०४ भाट्टप्रमाणसामान्यलक्षणनिराकरणम्

न प्रमासाधनं प्रमाणं ज्ञानव्यतिरिक्तप्रमायां प्रमाणाभावात्

भाट्टप्रमाणसामान्यलक्षणनिराकरणम्

प्रमाणलक्षणटीका

एवं प्रमाणतदाभासस्वरूपं निरूप्य स्वोक्तलक्षणदृढी-करणाय वाद्यन्तरोक्तलक्षणानि निराकुर्वन् भाट्टानां लक्षणं तावन्निराचष्टे

प्रमाणलक्षणम्

***न प्रमासाधनं प्रमाणम् ***

प्रमेयगतं ज्ञाततापरपर्यायं प्राकट्यं प्रमेत्युच्यते । तत्साधनं प्रमाणम् । अत्र प्रमाग्रहणं कुठारादिव्यावृत्त्यर्थम् । साधनग्रहणं प्रमायामतिव्याप्तिं प्रत्यक्षादावसम्भवं च व्यवच्छिनत्ति ।

न चेन्द्रियसन्निकर्षादावव्याप्तिः । ज्ञानस्यैव मुख्यतः प्रामाण्यात् । न च भ्रमादावतिव्याप्तिः । अर्थानुसारिणो ज्ञातता विशेषस्यैव प्रमात्वात् । भ्रमादिना च तदजननात् । इदमित्या-द्याकारेण जननेऽपि तत्र प्रामाण्याभ्युपगमात् । ज्ञाते पुन-र्ज्ञाततानुदयेन न स्मृतावतिव्याप्तिः । साधनग्रहणेनैव प्रमात्रा-दिव्युदास इति । तदेतल्लक्षणं नोपपद्यते । कुतः ? इत्यत आह

***ज्ञानव्यतिरिक्तप्रमायां प्रमाणाभावात् ***

प्रमेयाश्रयायाः प्रमाया एवाभावेन असम्भवित्वादयुक्त-मिदं लक्षणम् । न हि प्रमेयनिष्ठप्रमायां प्रमाणमस्ति । ज्ञातो घटः ,प्रकटो घट इति प्रमेयधर्मतया प्रमा प्रत्यक्षत एवानुभूयत इत्यत उक्तम् ॥ ज्ञानव्यतिरिक्तेति ॥ ज्ञातो घट इत्यादौ हि ज्ञानमेवप्रमेयविशेषणतया दृश्यते । न तु ततोऽन्या प्रमेति । न च आत्मधर्मस्य ज्ञानस्य प्रमेयविशेषणताऽनुपपत्तिः । इष्टो घट इत्यादावपि तदभावापातात् । विषयविषयिभावात् तत्रोपपत्तिरिति चेत् समं प्रकृतेऽति ।

न च वाच्यं ज्ञातताऽभावे ज्ञानस्य विषयनियम एव अयुक्तः । यदाकारं यद् विज्ञानं तत् तद्विषयमिति हि बौद्धानामेव शोभत इति । तथा सति इच्छादीनामपि विषय-नियमाभावप्रसङ्गादिति ॥ करणविषयतया तत्रोपपत्तिरिति चेत् तुल्यम् । अन्यथा तेनैव ज्ञानेन अत्रैव ज्ञातता जायत इति नियमो न स्यादिति ।

प्रमाणलक्षणटीकाभावदीपः

॥ ज्ञानस्यैव मुख्यतः प्रामाण्यादिति ॥ ज्ञानस्यैव साक्षाज् ज्ञातताशब्दितप्रमासाधनत्वात् सन्निकर्षस्य तु तद्द्वारेति इह साक्षात्साधनमेव अभिमतमिति भावः ॥ भ्रमादाविति ॥ भ्रमे तत्साधने चेत्यर्थः । तयोरपि मुख्यामुख्यतः प्रमासाधनत्वादिति भावः । यद्वा आदिपदेन संशयग्रहः ॥ अर्थानुसारिण इति ॥ सत्यभूतवस्त्वनुसारिणो भ्रमविषयव्यावृत्तस्य ज्ञातता-विशेषस्यैव प्रमात्वादित्यर्थः ॥ न स्मृताविति ॥ तद्विषये ज्ञाततानुदयेन तत्र ज्ञाततासाधनत्वाभावादिति भावः ॥ प्रमात्रादीति ॥ तस्य प्रमां प्रति हेतुत्वेऽपि साधनत्वाभावादिति भावः।

