अनिर्वचनीयदृश्यत्वाभावात्
विश्वमिथ्यात्वानुमाने दृष्टान्ते साधनवैकल्यम्
प्रमाणलक्षणटीका
तत्र साधनाननुगमं चोपपादयति
प्रमाणलक्षणम्
***अनिर्वचनीयदृश्यत्वाभावात् ***
अनिर्वचनीयं हि दृश्यत्वं साधनमभिमतम् । न तत् शुक्ति-रजतादौ वर्तत इति दृष्टान्तः साधनविकलो भवति । अनिर्वच-नीयतया अभिमतस्य शुक्तिरजतादेर्दृश्यत्वाभावादिति वा । शुक्त्यादेरेव दृग्विषयत्वेन ‘रजतादिकं दृष्टम्’ इति भ्रममात्रम् । तन्मतेऽपि अनिर्वचनीयस्य दृश्यत्वाभावादिति वा ।
तैरपि शुक्तिरजतादेर् न ऐन्द्रियकदृग्विषयत्वम् अङ्गीकृतम्। प्रतीतिसमय एवोदयाभ्युपगमात् । इन्द्रियस्याधिष्ठानग्रहण एव व्यापारोररीकरणात् । शुक्त्याद्यवच्छिन्नाऽत्माविद्याकल्पित-मारोपितयैव अवभासत इति तत्प्रक्रिया ।
प्रमाणलक्षणटीकाभावदीपः
अनिर्वचनीयदृश्यत्वाभावादित्युक्ते अन्यादृशदृश्यत्वमस्तीति प्रतिभाति । तच्च सिद्धान्तविरुद्धम् । अत आह ॥ अनिर्वचनीयतयेत्यादि ॥ षष्ठी-तत्पुरुषो न कर्मधारय इति भावः । तदुपपादयति ॥ शुक्त्यादेरिति ॥ अधिष्ठान-स्यैवेत्यर्थः । यत्सन्निकृष्टकरणेन यज् ज्ञानमुत्पद्यते स तस्य विषय इति विषयत्व-निरुक्तेः , रजतस्य च सत्त्वाभावेन सन्निकर्षाभावादिति भावः ।
नचैवं रजतं दृष्टमित्यनुव्यवसायविरोध इत्यतो भ्रमः स इत्याह ॥ रजतं दृष्टमिति ॥ भ्रममात्रमिति ॥ प्रकारान्तरेणापि वाक्यार्थमाह ॥ तन्मतेऽपीति ॥ मायावादिमतेऽपीत्यर्थः ।
॥ नैन्द्रियकेति ॥ तादृशज्ञानस्यैवात्र दृक्पदेन विवक्षितत्वादिति भावः । कुतः ? इत्यत आह प्र्रतीतिसमय इति ॥ प्रतीत्येककाल इत्यर्थः । प्रतीतिर्यदोदेति तत्काल एवानिर्वचनीयरजतोत्पत्तेर् अङ्गीकारान् नेन्द्रियसन्निकर्षजं तज् ज्ञान-मित्यर्थः।
नन्वेवं चक्षुरन्वयव्यतिरेकानुविधानानुपपत्तिर् इत्यत आह ॥ इन्द्रियस्येति ॥ कथं तर्हि तदवभासः ? इत्यत आह ॥ शुक्त्यादीति ॥ ब्रह्मचैतन्यं हि व्याप्तं व्यावहारिकैर् घटपटशुक्त्यादिसर्वपदार्थैस् तत्रतत्रत्यैर् आकाश इव अवच्छिद्यते कवलीक्रियते । तथा च शुक्यवच्छिन्ंनचैतन्यगताज्ञानं दुष्टेन्द्रियसन्निकर्षेण जात-शुक्त्याकारवृत्त्या क्षुभितं सद् रजतात्मना तदवभासात्मना च परिणमत इति अविद्याकल्पितम् आरोपिततया अवभासत इत्युक्तम् । शुक्तिज्ञानम् अन्तःकरणवृत्तिः रजतप्रतीतिस्तु अविद्यावृत्तिर् इति ‘इदं रजतम्’ इति द्विविधं ज्ञानमिति तत्प्रक्रिये-त्यर्थः।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
