०२ प्रतिज्ञाविरोधादिषु सर्वानुमानदोषान्तर्भावः

उक्तदोषेष्वेवाशेषानुमानदोषाणामन्तर्भावः

प्रतिज्ञाविरोधादिषु सर्वानुमानदोषान्तर्भावः

प्रमाणलक्षणटीका

त्रिविधो विरोध इत्यादिनोक्तस्योपयोगमाह

प्रमाणलक्षणम्

***उक्तदोषेष्वेवाशेषानुमानदोषाणामन्तर्भावः ***

ये प्रतिज्ञाविराधादयो दोषा उक्तास् तेष्वेव अशेषानुमान-दोषाणां हेत्वाभासादीनामन्तर्भावः । अतो नोक्तदोषातिरेक इति । तत्र प्रबलप्रमाणविरोधः कालातीतः । समबलेन हेत्वन्तरेण विरोधः सन्देहतो व्याप्यत्वासिद्धिः सत्प्रतिपक्ष-श्चेत्युक्तम्। तेनैव हेतुना चेत् प्रकरणसमः । असिद्धिः स्वरूपा-सिद्धिः । व्यर्थविशेषणासिद्ध्यादेराधिक्ये अन्तर्भावः ।

प्रमाणलक्षणटीकाभावदीपः

‘स श्यामो मित्रातनयत्वात्’ इत्यत्र शाकपाकजत्वाभावरूपप्रतिपक्ष-सन्देहात् सन्देहतो व्याप्यत्वासिद्धिरित्युक्तम् ॥ इत्युक्तमिति ॥ प्रतिज्ञायाः समबलप्रमाणविरोध एव सप्रतिसाधन इत्यत्रोक्तमित्यर्थः ।

॥ प्रकरणसम इति ॥ सोऽपि सप्रतिसाधनवदेव प्रतिज्ञाविरोध एव अन्तर्भूत इति भावः । अन्येषामपि हेत्वाभासानाम् अन्तर्भावमाह ॥ असिद्धिरित्यादिना॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ उक्तस्येति ॥ हेत्वाभासादेरन्तर्भावं वक्तुमुक्तस्येत्यर्थः । अनुमानदोषाणां परोक्तानाम् ॥ उक्तदोषेति ॥ अस्मदुक्तेभ्यो विरोधादिदोषेभ्यः परोक्तानामनुमानदोषाणामतिरेको नेत्यर्थः ।

अन्तर्भावप्रकारमेव विशदयति ॥ तत्रेत्यादिना ॥ कालातीतः प्रतिज्ञायाः प्रबलप्रमाणविरोध इत्यन्वयः ॥ सन्देहत इति ॥ व्याप्यत्वासिद्धो द्विविधः, एको व्याप्तिग्राहकप्रमाणाभावाद् अपरस्तु उपाधिसद्भावादिति । तत्र उपाधिसद्भावाद् यो व्याप्यत्वासिद्धः स सन्देहतो व्याप्यत्वासिद्ध इत्युच्यते । उपाधिसन्देहेन हेतोर्व्याप्तिसन्देहादित्यर्थः ।

॥ सत्प्रतिपक्षश्चेति ॥ निश्चितोपाधिव्यतिरेकेण साध्याभावसाधनं सत्प्रतिपक्ष इत्युच्यत इत्यर्थः । तथा च सन्देहतो व्याप्यत्वासिद्धः सत्प्रतिपक्षश्च समवलेन हेत्वन्तरेण विरोध इत्यन्वयः ।

प्रतिज्ञायाः समबलप्रमाणविरोधो द्विविधः, हेत्वन्तरेण तेनैव हेतुना चेति । तत्र सन्देहतो व्याप्यत्वासिद्ध्यादिकं समबलेन हेत्वन्तरेण विरोधे अन्तर्भावती-त्याशयः ॥ तनैवेति ॥ तेनैव हेतुना चेद् विरोधः स परमते प्रकरणसम इत्युच्यते । तस्य तत्रान्तर्भाव इत्यर्थः ।