॥ न चात्मधर्मस्येति ॥ पररीत्येयमुक्तिः । स्वामितासम्बन्धेन आत्म-धर्मस्येति वा ॥ विषयविषयीति ॥ आन्तरस्यैव इच्छादेर् विषयविषयिभावरूप-सम्बन्धेन बाह्यर्थं विशेष्यतया इच्छादिकं विशेषणतया साक्षी वा मानसानुव्यवसायो वा गृह्णातीति चेत् समं ज्ञानेऽपीत्यर्थः ॥ करणेति ॥ करणानामपि ज्ञानादेरिव सविषयकत्वात् तद्विषया एव इच्छाद्वेषादिविषयाश्चेज् ज्ञानेऽपि तथात्यर्थः ॥ अन्यथेति ॥ करणकृतनैयत्याभाव इत्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

असङ्गतिपरिहारायोक्तम् ॥ स्वोक्तलक्षणदृढीकरणायेति ॥ यथार्थं प्रमाणम् इति स्वोक्तलक्षणदृढीकरणायेत्यर्थः । तदीयग्रन्थेषु ‘प्राकट्यसाधनं ज्ञानं प्रमाणम्’ इति व्यवहृतम् । अतोऽसदनुवादोयमिति शङ्कावारणाय ज्ञाततापरपर्यायं प्राकट्यमित्युक्तम् । प्रमेयगतमित्यनेन ‘ज्ञातो घटः, प्रकटो घटः’ इति प्रत्यक्षमपि तत्र प्रमाणमिति सूचयति ॥ कुठारादीति ॥ साधनं प्रमाणमित्युक्ते कुठारादावतिव्याप्तिः स्यात् । तदर्थं प्रमाणग्रहणमित्यर्थः । प्रमायां ज्ञाततायम् । प्रत्यक्षादौ ‘अयं घटः’ इत्यादिज्ञाने । तथा च प्रमा प्रमाणम् इत्युक्ते ज्ञाततायामेव अतिव्याप्तिर् लक्ष्यभूते ज्ञाने असम्भवश्च । अतः साधनग्रहणमित्यर्थः ।

॥ इन्द्रियसन्निकर्षदाविति ॥ ज्ञानस्यैव ज्ञाततासाधनत्वेन इन्द्रियसन्नि-कर्षलिङ्गादेस् तदभावादव्याप्तिरित्यर्थः ॥ ज्ञानस्यैवेति ॥ तथा च इन्द्रियसन्निकर्षादेः प्रामाण्यानङ्गीकारान् न तत्राव्याप्तिर्दोष इति भावः ॥ भ्रमादाविति ॥ ज्ञातता-साधनत्वस्य भ्रमरूपज्ञानेऽपि सत्त्वादित्यर्थः ॥ अर्थानुसारिण इति ॥ यथाव-स्थितार्थगतस्येत्यर्थः । प्रमात्वात् प्रमाशब्दवाच्यत्वात् । तथा च ज्ञातताविशेषसाधनं प्रमाणमिति लक्षणार्थाे द्रष्टव्यः ।

॥ तदजननादिति ॥ ज्ञातताविशेषस्य अजननादित्यर्थः । तथा च तत्रार्थस्यैवाभावेन भ्रमेण तत्र ज्ञातताविशेषस्य अजननाज् ज्ञातताविशेष साधनत्व-लक्षणस्य न भ्रमेऽतिव्याप्तिरिति भावः ।

