१४ आश्रयासिद्ध्यादिस्थले व्याप्तिसमर्थनम्

असत्यपि व्याप्तिरस्त्येव

आश्रयासिद्ध्यादिस्थले व्याप्तिसमर्थनम्

प्रमाणलक्षणटीका

किमतो यदि व्याप्तिरेव प्रयोजिका ? इत्यत आह

प्रमाणलक्षणम्

***असत्यपि व्याप्तिरस्त्येव ***

प्रयोजिका च व्याप्तिर् असत्यप्याश्रये साध्यसाधन-योरस्त्येव । ‘वन्ध्यासुतो न वक्ता अचेतनत्वात्’ इत्यादौ दर्शनात् । अतो नाश्रयासिद्धिर्दूषणमिति ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ प्रयोजिकेति ॥ साध्यसिद्धिप्रयोजिकेत्यर्थः ॥ अचेतनत्वा-दिति ॥ ज्ञानानधिकरणत्वादित्यर्थः । व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वेन तदभावे तदभावः साध्यत इति द्रष्टव्यम् । नन्ववक्तृत्वं वचनेतरक्रियाकर्तृत्वम् अतो ऽचेतनत्वं बाधितविषयम् इति चेन्न । वक्तृत्वाभावमात्रस्य साध्यत्वात् । नन्वभावोऽपि असति कथं ? तत्र धर्माभावादिति चेन्न धर्माणामनेकविधत्वात् । तथा हि , केचिद् धर्मिसमवेता भवन्ति यथा रूपादयः । केचिद् अन्यसमवेता अपि अन्यमुपरञ्जयन्ति यथा ज्ञानादयो घटादीनाम् । केचिद् आश्रयसमवायमपि नापेक्षन्ते । केवलं केनचिन् निरूप्यन्ते यथा अभावाः । एवं च अभावरूपधर्मस्य धर्मिसत्तासापेक्षत्वाभावाद् वक्तृत्वाभावसाधनमुपपन्नमेव । न च वाच्यं ‘सद्भ्यामधिकरणप्रतियोगिभ्याम् अभावो निरूप्यते’ इतिवचनाद् अत्र धर्मिण एवाभावात् कथं वन्ध्यासुते वक्तृत्वाभावनिरूपणम् ? इति । तथात्वे प्रागभावाद्यनिरूपणप्रसङ्गात् । घटादेः कदाचित्सत्त्वान्नैवम् इति चेन्न तस्य निरूपणसमये अनुपयोगात् । प्रतीत्यानिरूपकत्वमिति चेत् समं प्रकृतेऽपि । शब्दाभासादिना वन्ध्यासुतस्यापि प्रतीतिसम्भवात् । ननु काल्पनिकस्य कथं पक्षत्वम् ? इति चेन्न। निषेधं प्रति पक्षत्वे बाधकाभावात् । अन्यथा परपक्षप्रतिक्षेपायोगात्। अथ अचेतनत्वमसिद्धम् । तस्य चेतनातिरिक्तस्वभावत्वाद् इति चेन्न । चैतन्यव्यावृत्तिमात्रस्य हेतुत्वात् । अभावस्य च असताऽपि धर्मिणा निरूपणमुप-पद्यत इत्युक्तम् ।

अथ मतं ‘वन्ध्यासुतो वक्ता सुतत्वात् संमतवत्’ इति सत्प्रतिपक्षमेतत् किं न स्यात् ? असदाश्रयताभयस्य भवद्भिरेव त्याजितत्वादिति । मैवं, तदीयवक्तृताकार्यस्य कदापि केनापि अनुपलब्धत्वेन बाधितविषयतया दुर्बलस्य अप्रतिपक्षत्वात् । न हि भवति तरक्षोः प्रतिपक्षो हरिणशावः । सिद्धं च सुतत्वं वन्ध्यासुतस्य । न चैवं स्ववचनव्याघातः । काल्पनिकानुवादेन वास्तवस्य निराकरणात् ।

