१० सम्भावितव्यभिचारेण प्रत्यक्षेण विश्वमिथ्यात्वप्रतिज्ञाया अविरोधाशङ्का तन्निरासश्च

व्यभिचारश्चेदागमार्थानुमानिर्दोषत्वाध्यवसाये च समः

सम्भावितव्यभिचारेण प्रत्यक्षेण विश्वमिथ्यात्वप्रतिज्ञाया अविरोधाशङ्का तन्निरासश्च

प्रमाणलक्षणटीका

अन्यस्त्वाह, न प्रत्यक्षेणानुमानस्य विरोधः । प्रत्यक्षस्य तत्र तत्र शुक्तिरजतादौ व्यभिचारो दृश्यते । ततश्च न तत्प्रामाण्ये विश्वासः सम्भवति । अविश्वस्तप्रामाण्येन च कथमनुमानस्य विरोधः स्यात् ? इति । तत्राह

प्रमाणलक्षणम्

***व्यभिचारश्चेदागमार्थानुमानिर्दोषत्वाध्यवसाये च समः ***

प्रत्यक्षस्य व्यभिचारदर्शनाद् अविश्वसनीयत्वं वदन् वादी प्रष्टव्यः ‘नेह नानास्ति किञ्चन’ इत्यागमस्य अशेषभेदा-भावोऽर्थः, दृश्यत्वानुमानं निर्दोषं, मानसिद्धत्वाऽद्यनुमानं सदोषम् इत्यध्यवसायः केन प्रमाणेन ? इति । न तावत् स्वेनैव। अननुभवात् । नाप्यागमाद्यन्तरेण । अनवस्थापातात् । प्रत्यक्षेण चेत् , तर्हि प्रत्यक्षस्य तत्र तत्र व्यभिचारदर्शनाद् इदमपि प्रत्यक्षमविश्वसनीयम् । तथा च न तेनागमार्थाध्यवसायः सिध्यतीति । अनुमाया अनिर्दोषत्वाध्यवसाय इति च योज्यम्। यद्यप्यत्र पूर्वोक्तमेवानिष्टं शक्यते वक्तुं तथापि तत् शिष्यैरेव शक्यते ज्ञातुमिति दूषणान्तरमेवोक्तम् । अभेदागमस्य अभेदार्थत्वा-ध्यवसायानुपपत्तिरेवानिष्टा ।

प्रमाणलक्षणटीकाभावदीपः

अशेषभेदाभावोऽर्थ इत्यत्रापि अग्रेतनम् इत्यध्यवसाय इतिपद-माकृष्यते । केन प्रमाणेनेति इतिशब्दस्य प्रष्टव्य इति पूर्वेणान्वयः । मानसिद्धत्वाद् इत्यादि स्वोक्तं मूलारूढं दर्शयितुमाह ॥ इति च योज्यमिति ॥ एतच्च निर्दोषानुमाया इत्याद्यग्रेतनग्रन्थघटनायेति ज्ञातव्यम् । पूरणमुणेत्यादिसूत्रेण गुणेन समासनिषेधात् कथमत्र समासः ? इति चेत् ‘तदशिष्यं सञ्ज्ञाप्रमाणत्वात्’ इछति पाणिनिनिर्देशान् न दोष इति भावः ।

॥ पूर्वोक्तमेवेति ॥ अनुमानागमप्रामाण्यग्राहिणोऽप्यनाश्वासापत्ति-रित्यादिरूपेण पूर्वोक्तमेवेत्यर्थः । अरुच्या दोषान्तरोक्तिरिति भ्रमनिरासायाह ॥ अभेदेति ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ ततश्चेति ॥