नन्विदमंशस्य यथार्थत्वात् तदंशे ज्ञातताविशेषजनकत्वं भ्रमेऽस्तीति पुनरतिव्याप्तिरेव इत्यतस् तदंशे प्रामाण्यस्यापि सत्त्वेन लक्ष्यत्वात्् नातिव्याप्तिरित्याह ॥ इदमित्याद्याकारेणेति ॥ ‘तद्विषयत्वमेव तदाकारत्वम्’ इति वचनाद् इदमंशविषयकज्ञानेनेत्यर्थः । जननेऽपि ज्ञातताया इति शेषः । तत्र तदंशे ।

ननु स्मृतेरपि ज्ञाततासाधनत्वाद् अतिव्याप्तिरित्याशङ्क्य निराकरोति ॥ ज्ञाते पुनरिति ॥ स्मृतिविषयभूतार्थस्य पूर्वानुभवेनैव ज्ञातत्वेन तेनैव तत्र ज्ञातताय उत्पन्नत्वादिति भावः ॥ साधनग्रहणेनैवेति ॥ प्रमाकारणं प्रमाणमित्युक्ते प्रमातुरात्मनो घटादेः प्रमेयस्यापि ज्ञानद्वारा तत्कारणत्वादतिव्याप्तिः स्यात् । अतः साधनग्रहणम् । तथा च आत्मादेः करणत्वाभावात् तेन तद्व्युदास इत्यर्थः । प्रमात्रादीत्यादिपदेन प्रमेयग्रहणम् ।

॥ प्रत्यक्षत एवेति ॥ अनुव्यवसायरूपादेवेत्यर्थः ॥ ज्ञानव्यतिरिक्तेतीति ॥ तथा च प्रत्यक्षस्य ज्ञानविषयकतया अन्यथासिद्धत्वान् न ज्ञातताविषयकत्वमिति भावः । तदेवोपपादयति ॥ ज्ञातो घट इत्यादाविति ॥ इत्यादौ अनुव्यवसाये ॥ प्रमेयविशेषणतयेति ॥

अयं भावः, क्रिया हि कर्तृस्थैव । सा यदि कर्तृप्राधान्येन व्यवह्रियते तदा कर्तृधर्मतया प्रतीयते । यथा देवदत्तो घटमिच्छति द्वेष्टि इति । यदा च कर्मप्राधान्येन तदा तद्धर्मतया । यथा इष्टो द्विष्ट इति । यदापुनः स्वप्राधान्येन तदा स्वतन्त्रैव । यथा इच्छा द्वेष इति । एवं कर्तृभूतात्मगता ज्ञानरूपा क्रियाऽपि यदा कर्तृप्राधान्येन व्यवह्नियते तदा देवदत्तो जानाति’ इति कर्तृधर्मतया प्रतियते यदा तु स्वप्राधान्येन व्यवह्नियते तदा स्वतन्त्रैव प्रतीयते । यथा ज्ञानम् इति । यदा पुनः कर्मप्राधान्येन व्यवह्रियते तदा ज्ञातो घट इति कर्मंभूतप्रमेयधर्मंतया प्रतीयत इति किमनुपपन्नम् ? इति

॥ न तु ततोऽन्या प्रमेति ॥ ‘अयं घटः’ इति प्रथमज्ञाने हि शुद्ध एवार्थोऽ-वभासते । न तु ज्ञातताविशिष्टः । तदानीं तस्य अजातत्वात् । तामुत्पाद्य पुनस् तद्विशिष्टार्थं विषयीकरोतीत्यङ्गीकारे तु विरम्यव्यापारप्रसङ्गात्।न च ‘जातो घटः’इत्यनुव्यवसायरूपोत्तरज्ञाने प्रथमज्ञानविषयीकृताद् अधिकोऽर्थश्चकास्ति सैव ज्ञाततेति वाच्यम् । तस्य ज्ञानविषयकत्वेन अन्यथासिद्धतया उक्तरूपज्ञातताविषयकत्वाभावादिति भावः । उक्तं च अनुव्याख्याने

मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ।

ज्ञानमेव ततोऽन्या न प्रमितिर्नाम दृश्यते ॥ इति ॥

‘इष्टो घटः’ इत्यादावित्यत्र आदिपदेन ‘द्विष्टो घटः’ इत्यस्य संग्रहः ॥ तदभावापातादिति ॥ आत्मधर्मभूताया इच्छाया अपि प्रमेयविशेषणत्वा-भावापातादित्यर्थः ॥ विषयेति ॥ ‘इष्टो घटः’ इत्यादौ इच्छाघटयोर्विषयविषयि-भावसद्भावेन आत्मधर्मभूताया अपि इच्छाया घटविशेषणत्वमुपपन्नमित्यर्थः ॥ सममिति ॥ ‘ज्ञातो घटः’ इत्यादावपि ज्ञानघटयोर्विषयविषयिभावसद्भावेन आत्मधर्मभूतस्यापि ज्ञानस्य घट विशेषणत्वमुपपन्नमित्यर्थः ॥ विषयनियम एवायुक्त इति ॥ ज्ञाततासद्भावे तु घटज्ञानजन्यज्ञातताधारत्वाद् घटज्ञानस्य घट एव विषयो नान्य इति विषयनियमः सम्भवतीति भावः।

ननु ज्ञाततानङ्गीकारेऽपि ज्ञानस्य विषयनियमः सम्भवति । ‘यदाकारं यद् विज्ञानं तत् तद्विषयकम्’ इत्यङ्गीकारेण घटज्ञानस्य घटाकारत्वेन पटाकारत्वाभावाद् घटविषयकत्वस्यैवोपपत्तेर् इत्याशङ्क्य निषेधति ॥ यदाकारमिति ॥ शोभत इति ॥ तथा च मम तथा अङ्गीकारे अपसिद्धान्तः स्यात् । अतो ज्ञाततयैव विषयनियमो वाच्य इति भावः । इति न च वाच्यमिति सम्बन्धः

॥ तथा सतीति ॥ ज्ञाततयैव ज्ञानस्य विषयनियमाङ्गीकार इत्यर्थः ॥ इच्छादीनामपीति ॥ तथा च इच्छादीनामपि विषयनियमार्थम् इष्टतापि काचन अङ्गीकार्या स्यादिति भावः ।

नन्विष्टताऽनङ्गीकारेऽपि इच्छाविषयनियमः सम्भवति । इच्छाकारणीभूतस्य ज्ञानस्य घटमात्रविषयकत्वेन तज्जन्येच्छाया अपि तन्मात्रविषयकत्वोपपत्तेर् इत्याशङ्कते ॥ कारणविषयतयेति ॥ तुल्यमिति ॥ ज्ञाततानङ्गीकारेऽपि ज्ञानस्य विषयनियमः सम्भवति । तत्कारणीभूतस्य इन्द्रियसन्निकर्षस्य घटमात्रविषयकत्वेन तज्जन्यज्ञानस्यापि तन्मात्रविषयत्वोपपत्तेरिति तुल्यमित्यर्थः

॥ अन्यथेति ॥ घटसन्निकृष्टेन्द्रियजन्यत्वाद् घटज्ञानस्य तद्विषयकत्वमित्य-नङ्गीकृत्य ज्ञानतजन्यज्ञातताधारत्वादेव ज्ञानस्य विषयनियम इत्यङ्गीकारे घटज्ञानजन्यज्ञातताधारत्वं घट एव कुतः ? पटेऽपि किं न स्यात् ? तथा च घटज्ञानेन घट एव ज्ञातता जायत इत्यपि नियमो न स्यादित्यर्थः । तथा चैतदतिप्रसङ्गपरिहाराय’ घटज्ञानस्य घटसन्निकृष्टेन्द्रियजन्यत्वाद् घट एव ज्ञातताजनकत्वं, न पटे’ इत्येवं ज्ञातताङ्गीकारवादिनापि अवश्यं वक्तव्यमेव तथा च अस्माकमपि तेनैव ज्ञानस्य विषयनियमोपपत्तौ किं ज्ञातताङ्गीकारेण ? इति भावः ।