न चैवं ‘गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत्’ इत्यस्यापि साधकत्वापत्तिः । म्लानारविन्दे व्यभिचारेण तत्र व्याप्तेरेवाभावात् । नन्वथापि ‘नृशृङ्गमस्ति शृङ्गत्वाद् गोशृङ्गवत्’ इत्यस्यापि साधकत्वप्रसङ्ग इति चेन्न । प्रमाणबाधितत्वात् । शृङ्गशब्दो हि महतः शिरस्संयुक्तस्य अवयवविशेषस्य वाचकः । तस्य च प्रत्यक्षेण नास्तिताया एवावधारणादिति । यथोक्तं

दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधने । इत्यादि ।

एतेन एतदपि परास्तम् ‘अप्रामाणिकस्य प्रमाणाङ्गताऽसम्भवेन असदाश्रयस्य हेतोर् व्याप्त्यनुपपत्त्या च असदाश्रयस्यानुमानस्य दुष्टत्वम्’ इति । अप्रामाणिकस्यापि निषेधरूपं साध्यं हेतुं च प्रत्याश्रयत्वे निषेधरूपव्यवहार-भाजनत्वे निषेधसाधकप्रमाणाङ्गत्वे च बाधकाभावस्योक्तत्वात् । असदाश्रयेऽपि हेतौ व्याप्तेरविकलत्वाच्च । अतोऽचेतनत्वानुमानं निर्दोषमेव इत्यास्तां प्रपञ्चः ।


एवम् असत्यपि साध्यस्य प्रसिद्धत्वे प्रयोजिका व्याप्तिरस्त्येव

प्रमाणलक्षणटीका

एवम् असत्यपि साध्यस्य प्रसिद्धत्वे प्रयोजिका व्याप्तिरस्त्येव ‘जीवच्छरीरजातं सात्मकं प्राणादिमत्वात्’ इत्यादौ दर्शनात् । अतो न साध्यासिद्धिर्दूषणमिति ॥

प्रमाणलक्षणटीकाभावदीपः

॥ जीवच्छरीरजातमिति ॥ सर्वस्य सात्मकस्य पक्षत्वान् न साध्यप्रसिद्धिरत्रेति भावः । विस्तरस्तु सुधातर्कताण्डवयोः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ एवमसत्यपि साध्यस्य प्रसिद्धत्व इति ॥ नन्वेवं ‘विश्वं सदसद्विलक्षणं बाध्यत्वात्’ इत्यादेरपि साधकत्वापत्तिरिति चेन्न व्याहत्यैव दुष्टत्वात्। यथोक्तम्

अन्यत् सदसतोर्विश्वमिति च व्याहतेरमा । इति ।

ननु च साध्यरूपविशेषणाप्रसिद्धौ तत्सन्देहानुपपत्त्या पक्षत्वानुपपत्तेर् हेतोः पक्षधर्मत्वानुपपत्तिरिति चेन्न । हेतोः पक्षधर्मत्वासिद्धिस्तदा स्याद् यदि धर्मी वा हेतोस्तद्धर्मत्वं वा न स्यात् । सन्देहाभावेन पक्षत्वानुपपत्त्या पक्षधर्मत्वाभावे तु स्वार्थानुमानविशेषविलोपः स्यात् । यदा हि ‘यो धूमवानसावग्निमान्’ इति गृहीतव्याप्तिको गिरिशिखरे धूमं सहसैव पश्यन् व्याप्तिं स्मरति तदा उत्पद्यत एव तस्यानुमितिः । न च तस्याग्निसन्देहोऽस्ति । यदा च आप्तवचनाद् विनिश्चिताग्नि-सम्बन्धः पर्वतं प्रत्यासीदन् धूममेव अवलोकयति तदा तस्य विना सन्देहेन अग्न्यनुमितिर्भवत्येव । न हि सामग्री बुद्धिमती । येन यन्मया कर्तव्यं तदन्येन कृतमिति पर्यालोच्योदासीत ।