ज्ञानस्य व्यभिचारित्वे विश्वासः किंनिबन्धनः ।

इति वचनादिति भावः । अविश्वस्तप्रामाण्येन प्रत्यक्षेणेति शेषः ॥ स्वेनैवेति ॥ स्वेनैव स्वार्थाध्यवसायस्य स्वनिष्ठनिर्दोषत्वाध्यवसायस्य च अदर्शनादित्यर्थः । इदमपीति ॥ अभेदागमस्य अभेदोऽर्थ इत्यध्यवसायकम् अनुमानादेर्निर्दोषत्वाध्य-वसायकं च प्रत्यक्षमित्यर्थः । अविश्वसनीयं स्यादिति शेषः । आगमार्थाध्यवसाय आगमार्थाद्यध्यवसायः । पूर्वम् अनुमाया निर्दोषत्वाध्यवसाय इति पदं विच्छिद्य ‘मानसिद्धत्वानुमानस्य सदोषत्वाध्यवसाय’ इति शेषपूरणेन मूलं योजितम् । इदानीम् अनुमानिर्दाेषत्वाध्यवसाये च इत्यत्र अकारप्रश्लेषेणापि योजने मानसिद्धत्वाद्य-नुमानस्य अनिर्दोषत्वाध्यवसाये सदोषत्वाध्यवसाय इति यावत् , इत्येतन् मूलारूढमपि भवतीत्याशयेनाह ॥ अनुमाया इति ॥ अत्रेति ॥ प्रत्यक्षस्य तत्र तत्र शुक्तिरजतादौ व्यभिचारदर्शनेन तत्प्रामाण्ये विश्वासासम्भवेन अविश्वस्त-प्रामाण्येन प्रत्यक्षेण कथमनुमानस्य विरोधः ? इत्याशङ्कायामित्यर्थः ।

॥ पूर्वोक्तमेवेति ॥ पूर्वोक्तरीत्युपेतमित्यर्थः । पूर्वोक्तन्यायेनेति यावत् । तथा हि , प्रत्यक्षप्रामाण्यस्य अविश्वसनीयत्वं वदन् प्रष्टव्यः मिथ्यात्वग्राह्यनुमाना-गमप्रामाण्यं केन गृह्यते ? इति । न तावत्स्वेन । स्वप्रामाण्यविषयकत्वाननुभवात् । नाप्यनुमानान्तरेण । अनवस्थापातात् । अतः प्रत्यक्षेणैवेति वक्तव्यम् । तस्यापि प्रत्यक्षत्वाविशेषेण अविश्वस्तप्रामाण्यकतया कथं तेन तत्प्रामाण्यसिद्धिः ? तदसिद्धौ च भेदादिवाक्यानामेव प्रामाण्यं स्यात् । ननु न सर्वस्यापि प्रत्यक्षस्य व्याभिचारेण विश्वसनीयप्रामाण्यकत्वं ब्रूमः । किं तु? साक्षिव्यतिरिक्तस्यैव । साक्षिणस्तु अव्यभिचरितत्वनियमेन अविश्वसनीयत्वाभावात् तेन मिथ्यात्वग्राह्यनुमानादि-प्रामाण्यं सुगृहीतं भविष्यतीति चेत् तर्हि जगत्सत्यत्वमपि अव्यभिचरितत्व-नियमोपेततया विश्वस्तप्रामाण्यकेन साक्षिप्रत्यक्षेणैव गृहीतमिति युक्तस्तेनानुमानस्य विरोध इति पूर्वोक्तन्यायेन निष्टं वक्तुं शक्यत इति भावः ।

॥ दूषणान्तरमेवेति ॥ ननु व्यभिचारश्चेद् इतिवाक्येन आगमार्थाद्यध्यवसायो न स्याद् इति दूषणान्तरमेवोक्तमित्यर्थः । व्यभिचारश्चेद् इति वाक्योक्तम् आगमार्थाद्य-ध्यवसायानुपपत्तिरूपमेव दूषणं परस्य अनिष्टं वा ? न वा ? आद्ये तेनैवालम् । अत इत्युत्तरवाक्यं व्यर्थर्म् । द्वितीये तदुक्तिर्व्यर्था इत्याशङ्कायाम् आद्यं पक्षमङ्गीकृत्य उत्तरवाक्यमवतारयति ॥ अभेदागमस्येति ॥ अनिष्टेति ॥ परस्येति शेषः ।