॥ असिद्धिरिति ॥ परमते असिद्धिस्त्रिविधा । आश्रयासिद्धिर् व्याप्यत्वा-सिद्धिः स्वरूपासिद्धिश्चेति । तत्र आश्रयासिद्धिरदूषणमित्युक्तम् । व्याप्यत्वा-सिद्धेरन्तर्भावस्तु उत्तरत्र वक्ष्यते । अवशिष्टा स्वरूपासिद्धिरूपाया असिद्धिः सा स्वरूपासिद्धिर् अस्मदुक्ते हेतुस्वरूपासिद्धिरूपे हेतुविरोधे अन्तर्भूतेत्यर्थः । व्यर्थविशेषणासिद्ध्यादेर् इत्यत्र आदिपदेन व्यर्थविशेष्यासिद्धिसंग्रहः ॥


व्याप्यत्वासिद्धविरुद्धानैकान्तिकानध्यवसितानाम-व्याप्तौ

प्रमाणलक्षणटीका

व्याप्यत्वासिद्धविरुद्धानैकान्तिकानध्यवसितानाम-व्याप्तौ । आद्यस्य साध्यसम्बन्धाभावात् । उत्तरयोस्तु विपक्षवृत्तित्वेन साध्यव्यभिचारात् । अनध्यवसितस्यापि पक्ष एव वर्तमानत्वेन व्याप्तेरग्रहणात् । व्यतिरेकव्याप्तिस्तत्र गृह्यतामिति चेन्न । सपक्षविपक्षाभावे सपक्षमात्रभावे वा तदयोगात्। सपक्षविपक्षभावे च अन्वयस्यैव प्रथमप्राप्तत्वेन सत्यपि सपक्षे तदनुपलब्धौ व्याप्त्यनिश्चयात् । सपक्षैकदेश-वृत्यन्वयव्यतिरेकिवद् अस्य व्याप्तिः किं न गृह्यते ? इति चेन्न । सपक्षैकृदेशेऽपि अवृत्त्या किमत्र व्याप्तिरेव नास्ति ? उत सपक्षैकदेशवृत्तिवद् अस्ति व्याप्तिः ? इति सन्देहाव-स्कन्दनात् ।

प्रमाणलक्षणटीकाभावदीपः

अव्याप्तौ इत्युक्तान्तर्भावं व्यनक्ति ॥ आद्यस्येत्यादिना ॥ सपक्षविपक्षाभाव इति ॥ ‘सर्वम् अनित्यं सत्त्वात्’ इत्यादौ ‘सर्वं कार्यं नित्यम् उत्पत्तिमत्त्वात्’ इत्यादौ चेत्यर्थः ।

॥ सपक्षविपक्षभावेचेति ॥ ‘शब्दोऽनित्य आकाशविशेषगुणत्वात्’ इत्यादाविति भावः ॥ सपक्षैकदेशेति ॥ ‘पर्वतोऽग्निमान् धूमवत्वात्’ इत्यादाविति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ व्याप्यत्वासिद्धेति ॥ व्याप्तिग्राहकप्रमाणाभावेन व्याप्यत्वासिद्धेत्यर्थः । चतुर्णामपि क्रमेण अव्याप्तौ अन्तर्भावमुपपादयति ॥ आद्यस्येत्यादिना ॥ साध्येति ॥ जलधरपटले सत्त्वरूपहेतोः पूर्वापरकलाविकल-कालवर्तित्वरूपक्षणिकत्वलक्षणसाध्यसम्बन्धस्य प्रमाणाभावेन गृहीतुमशक्यत्वा-दिति भावः । उत्तरयोर् विरुद्धानैकान्तिकयोः । साध्येन तदभावेनापि सम्बन्धादित्यर्थः।

॥ पक्ष एवेति ॥ ‘भूर्नित्या गन्धवत्वात्’ इत्यत्र गन्धवत्त्वरूपहेतोः साध्यतदभावाभ्यामुभाभ्यामपि सम्बन्धो नास्तीति भावः ।