नापि पदार्थानुमाने सन्देहनियमः । विपर्यस्तस्यापि प्रतिवादित्वोपपत्तेः । किं च विदिततत्वोऽपि यदा परपरीक्षार्थं प्रमाणं पृच्छति तदा प्रयुक्तमनुमानममानं स्यात् सन्देहाभावात् । तस्मात् ‘सन्दिग्धसाध्यः पक्षः’ इत्याद्याः प्राचां वाचः सम्भावनाभिप्रायाः । परमार्थतस्तु अनुमितिविशेष्यः पक्षः । अतः सन्देहाभावे पक्षत्वानुपपत्याभावान् नाप्रसिद्धसाधने पक्षधर्मत्वानुपपत्तिरूपो दोष इति । किं च साध्याप्रसिद्ध्या यत्र हेतोः पक्षधर्मत्वासिद्धिरुच्यते तत्र व्याप्त्यादीतराङ्गसाकल्यम् अस्ति न वा ? न चेत् तत एवानुमानं दुष्टं किं साध्याप्रसिद्ध्या ? यद्यस्ति तदा अप्रसिद्धस्यापि साधने को दोषः ? यथोक्तम्

असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते । इति ।

नन्वथापि प्रतिज्ञावाक्यस्य अविदितपदार्थकत्वेन अबोधकत्वापत्तिर् इति चेन्न । वादिना तदर्थस्य व्युत्पाद्यत्वादिति संक्षेपः ॥ जीवच्छरीरं सात्मकमिति ॥ नन्वत्र कथं साध्यस्याप्रमिद्धत्वं सामान्यतः प्रसिद्धिविधानात् । हि ‘इच्छादयः क्वचिदाश्रिता गुणत्वाद् रूपवत्‘यश्चेच्छादीना-माश्रयः स एवात्मा इति सामान्येन आत्मतया सिद्धौ तत्सम्बन्धो जीवच्छरीरस्य केवलव्यतिरेकिणा साध्यत इति चेन्न । भवेदेतद् यद्ययं केवलव्यतिरेकिण्युक्तिविशेषः कार्य इत्यत्र नियामकं स्यात् । न चैतदस्ति । तथा हि, किमनेन उक्तिविशेषेण केवलव्यतिरेकि साध्यम् अन्वयितां नीयते ? उत न ? इति वक्तव्यम् । नाद्य उक्तेरर्थतथात्वपरिवर्तकत्वाभावात् । न हि सहस्त्रेणाप्युक्तीनां नरो वानरीकर्तंु शक्यते । शक्यत्वे वा केवलव्यतिरेकिप्रामाण्यं त्यक्तं स्यात् । न द्वितीयः । यदि उक्तिविशेषेणापि लिङ्गं केवलव्यतिरेकिसाध्यसाधक-मेव नान्वयितामापाद्यत इतीष्यते तदाऽयमुक्तिविशेषः केन मानेन कर्तव्यतया ज्ञायते ? न केनापि । यथोक्तम्

अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ।

लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते ॥ इति ।

नन्वस्त्येवोक्तिविशेषस्य कर्तव्यतायां नियामकम् । तथा हि, यद्यपि अयमुक्तिविशेषो न व्यतिरेकिणमन्वयिनं करोति तथापि व्यतिरेकव्याप्तिस्तावत् साध्यसिद्ध्यङ्गम् । तथा च तद्ग्रहोऽवश्यम्भावी । व्यतिरेकश्च प्रतियोगिप्रतीत्यधीन-प्रतीतिक एव । प्रतियोगिनौ च लिङ्गसाध्यधर्मौ । तत्र लिङ्गं पक्षे प्रतीतमेव । साध्यधर्मश्च न पक्षे प्रतीतो नाप्यन्यत्र । तत्कथं व्यतिरेकयोर्व्याप्तिर्गृह्यतां ? एतैस्तु उक्तिविशेषैः कथं चित् प्रतियोगिनः साध्यधर्मस्य बुद्धिस्थतायां सत्यां सुकरो व्याप्तिग्रहः स्याद् इति चेन् न । प्रत्यक्षेण उपदेशेन वा असाधारणौ धर्मौ एकत्रोपलब्धवतस् ततोेऽन्यत्र सर्वत्रापि तदभावोपलम्भसम्भवे व्यतिरेकेण व्याप्तिग्रहस्तावद् वादिनः सुकर एव । प्रतिवादिनोऽपि वादिवाक्यावगतप्रतियोगिनस् तदभावावगमसम्भवाद् व्यतिरेकव्याप्तिग्रहः सम्भवत्येवेति किमेताभिः क्लिष्टकल्पनाभिः ? किं च प्राणादिमत्वहेतावपि यद् यत्कार्यवत् तत् तत्कारणवद् यथा अङ्कुरवती भूमिर्बीजगर्भा इति सामान्यव्याप्तिसम्भवात् किमर्थं व्यतिरेकयोर् व्याप्तिराश्रयणीया ? इति भावः । यथोक्तं यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा । इति ।

प्रमाणलक्षणटीकाविवरणम्

॥ वन्ध्यासुत इति ॥ ननु वंध्यासुतस्य धर्मिण एवाभावात् कथं तत्रवत्कृत्वा भावः साध्यत इति चेन्न । केषांचिद्रूपादीनां धर्माणां धर्मिसत्ता-सापेक्षत्वेऽपि प्रतियोगित्वादीनां धर्माणां तदनपेक्षणात् । न चैवं गगनारविन्दं सुरभि अरविन्दत्वादित्यस्यापि सदनुमानत्वापत्तिः । तत्र व्याप्तेरेवाभावाद् अरविन्दमात्रे सुरभित्वाभावेन व्यभिचारात् । तथा च दोषान्तरा संकीर्णोदाहरणा-भावादाश्रयासिद्धेर्न दूषणत्वम् ।

॥ सात्विकमिति ॥ यद्यप्यत्र साध्यं प्रसिद्धमेव । सात्विकत्वं नाम इच्छासमवायिकारणसंयोगावच्छेदकत्वम् । तथा च संयोगासमवायीकारणका-त्मविशेषगुणत्वाज् ज्ञानवदिति । संयोगासमवायीकारणत्वे सिद्धे इच्छासमवायिकारणः संयोगः किंचिदवछिन्नः । सयोगत्वाद् इत्यनुमानेन यदवच्छिन्नत्वं संयोगस्य पर्यवश्स्यति तदेव सात्मकत्वमिति सिद्धिसंभवात् । तथाऽपि सामान्यत एव न तु विशेषः । सामान्यतः प्रसिद्धिर् अन्यस्मिन्नपि साध्यप्रसिद्धिसंभवस्तस्मात् साध्यप्रसिद्धिपक्षादन्यत्र साध्यस्य निश्चय एव । अत एव ततः प्राक् साध्यस्य प्रसिद्धिरिति पूर्वं व्याख्यातम् ।

नन्वेवं व्यधिकरणासिद्धस्य दूषणत्वाभावे पूर्वं दूषणत्वोक्तिरयुक्तेति चेन्न । परमताभिप्रायेण तस्योक्तत्वात् । यद्वा व्याप्त्यभावे व्यधिकरणासिद्धो दूषणमिति तत्रोक्तम् । अत एव तत्र शब्दो नित्यः घटस्य कृतकत्वादित्येवोदाहरणम् । न ह्यत्र व्याप्तिरस्ति । अत्र च व्याप्तिसत्वे व्यधिकरणासिद्धो दूषणमित्युच्यते । अत एवात्र चंद्रोदयादिनेत्युक्तम् । चंद्रोदयस्य समुद्रवृद्धिव्याप्तिसत्वादिति बोद्ध्यम् ।