केचितु आगमार्थाध्यवसायो न स्यादिति अस्माभिरापादिते इष्टापत्तिः परेण वक्तुं न शक्यत इत्याह ॥ अभेदागमस्येति ॥ अनिष्टैवेति एवकारान्वय इत्याहुः ।

प्रमाणलक्षणटीकाविवरणं

ननु मास्तु प्रत्यक्षप्रामाण्ये विश्वासः । अविश्वस्ता प्रामाण्ये नापि बाधः किं न स्यादित्यत आह ॥ अविश्वस्तेति ॥

ननु प्रत्यक्षस्य विश्वस्तप्रामाण्यवत्वेऽपि आगमाथ•ध्यवसायकस्यानुमान-निर्दोषत्वाध्यवसायकस्य चानुमानाद्यंतरस्यैवाङ्गीकारात् साम्योपपादनमयुक्त-मित्यतः विकल्पेन तद्वाक्यमुत्थापयति ॥ प्रत्यक्षस्येति ॥ न तावत्स्वेनैवेति स्वविषयकस्य स्वनिष्टनिर्दोषत्वाध्यवसायत्वासंभवादित्यर्थः ।

ननु मूले आगमार्थानुमाननिर्दोषत्वाध्यवसायकप्रत्यक्षेऽपि अविश्वसनीयत्वं स्यादिति मूलवाक्यात् प्रतीयते । एवं सति मानसिद्धत्वाद्यनुमाया सदोषत्वापादन-मसंगतमित्यतस्तदपि मूलारूढं कर्तुम् अकारप्रश्लोषेण मूलवाक्यं व्याख्याति ॥ अनुमाया इति ॥

ननु प्रत्यक्षस्य तत्र तत्र व्यभिचारदर्शनं न जगत्सत्यत्वप्रत्यक्षस्यापि अविश्वसनीयत्वेन न तद्विरोध इत्यभिहिते अनुमानागमप्रामाण्यग्राहकप्रत्यक्षस्यापि प्रत्यक्षत्वा विशेषाद् अनुमानागमादेः प्रामाण्यं न सिद्ध्र्र्येदिति पूर्वोक्तस्यैव दूषणस्य दूषणत्वसंभवाद् दूषणान्तरं कुत उक्तमित्यभिप्रेत्याह ॥ यद्यपीति ॥

नन्विदं दूषणान्तरं निर्दोषत्वग्राहिप्रत्यक्षस्य प्रामाण्यग्राहकत्वात् । एवं सति कथमेतदिति चेदत्र ब्रूमः । पूर्वं हि जगत्सत्यत्वग्राहिप्रत्यक्षस्य वर्तमानमात्र-ग्राहित्वेऽनुमादिप्रामाण्यग्राहकप्रत्यक्षस्यापि वर्तमानमात्रग्राहित्वं स्यादिति पूर्वमुक्तम् । इदानीं जगत्सत्यत्वग्राहिप्रत्यक्षस्य तत्र तत्र व्यभिचारदर्शनादविश्वसनीयत्वे निर्दोषत्वाध्यवसायकप्रत्यक्षस्यापि तत्स्यान्निर्दोषत्वमेव च न प्रामाण्यं किंतु तद्व्याप्यव्याप्यमेव । एवं च प्रमाण्यव्याप्यभूता प्रामाण्यभावव्याप्यभूतनिर्दोषत्व-ग्राहिप्रत्यक्षस्याप्यविश्वसनीयत्वमेवोच्यत इति दूषणान्तरत्वमिति भावः ।


अत उत्तरदिवसे अभेदवाक्यस्य भेदोऽर्थः स्यात्

प्रमाणलक्षणटीका

अधिकं चाह

प्रमाणलक्षणम्

***अत उत्तरदिवसे अभेदवाक्यस्य भेदोऽर्थः स्यात् ***

‘नेहनाना इति वाक्यस्याभेदोऽर्थ इत्यध्यवसायानुपपत्तौ भेदोऽर्थः स्यात् । परस्परविरुद्धयोर् अन्यतरनिषेधस्य अन्यतरविधिनान्तरीयकत्वनियमादिति ।

