वेदादिप्रामाण्यप्रसिद्धेश्य
स्मृतिप्रामाण्यसमर्थनम्
प्रमाणलक्षणटीका
स्मृत्यादेः सति प्रामाण्ये भवेदव्याप्तिदोषः । तदेव कुतः? इत्यत आह
प्रमाणलक्षणम्
***वेदादिप्रामाण्यप्रसिद्धेश्य ***
अत्र आदिपदेन स्मृत्यादिग्रहणम् । प्रसिद्धिर्लौकिकी । न हि सा निर्मूला याथार्थ्यहेतुसिद्धा । श्रौती चास्तीत्याह
‘‘स्मृतिः प्रत्यक्षमैतिह्युमनुमानश्चतुष्टयम् ।
***प्रमाणमिति विज्ञेयं धर्माद्यर्थे बुभूषुभिः’’ ***
***इति श्रुतेश्च। ***
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
स्मृत्यादीत्यत्रादिपदेन प्रत्यक्षरूपानुप्रमाणानुवादादेश्च संग्रहः । श्रौतप्रसिद्धेरुत्तरत्र वक्ष्यमाणत्वादाह ॥ प्रसिद्धिलौकिकीति ॥ लौकिकानां प्रसिद्धिरित्यर्थः । ननु लौकिकी प्रसिद्धिरप्रमाणमिति चेत्, किं निर्मूलत्वाद् अप्रमाणम् ? तत्साधकाभावाद्वा ? नाद्य इत्याह ॥ न हीत्यादिना ॥ निर्मूला अप्रामाणिकी न हि । किं तु ? समूलैवेत्यर्थः । नापि द्वितीय इत्याह ॥ याथार्थ्य-हेत्विति ॥ ‘लौकिकी प्रसिद्धिः प्रमाणमिति व्यवहर्तव्या यथार्थत्वात्’ इति याथार्थ्यहेतुसिद्धप्रामाण्यका चेत्यर्थः । यथावस्थितार्थज्ञेयविषयीकारित्वरूपं याथार्थ्यं च बाधकाभावादिना द्रष्टव्यम् । श्रौती श्रुतिसिद्धा प्रसिद्धिः ।
प्रमाणलक्षणटीकाविवरणं
श्रौतः प्रसिद्धेर् उत्तरत्र वक्ष्यमाणत्वेनात्रापि तदुक्तौ पोनरुक्त्य-मित्यत आह ॥ प्रसिद्धेरिति ॥ ननु स्मृत्यादेः प्रामाण्ये हेतुर्नास्ति इत्युक्ते प्रसिध्युपन्यसो युक्तः । प्रसिद्धेरप्रमाणत्वादित्यत आह ॥ नहीति ॥ एवं च प्रसिद्धिमूलभूतमेव तत्र प्रमाणमिति भावः ।