प्रमाणलक्षणटीकाविवरणम्

॥ स्वोक्तलक्षणेति ॥ तथा च नासंगतिरिति भावः । नन्वेवं प्रमासाधनत्वस्य नैय्यायिकलक्षणत्वेन तद्दूषणेनैवास्य दुष्टत्वात्पृथद्गूषणमुक्त म्। अनुक्तानुवादश्च स्यात् । अत एव पद्धतौ पृथगेव लक्षणमभिहितम् । ज्ञातताप्राकट्या-परपर्यायस्येत्यादिना तत्कथमेतदित्यत आह ॥ प्रमेयगतमिति ॥ प्रमाया ज्ञाततायां प्रत्यक्षादाविति ज्ञानसाधनत्वस्यैव तत्वेन ज्ञाततात्वाभावादिति भावः।न चेति ॥ ज्ञानस्यैव ज्ञातता साधनत्वादिति भवः । अर्थानुसारिण इति । ज्ञानजन्यज्ञेयनिष्ठ-ज्ञातताविशेषस्येत्यर्थः । कथमेतावतापि तद्व्यावृत्तिरित्यत अह भ्रमादिनेति ॥

नन्विदमाकारस्य ज्ञाततासाधनत्वात्तत्रातिव्याप्तिरित्यतो लक्ष्यत्वादेव नातिव्याप्तिरित्याह ॥ इदमिति ॥ ज्ञातइति ॥ अनुभवेनैव ज्ञाततोत्पादादित्यर्थः । ॥ साधनग्रहणेनेति ॥

नन ुकथं सधनग्रहणेनापि तद्व्यावृत्तिरिति चेत् । यस्मिन् सति नियमेन कार्यमुत्पद्यते यदभावे च नोत्पद्यते तदुच्यते साधनम् । न च तादृशं प्रमात्रादि । उपपादितं चैतत् प्रमाणलक्षणव्याख्यानावसरे । अत्र सर्वत्र प्रमापदेन ज्ञाततैव ग्राह्येति हृदयम् । तदभावापातादिति इच्छाया अपि आत्मधर्मत्वेन घटविषयत्वा-भावापातादित्यर्थः । ननु इच्छाया आत्मधर्मत्वेऽपि घटेच्छयोर्विषयविषयीभवसत्वेन तद्विषयत्वं संभवतीति शंकते ॥ विषयेति ॥

ननु ज्ञाततानङ्गीकारेऽपि सविषयनियमः संभवति । यदाकारं यद्विज्ञानं स तस्य विषय इति अङ्गीकारे घटोऽयमित्याकारस्य घटाकारत्वेन घटविषयकत्वेऽपि पटविषयत्वं नस्ति तदाकारत्वाभावादित्यत आह ॥ यदाकारमिति ॥ शोभत इति ॥ न च वाच्यमिति संबन्धः ॥ तथा सतीति ॥ तथा चेष्टताऽप्यंगीकार्यः स्यात् । न चेष्टापत्तिः । अपसिद्धांतादिति ।

ननु इष्टतानङ्गीकारेऽपीच्छाविषयः संभवति । इच्छाजनकज्ञानस्य घटमात्रविषयकत्वेन तज्जन्येच्छाया अपि तन्मात्रविषयत्वसंभवादित्यभिप्रायेण शंकते ॥ कारणेति ॥ तुल्यमिति ॥ ज्ञाततानंगीकारेऽपि तत्कारणीभूतेन्द्रियसंन्नि-कर्षस्य घटमात्रविषयकत्वेन तस्य ज्ञानस्य घटमात्रविषयकत्वादिति तुल्यमिति अंगीकुर्वद्भिरस्माभिः संस्कारमात्रेत्यत्र मात्रपदेन प्रत्यभिज्ञाव्यावृत्तिः ।