अनिर्वचनीयं च तद् दृश्यत्वं चेति कर्मधारयमभिप्रेत्य व्याचष्टे ॥ अनिर्वचनीयं हीति ॥ न तदिति ॥ प्रतिवादिनो मम मत इति शेषः ।
अनिर्वचनीयस्य दृश्यत्वाभावादिति षष्ठीविग्रहमभिप्रेत्य व्याचष्टे ॥ अनि-र्वचनीयतया अभिमतस्येति ॥ ननु शुक्तिरजतस्य कथं दृश्यत्वाभावः ? ‘रजतं दृष्टं’ इत्यनुव्यवसायेन तस्य दृश्यत्वावगाहनाद् इत्यतो रजतं दृष्टमिति भ्रममात्रत्वाद् इति मिथ्यात्वानुमानखण्डनोक्तप्रकारेण तत्र दृश्यत्वाभावमुपपादयति ॥ शुक्त्यादे-रेवेति ॥ इदमत्राकूतम् , दृग्विषयत्वं हि दृश्यत्वमत्र अभिप्रेतम् ‘यत्सन्निकृष्टकरणेन यज् ज्ञानमुत्पद्यते स तस्य विषयः’ इति अनित्यज्ञाने व्यवस्था । रजतज्ञानं च शुक्तिकासन्निकृष्टेन इन्द्रियेण जातमिति सैव तस्य विषयो न रजतम् । तस्य असत्वेन तेन साकम् इन्द्रियस्य सन्निकर्षाभावात् । अत एव ‘अन्यद् अन्यात्मना अवगाहते’ इति भ्रमः । तथा च ‘रजतं दृष्टं’ इति योऽनुव्यवसायः स भ्रम एव इति शुक्तिरजतस्य दृश्यत्वाभावात् साधनवैकल्यमिति भावः ।
॥ तन्मतेऽपीति ॥ मायावादिनो मतेऽपीत्यर्थः ॥ अनिर्वचनीयस्येति ॥ प्रातिभासिकस्य रजतस्येत्यर्थः । तदुपपादयति ॥ तैरपि हीति ॥ नैन्द्रियकदृग्वि-षयत्वमिति ॥ इन्द्रियद्वारा बहिर्निसृतान्तःकरणपरिणामरूपवृत्तिविषयत्वं नाङ्गीकृतमित्यर्थः । ननु मायावादिभिः शुक्तिरजतादेर् इन्द्रियजन्यान्तःकरण-वृत्तिरूपपरिणामरूपवृत्तिविषयत्वं कुतो नाङ्गीकृतम् ? इत्यत आह ॥ प्रतीतिसमय एवेति ॥ प्रतिभासमात्रशरीरत्वरूपप्रातिभासिकत्वाभ्युपगमादित्यर्थः ।
अयं भावः, शुक्तिरजतस्य इन्द्रियजन्यज्ञानविषयत्वे ज्ञानात् पूर्वं सत्त्वेन भाव्यम् । तथा च ‘रजतस्य ज्ञानात् पुर्वं सत्त्वसिद्धौ इन्द्रियस्य तत्सन्निकर्षसिद्धिः , तत्सिद्धौ च तज्जन्यप्रतिभासमात्रशरीररूपरजतसिद्धिः’ इत्यन्योन्याश्रयः स्यादिति।
ननु ‘रजतज्ञानम् इन्द्रियसम्प्रयोगजन्यम् अनन्यथासिद्धेन्द्रियव्यापारान्वयव्यति-रेकानुविधायित्वात् , इत्यनुमानेन शुक्तिरजतस्यापि इन्द्रियजन्यज्ञानविषयत्वसिद्धेर् न साधनवैकल्यम् इत्यतो विशेषणासिद्धत्वादनुमानमयुक्तमित्याह ॥ इन्द्रियस्येति ॥ अधिष्ठानेति ॥ अधिष्ठानभूतशुक्तिग्रहण इत्यर्थः ।
