०६ विश्वमिथ्यात्वानुमाने सप्रतिसाधनत्वम्

मानसिद्धत्वादिति सप्रतिसाधनत्वाच्च

विश्वमिथ्यात्वानुमाने सप्रतिसाधनत्वम्

प्रमाणलक्षणटीका

प्राक् दृष्टान्तविरोधाभिधानानन्तरं प्रतिज्ञायाः समबल-प्रमाणविरोधस्य सप्रतिसाधनसञ्ज्ञाविहिता । अतस्तेनैव क्रमेण तमुपपादयति

प्रमाणलक्षणम्

मानसिद्धत्वादिति सप्रतिसाधनत्वाच्च

‘जगत् सत्यं मानसिद्धत्वाद् ब्रह्मवत्’ इत्यपि वक्तुं शक्यत्वाज् जगन्मिथ्येति प्रतिज्ञासत्प्रतिपक्षा भवति । चशब्देन अमानसिद्धत्वमुपाधिं सूचयति । तद्धि मिथ्यात्वव्यापकं शुक्ति रजतादौ दृष्टम् । दृश्यत्वाव्यापकं च , जगति दृश्यत्वे विद्य-मानेऽप्यभावात् । अतो जगतो व्यावर्तमानम् अमानसिद्धत्वं मिथ्यात्वमपि व्यावर्तयतीति ।

प्रमाणलक्षणटीकाभावदीपः

दृष्टान्तदोषोक्त्यनन्तरं प्रतिज्ञादोषोक्तेर् अनवसरत्वम् आशङ्क्य तस्य समाधानमाह ॥ प्राग्दृष्टान्तेति ॥ प्रतिज्ञायाः समबलविरोध इत्यनेनाभिहित इत्यर्थः ॥ तमिति ॥ सप्रतिसाधनमित्यर्थः ॥ सत्प्रतिपक्षेति ॥ सत्प्रतिपक्षभूत-साधनवतीत्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

ननु प्रत्यक्षागमादिभिरिति वाक्येन प्रबलप्रमाणविरोधाभिधाना-नन्तरं समबलप्रमाणविरोध उद्भावनीय उभयोरपि प्रतिज्ञाविरोधत्वात् । अतो हेतुविरोधवद् दृष्टान्तविरोधाभिधानानन्तरं समबलप्रमाणविरोधोद्भावनम् असङ्गतमित्यत आह ॥ प्रागिति ॥ अभिधानानन्तरमिति ॥ साध्यस्य साधनस्य वा इति वाक्येनेत्यर्थः

॥ विहितेति ॥ प्रतिज्ञायाः समबलप्रमाणेन इति वाक्येनेत्यर्थः ॥ जगदिति ॥ विमतमित्यर्थः । अत एव मिथ्यात्वानुमानखण्डने विमतं सत्यं प्रमाणदृष्टत्वाद् इत्येव प्रयुक्तमिति द्रष्टव्यम् । तेन न ब्रह्मणि सिद्धार्थता शुक्तिरजतादौ च न बाध इति भावः ॥ अमानसिद्धत्वमिति ॥ मानासिद्धत्वमित्यर्थः । प्रमाणविरुद्धत्वमिति यावत् ॥ प्रमाणविरुद्धत्वमुपाधिर् इति मिथ्यात्वानुमानखण्डनवचनात् । उपाधित्वमुपपादयति ॥ तद्धीति ॥ अभावादिति ॥ उपाधेरिति शेषः ।

नन्वत्र प्रमाणबाध्यत्वरूपं मिथ्यात्वं साध्यम् । तदेव च प्रमाणविरुद्धत्वम् । न हि स्वस्मिन् स्वयमुपाधिः । व्याप्यव्यापकभावस्य भिन्नाश्रयत्वादिति चेन् मैवम् अन्यथाप्रतिपत्तिपूर्वकं तदुन्मूलनेन सम्यग्बोधोबाधः । प्रमाणविरोधस्तु विपरीतप्रमाणविषयत्वमात्रमिति भेदात् । यथा मार्गे गच्छतः ‘इदं रजतं’ इति ज्ञानाभावेऽपि आदावेव ‘नेदं रजतं’ इति रजताभावविषयिण्येव प्रमा भवति । सेयं विपरीतप्रमेत्युच्यते ।

ननु तर्हि अनुपसञ्जातबाधभ्रमस्थले ईश्वरीयविपरीतप्रमाविषयत्वसद्भावेन उपाधौ सत्यपि निरुक्तबाध्यत्वरुपसाध्याभावेन समव्याप्त्यभाव इति चेन्न समव्याप्तेरनपेक्षितत्वात् । तथात्वे विषमव्याप्तस्य उपाधित्वाभावापत्तेः । समव्याप्तिपक्षेऽपि न दोषः । तत्रापि निरुक्तबाधार्हत्वस्य सत्त्वात् । प्रपञ्चस्यापि प्रमाणविरुद्धत्वात् साधनव्यापकोऽयमुपाधिरिति चेन्न प्रतीतप्रमाणानामन्यत्र अन्यथा व्याख्यातत्वात् । दृश्यत्वेनैव हेतुना पक्षे उपाधेः साधने मिथ्यात्वस्य उपाधित्वात् । मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वस्य, तस्मिन् साध्येश्यामत्वस्यैव अन्योन्योपाधिभावेनाप्यनुमानस्याभासत्वात् । लोके च कस्यचिदर्थस्य सत्यत्वमिथ्यात्वयोर्विप्रतिपत्तौ, दर्शनं सत्यतायां प्रमाणविरोधं च मिथ्यात्वे अनुसरन्ति । ततो मिथ्यात्वे प्रयोजकमिति विज्ञायत इति संक्षेपः ।