प्रत्यक्षस्य वर्तमानमात्रग्राहित्वाभ्युपगमेऽप्ययं दोषः समान इति सूचयितुम् उत्तरदिवस इत्युक्तम् । तथा हि ,यदि प्रत्यक्षं वर्तमानमात्रग्राहि तर्हि ‘नेह नाना’ इति वाक्यस्य अभेदोऽर्थ इत्यध्यवसायहेतोः प्रत्यक्षस्यापि तथात्वापत्त्या उत्तरदिवसेऽपि तदर्थत्वाध्यवसायो न स्याद् इति सिद्धं कृत्वा आह ॥ अथ इति ॥

प्रमाणलक्षणटीकाभावदीपः

‘अभेदोऽर्थ इत्यध्यवसायस्यापि प्रत्यक्षत्वेन वर्तमानमात्रग्राहित्वाद् इत्युक्तेर् मूले अभावाद् उत्तरदिवस इत्युक्तिमात्रेण कथं सूचनम् ? इत्यत आह ॥ तथा हीत्यादिना ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

नन्वस्मिन्पक्षे अतोऽभेदवाक्यस्य भेदोऽर्थः स्याद् इत्येतावत एव उपयुक्तत्वेन उत्तरदिवसे इत्येतद्व्यर्थम् इत्यतस् तत्सार्थक्यमुपपादयति ॥ प्रत्यक्षस्येति ॥ अयं दोष इति ॥ व्यभिचारश्चेद् इतिवाक्योक्त आगमार्थाद्यध्यवसायानुपपत्तिरूपो दोष इत्यर्थः ।

उत्तरदिवस इत्यनेन सूचितं दोषसाम्यमुपपादयति ॥ तथा हीत्यादिना ॥ तथात्वापत्त्या वर्तमानग्राहकत्वापत्त्या ॥ तदर्थत्वेति ॥ अभेदार्थत्वेत्यर्थः ॥ इति सिद्धं कृत्वाऽऽहेति ॥ इति दूषणं व्यभिचारश्चेद् इतिवाक्योक्तन्यायेन प्रत्यक्षस्य वर्तमानमात्रग्राहित्वाभ्युपगमपक्षेऽप्युत्तरदिवस इत्यनेन सिद्धं कृत्वा । ‘अभेदागमस्य अभेदोऽर्थः’ इत्यध्यवसायहेतोः प्रत्यक्षस्यापि वर्तमानमात्रग्राहित्वापत्त्या उत्तर-दिवसेऽपि तदर्थत्वाध्यवसायानुपपत्तिरेव परस्यानिष्टा । अधिकं च दूषणम् अतोऽभेद-वाक्यस्य भेदोऽर्थंः स्याद् इतिवाक्येनाहेत्यर्थः ।

प्रमाणलक्षणटीकाविवरणं

दुर्योज्यं प्रथमस्यापादनस्य प्रसंगत्वोपपत्तये अनिष्टत्व-मुपपादयति ॥ अभेदेति ॥ तर्कस्यानुमानरूपत्वादनुमाने च व्याप्तेरपेक्षितत्वाद् व्याप्तिमाह ॥ परस्परेति ॥ अस्मिन्पक्षे उत्तरदिवस इत्यस्यानुपयुक्तत्वात् पूर्वपादने तदुपयुक्तमित्याह । प्रत्यक्षस्येति ॥

साम्यमेवोपपादयति । तथाहीति ॥ तथात्वापत्या वर्तमानमात्रग्राहित्वा-पत्येत्यर्थः । यद्यप्यत्र पूर्वपक्षेऽपि अभेदवाक्यानां भेदार्थत्वमेवोक्तम् अर्थात् सर्वार्थाप्रामाण्यासंभवेन अर्थप्रच्यावनस्यैव कर्तव्यत्वादर्थान्तरासंभवेन भेदार्थस्यैवावश्यकत्वात् । तथापि अर्थादुक्तं पूर्वम् अत्र तुकण्ठत इति भेदः ।