ननु कथं तत्र व्याप्त्यग्रहणं ? येन अव्याप्त्यन्तर्भाव स्यात् । किं तु ? यत्र नित्त्यत्वाभावस् तत्र गन्धवत्त्वाभावः यथा जलादौ इति व्यतिरेकव्याप्तिग्रहणसम्भवाद् इत्याशङ्गते ॥ व्यतिरेकव्याप्तिरिति ॥ ‘भूर्नित्यागन्धवत्त्वात्’ ‘शब्दो नित्य आकाशविशेषगुणत्वाद् इत्येवंरूपो यो विद्यमानसपक्षविपक्षः पक्षमात्रवृत्ति-रनध्यवसितस् तत्र व्यतिरेकव्याप्तिग्रहसम्भवेऽपि यो ऽविद्यमानसपक्षविपक्षः पक्षमात्रवृत्तिः ‘सर्वमनित्यं प्रमेयत्वात्’ इत्येवंरूपोऽनध्यवसितस् तत्र विपक्षस्यैवाभावेन व्यतिरेकव्याप्तिग्रहो न सम्भवति । तथा सपक्षवान् विपक्षरहितः पक्षमात्रवृत्तिः ‘शब्दोऽभिधेयः शब्दत्वात्’ इत्येवंरूपोऽनध्यवसितस् तत्र सपक्षमात्रस्यैव सत्त्वेन विपक्षाभावान् न व्यतिरेकव्याप्तिग्रहस्तत्र सम्भवतीत्याह ॥ सपक्षविपक्षाभाव इत्यादिना ॥ तदयोगादिति ॥ व्यतिरेकव्याप्तिग्रहा-योगादित्यर्थः । तथा च युक्तोऽव्याप्त्यन्तर्भाव इति भावः ।

ननु तथापि विद्यमानसपक्षविपक्षः पक्षमात्रवृत्तिरनध्यवसितो गन्धवत्त्वाकाशा-विशेषगुणत्वादिस् तत्र सुखेन व्यतिरेकव्याप्तिग्रहः सम्भवतीति चेत् तत्राह ॥ सपक्षविपक्षभावे चेति ॥ तदनुपलब्धौ तस्या अन्वयव्याप्तेः सपक्षे अनुपलब्धौ ॥ व्याप्त्यनिश्चयादिति ॥ सत्यपि सपक्षे तत्र अविद्यमानत्वात् किमस्य व्याप्तिरेव नास्ति ? उत विपक्षाद् व्यावृत्तत्वाद् अस्ति व्याप्तिरिति सन्देहेन व्याप्त्यनिश्चयादिति भावः ।

ननु सत्यपि सपक्षे तदनुुपलब्धौ व्याप्त्यनिश्चयाद् इत्युक्तम् । तथात्वे अन्वयव्यतिरेकिणि धूूमानुमानेऽपि व्याप्त्यनिश्चयापत्तेः । तत्रापि सपक्षे महानसादौ हेतोः सत्त्वेऽपि अयोगोलकादितदेकदेशे अभावात् । अतो यथा अन्वयव्यतिरेकिणि सपक्षैकदेशवृत्तित्वेऽपि सपक्षैकदेशावृत्तित्वेन सपक्षावृत्तित्वसद्भावेपि अस्ति व्याप्तिर् एवम् अनध्यवसितस्यापि सपक्षैकदेशेऽप्यवृत्त्या सपक्षावृत्तित्वमस्तीति तत्साम्याद् व्याप्तिर्गृह्यतामित्याशङ्कते ॥ सपक्षैकदेशवृत्तीति ॥ अन्वयव्यतिरेकिवत् सपक्षैकदेशेऽपि अवृत्त्या किमत्र गन्धवत्त्वादिहेतौ व्याप्तिरेव नास्ति ? उत अन्वयव्यतिरेकिणि सपक्षैकदेशवृत्तित्वेऽपि सपक्षैकदेशान्तरे अवृत्त्या सपक्षावृत्तित्वसद्भावेऽपि अस्ति व्याप्तिः , एवम् अत्रापि सपक्षैकदेशेऽपि अवृत्त्या सपक्षावृत्तित्वमस्तीति सपक्षावृत्तित्वेन तत्साम्याद् व्याप्तिरस्ति वा न वेति सन्देहावस्कन्दनान् न व्याप्तिनिश्चय इति युक्तोऽव्याप्तौ अन्तर्भाव इति साम्प्रदायिकोऽर्थः ।

