आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्
आश्रयासिद्ध्यादीनामदूषणत्वम्
प्रमाणलक्षणटीका
यदुक्तं हेतुस्वरूपासिद्धिरव्याप्तिरिति हेतुविरोध इति तदयुक्तम् । आश्रयासिद्धिसाध्यासिद्धिव्यधिकरणासिद्धीनामपि हेतुविरोधित्वाद् इत्यत आह
प्रमाणलक्षणम्
***आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम् ***
आश्रयासिद्धिव्यधिकरणासिद्धी दर्शिते । ततः प्राक् साध्यधर्मस्याप्रसिद्धिः साध्यासिद्धिः । यथा ‘इयं भूः शशविषणोल्लिखिता भूत्वात्’ इति ।