अतिप्रसङ्गाभावाद् अतिप्रसङ्गेन हि दोषत्वादोषत्वे कल्प्ये
अतिप्रसङ्गस्यैव दोषत्वात्त्दिव्यवस्थापकत्वम्
प्रमाणलक्षणटीका
कुतो न दूषणमित्याह
प्रमाणलक्षणम्
***अतिप्रसङ्गाभावात् ***
आश्रयासिद्ध्यादीनामदूषणत्वाङ्गीकारे अनिष्टप्रसङ्गाभावान् न दूषणम् । अतिप्र्रसङ्गाभावेऽपि कथमदूषणम् ? इत्याह
***अतिप्रसङ्गेन हि दोषत्वादोषत्वे कल्प्ये ***
यस्य दोषत्वानङ्गीकारे अनिष्टप्रसङ्गस् तस्य दोषत्वम् । यथा स्वरूपासिद्धेर् अदोषत्वे हृदादेरग्निमत्वप्रसङ्गेन दोषत्वम्। यस्य च अदोषत्वानङ्गीकारे अनिष्टप्रसङ्गस् तस्य अदोषत्वम् । यथा व्याप्तेर् अदोषत्वानङ्गीकारे साध्यासिद्धिप्रसङ्गेन अदोषत्वम् एवं दोषत्वादेरतिप्रसङ्गाधीनत्वाद् अत्र च तदभावान् न दोषत्वम् । अत्र अदोषत्वोक्तिर् दृष्टान्ततया उपयुज्यते । अतिप्रसङ्गशब्देन भावाभावावुपलक्ष्य अन्वयव्यतिरेकोक्तिर्वा।
प्रमाणलक्षणटीकाभावदीपः
॥ दर्शित इति ॥ हेत्वाभासोक्तिप्रस्तावे ‘प्रधानं नित्यम् अकार्यत्वात्’ ‘शब्दोऽनित्यः घटस्य कृतकत्वात्’ इति दर्शिते इत्यर्थः । साध्यासिद्धिं दर्शयति ॥ तत इति ॥ अनुमितेः प्रागित्यर्थः ॥ दृष्टान्ततयोपयुज्यत इति ॥ दोषत्वोपपादनस्यैव प्रकृतत्वादिति भावः ॥ भावाभावाविति ॥ अतिप्रसङ्गानति प्रसङ्गाभ्यां दोषादोषत्वे कल्प्ये इति वाक्यविन्यासं कृत्वा अतिप्रसङ्गे नहि दोषत्वं कल्प्यं यथा असिद्धेर् इत्यन्वयोक्तिः । तदभावे दोषत्वाभावः यथा व्याप्तेर् इति व्यतिरेकोक्तिरित्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
॥ दर्शित इति ॥ ‘प्रधानं नित्यम् अकार्यत्वात्’ इत्याश्रयासिद्धिः ‘शब्दोऽनित्यो घटस्य कृतकत्वात्’ इति व्यधिकरणासिध्दश्च दर्शिते इत्यर्थः ॥ ततः प्रागिति ॥ अनुमानात् प्रागित्यर्थः ।
॥ प्रसङ्गेनेति ॥ धूमवत्वेन हेतुनेति शेषः ॥ अत्र चेति ॥ आश्रयासिद्ध्या-दीनामदोषत्वाङ्गीकारे च तदभावाद् अनिष्टप्रसङ्गाभावादित्यर्थः। ननु यस्य दोषत्वानङ्गीकारे अनिष्टप्रसङ्गस् तस्य दोषत्वं कल्प्यम् । प्रकृते च आश्रया-सिद्ध्यादीनां दोषत्वानङ्गीकारे अनिष्टप्रसङ्गाभावान् न दोषत्वम् इत्येव प्रकृतसङ्गतम्। अतो ऽतिप्रसङ्गेन हि दोषत्वं कल्प्यम् इत्येव वक्तव्यम् । अदोषत्वमप्यतिप्रसङ्गेन कल्प्यम् इतिवचनं तु प्रकृतासङ्गतम् इत्यत आह ॥ अत्रादोषत्वोक्तिरिति ॥ यस्य अदोषत्वानङ्गीकारे अतिप्रसङ्गस् तस्य अदोषत्वमिति यथा अदोषत्वकल्पनम् अतिप्रसङ्गाधीनम् एवं दोषत्वमपि तदनङ्गीकारे अतिप्रसङ्गेनैव कल्प्यम् इत्येवमतिप्रसङ्गेन दोषत्वकल्पने दृष्टान्ततया अदोषत्वोक्तिरुपयुज्यत इत्यर्थः । एवं मूलपदस्वारस्यम् अङ्गीकृत्य दोषत्वादोषत्वयो रुभयोरपि अतिप्रसङ्गाधीनत्वम् अङ्गीकृत्य अदोषत्वोक्तिर् दृष्टान्ततया उपयुज्यत इति व्याख्याय प्रकारान्तरेणापि व्याचष्टे ॥ अतिप्रसङ्गशब्देनेति ॥ भावाभावावुपलक्ष्येति ॥ तथा च , अतिप्रसङ्गेन अतिप्रसङ्गसद्भावासद्भावाभ्यामिति यावत् । दोषत्वादोषत्वे कल्प्ये इति मूलार्थो द्रष्टव्यः । तथा च यस्य दोषत्वानङ्गीकारे अतिप्रसङ्गसद्भावस् तस्य दोषत्वं, यस्य च अदोषत्वाङ्गीकारे अतिप्रसङ्गाभावस् तस्य अदोषत्वम् इत्येवमन्वयव्यतिरेकाभ्यां दोषत्वादोषत्वयोर् अतिप्रसङ्गसद्भावासद्भावाधीनत्वात् प्रकृते च आश्रयासिद्ध्या-दीनां दूषणत्वाङ्गीकारे अति प्रसङ्गाभावान् न तेषां दूषणत्वमिति भावः ।
प्रमाणलक्षणटीकाविवरणं
द्वितीयस्य प्रसंगस्यानिष्टत्वमुपपादयति ॥ दृश्यत्वादीति ॥ निर्दोषायाः सदोषत्वस्य व्याहतत्वात् । व्याख्याति ॥ निर्दोषत्वेनेति ॥ कुत इत्यत अह ॥ अभावाभाव इति ॥ यद्यप्यत्राभावाभावो भाव एवास्तु स च भावव्याप्तो भवत्येवेति ॥ दर्शितेति । प्रधानं नित्यम् अकार्यत्वादित्याश्रयासिद्धिः । शब्दो नित्यः घटस्य कृतकत्वादिति व्यधिकरणासिद्धिश्च दर्शिता इति भावः । ततः प्रागिति अनुमानात्प्रागित्यर्थः । अप्रसिद्धिरित्यतः पूर्वं विशेषत इति शेषः । सामान्यतः सिद्धेस्तत्रापि सत्वादिति हृदयम् ।
॥ भावाभावाविति ॥ तथा चातिप्रसंगेन अतिप्रसङ्गसद्भावाभ्यामिति यावत्। दोषत्वकल्प्ये इति मूलार्थो द्रष्टव्यः । तथा च यस्य दोषत्वानङ्गीकारेऽ-तिप्रसंगसद्भावस्तस्य दोषत्वं यस्य चादोषत्वांगीकारेऽतिप्रसंगाभावस्तस्या दोषत्वमित्येवमन्वयव्यतिरेकाभ्यां दोषत्वादोषत्वयोर् अतिप्रसंगसद्भावाधीनत्वात् प्रकृते चाश्रयासिद्ध्यादीनामदूषणत्वांगीकारेऽतिप्रसंगाभावान्न तेषां दूषणत्वमिति भावः।