अन्ये तु,अत्र धूमानुमाने । तथा च धूमस्यापि सकलसपक्षवृत्तित्वात् किं नास्ति व्याप्तिः ? उत सकलसपक्षावृत्तित्वेऽपि तदेकदेशवृत्तित्वादस्ति व्याप्तिः ? इति सन्देहान् न व्याप्तिनिश्चय इत्यभिप्रायमुक्त्वा,ननु तर्हि सकललोकव्यवहारोच्छेद इत्याशङ्ग्य अकारणकार्योत्पत्तिरूपबाधकतर्कसद्भावेन तत्र शङ्कापरिहारः । अत्र तु अनुकूलतर्काभावान् न शङ्कानिरास इति बोध्यम् इत्याहुः ॥

प्रमाणलक्षणटीकाविवरणम्

उक्ताः प्रतिज्ञाहेतुदृष्टान्तभेदेनेत्यादिनोक्ताः कथमित्यतस्तदेव दर्शयति ॥ तत्रेत्यादिना ॥ प्रबलप्रमाणविरोधे सप्तसु प्रथमेत्युक्तत्वात् । तत्र कालातीतान्तर्भूत इत्यर्थः ॥ समबलेनेति ॥ अयं भावः समबलब्रमाणविरोधो हि द्विविधः । तेनैव हेतुना हेत्वन्तरेण च तत्र हेत्वन्तरेण समबलप्रमाणविरोध-सन्देहतो व्याप्यत्वासिद्धः । उपाधिसन्देहेन व्याप्यत्वासिद्ध इत्यर्थः ।

सत्प्रतिपक्षशब्देन निश्चितोपाधिसङ्ग्रहः । न च स पूर्वानुक्त इति वाच्यम् । स एवोपाधिदोषोपीत्यादिना तदुक्तेः । न च तर्हि तत्रैव स एवोपाधिदोषोपीत्यादिनैव समबलप्रमाणविरोध एवान्तर्भावस्योक्तत्वात् तत्कथं पुनरुक्तमिति वाच्यम् । प्रसङ्गादिनोक्तिसंभवात् । अन्यथा सत्प्रतिपक्षस्यापि तत्रैवान्तर्भवस्योक्तत्वेन इदानीं तदुक्तिर्व्यर्था स्यादिति । तत्र स्मरणार्थमेवात्रापि तथाऽस्तु । अत एवोत्तरत्राव्याप्ता-वन्तर्भावकथनविरोधः । हेत्वन्तरेण समबलप्रमाणविरोधे प्रोच्यमाने इत्यपि परास्तम् । अत्रोपाधिसन्देहेन व्याप्यत्वासिद्धस्यान्तर्भवकथनात् । उत्तरत्र पुनर्व्याप्तिगा्रहक-प्रमाणशून्यत्वेन व्याप्यत्वासिद्धस्यान्तर्भावस्य कथ्यमानत्वादित्यलम् ।

तातचरणास्तु सत्प्रतिपक्षश्चेति चशब्द एवार्थः । एवञ्च समबलेन हेत्वन्तरेण विरोधः सत्प्रतिपक्ष एवेत्युक्तमिति संबन्धः । ननु सन्दिग्धोपाधिस्थले साध्ये व्यापकत्वसाधने व्यापकत्वसंदेहे तद्व्यतिरेकेण सत्प्रतिपक्षासंंभवात् । साध्ये साधनव्याप्तिसंशयाधायकत्वेन संदिग्धव्याप्यत्वासिद्धित्वेन दोषत्वं स्यादित्यत उक्तं सन्देहतो व्याप्यत्वासिद्ध इति । सन्देहेऽपि नायं व्याप्यत्वासिद्धः, किंतु सत्प्रतिपक्ष एवेत्यर्थः । तत्रापि पाक्षिकसिध्यादिनोपाधिसंदेहेन सत्प्रतिपक्षफलस्य पक्षे साध्यसंदेहस्य सिद्ध्या प्रतिपक्षत्वेनैव दोषत्वस्य वक्तव्यत्वात् । संशयानंगत्वस्यैव समबलशब्दार्थत्वादिति व्याचक्षते ।

