयति ॥ मामहमिति ॥
नन्वाम्लान् पृष्टः कोविदारानाचष्ट इव असंगतं भाति । यतः कुतः साक्षिणः प्रमाणत्वमित्युक्ते तदनुक्त्वा आत्मनः स्वप्रकाशत्वेऽनुभवः प्रमाणीक्रियते इति चेत् । आत्मन एव साक्षित्वात् । तस्य स्वप्रकाशत्वे अनुभवेन सिद्धे साक्षिण एव तत्सिद्धं भवति इत्याशयवानाह ॥ साक्षिणश्चेति ॥