॥ तेनैवेति ॥ । तेनैव हेतुना यः समबलप्रमाणविरोधस् तत्र परोक्तस्य प्रकरणसमस्यान्तर्भाव इत्यर्थः ॥ असिद्धिरिति ॥ असिद्धो हि त्रिविधः परेणांगी-कृतोस्ति । तत्राश्रयासिद्धिर्न दूषणमित्युपपादितं स्याद् व्याप्यत्वासिद्धस्य वाऽन्त-र्भावस्य वक्ष्यमाणत्वात् स्वरूपासिद्धिर् अस्मदुक्तहेत्वसिद्धौ हेतुस्वरूपासिद्धाविति यावत् । अन्तर्भवतीत्यर्थः ॥ आद्यस्येति ॥ व्याप्तिग्राहकप्रमाणाभावेन व्याप्यत्वा-सिद्धस्येत्यर्थः । ॥ साध्यव्यभिचारादिति ॥ तथा च साध्याभाववद्गामित्वेनाव्यभि-चरितसंबन्धशून्यत्वेनाव्याप्तत्वमिति भावः ।

॥ पक्ष एवेति ॥ भूर्नित्या गन्धवत्वादित्यत्र गन्धवत्वरूपहेतोः पक्ष एव सत्वेन साध्यतदभावाभ्यामुभाभ्यामपि संबंधो नास्तीति व्याप्तेरग्रहणादिति भावः।

ननु भूर्नित्या गंधवत्वादित्याद्यनध्यवसिते यत्र नित्यत्वाभावःतत्र गंधवत्वा-भाव इति व्यतिरेकव्याप्तिः संभवत्येव जलादेरेव दृष्टान्तत्वादित्यभिप्रेत्य शंकते व्यतिरेकव्याप्तिरिति ।सर्वं नित्यं प्रमेयत्वादिति सपक्षविपक्षशून्ये वा सर्वंकार्यं नित्यमुत्पन्नत्वादिति अविद्यमाने विपक्षे वा न व्यतिरेकव्याप्तिर् गृहीतुं शक्या व्यतिरेकव्याप्तिग्रहणस्थले विपक्षशून्यत्वादित्यभिप्रेत्य परिहरति नेति । तदयोगाद् व्यतिरेकव्याप्त्ययोगादिति ।

ननु तथापि शब्दो नित्य आकाशविशेषगुणत्वादित्यनध्यवसिते सपक्षविपक्ष-सत्वेन व्यतिरेकव्याप्तिः सुग्रहैवेति कथमव्याप्तावन्तर्भाव इत्यत आह ॥ सपक्षविपक्षभावेचेति ॥ व्याप्त्यनिश्चयात् । सत्यपि सपक्षे तत्राविद्यमानत्वात् । किं नास्ति व्याप्तिर् उत विपक्षाव्यावृत्वादस्ति व्याप्तिरिति संदेहादिति भावः । सपक्षैकदेशेति महानसादौ सत्वेऽपि अयोगोलकादितदेकदेशावृत्तित्वादिति भावः। ॥ संदेहावस्कंदनादिति ॥ यद्यप्यत्र धूमस्यापि सकलसपक्षावृत्तित्वात् किं नास्ति व्याप्तिरुत तत्रावृत्तित्वेऽपि तदेकदेशवृत्तित्वादस्तिव्याप्तिरिति संदेहान्न व्याप्तिनिश्चयः संभवति । तथाऽप्यकारण कार्योत्पत्यादिबाधकसद्भावेन तत्र शंकापरिहारसंभवात् । अत्र पुनरनुकूलतर्काभावान्न शंकानिरास इति बोध्यम् ।