ननु यदि शुक्तिरजतादेः प्रतीतिसमय एवोदयाभ्युपगमेन इन्द्रियजन्यज्ञान-विषयत्वं तैर्नाङ्गीकृतं तर्हि तन्मते तस्य ज्ञानविषयत्वमेव न स्यादिति चेत् तत्राह ॥ शुक्त्यादीति ॥ शुक्त्यवच्छिन्नो योऽयमात्मा इदमंशावच्छिन्नचैतन्यमिति यावत् । तत्रत्या या अविद्या तया कल्पितमित्यर्थः ।
अयं भावः ,यथा तटाकोदकं छिद्राद्वहिर्निर्गत्य कुल्यात्मना केदारान् प्रविश्य चतुष्कोणत्वाद्याकारेण परिणमते तद्वत् सावयवं तैजसमन्तःकरणं चक्षुरादिद्वारा बहिर्निर्गत्य विषयान् व्याप्य तदाकारं भवति । सोऽयमन्तः करणपरिणामो वृत्तिरित्युच्यते । यथोक्तं
स्वच्छेऽन्तःकरणेऽशनिप्रसृमरे नेत्रादिमार्गोद्गते
तत्तद्वाह्यचयात्मना परिणते बिम्बीभवन्ती चितिः ।
एकाऽप्यर्थमनोविशेषकवशाद्द्वैतं प्रपन्ना हर
त्यज्ञानं प्रकटीकरोति विषयान् ज्ञातं मयेदं त्विति ॥ इति ।
तथा च ‘इदं रजतं’ इत्यत्र तन्मते वृत्तिद्वयमस्ति । तत्र अन्तःकरणवृत्तिप्रतिबिम्बित-चैतन्याभिव्यक्तं यद् अधिष्ठान चैतन्यं तदेव च ज्ञानम् । तद्विषयत्वम् इदमंशस्यैवास्ति। तथा च तदंशे अन्तःकरणवृत्तिः । अनन्तरम् इदमंशावच्छिन्नचैतन्यस्था अविद्या दोषवशात् क्षुब्धा सती रजताकारेण तज्ज्ञानाकारेण च परिणमते । तथा च रजतांशे अविद्यावृत्तिः । सोयमर्थज्ञानात्मको भ्रम इत्युच्यते । तथा च इदमंशावच्छिन्न-चैतन्यस्थाऽविद्याकल्पितं रजतम् आरोपिततयैवावभासते अविद्यावृत्तिप्रतिबिम्बित-साक्षिचैतन्यविषयतया अवभासत इति यावत् । तथा च रजतस्य इन्द्रियजन्यान्तः-करणवृत्तिप्रतिफलितचिद्विषयत्वाभावेऽपि अविद्यावृत्तिप्रतिफलितचिद्विषयत्वाद् युक्तं तन्मते तस्य ज्ञानविषयत्वमिति ॥
॥ इति तत्प्रक्रियेति ॥ सा च प्रक्रिया अप्रामाणिकी इत्याशयः ॥ इति तु प्रक्रियामात्रमित्यपि क्वचित्पाठः । तथा हि, ‘इदं रजतं’ इत्यत्र इदमंशे अन्तःकरण-वृत्तिः रजतांशे अविद्यावृत्तिर् इति कल्पने प्राभाकरमत इव ज्ञानद्वित्वापत्त्या विशिष्टज्ञानाभावापत्तेः । न च चैतन्यरूपफलैक्येन ज्ञानैक्यव्यवहार इति वाच्यम् । चैतन्य रूपफलस्यैव शशविषाणवदप्रामाणिकत्वात् । हन्त, तर्हि ‘अयं घटः’ इत्यादिज्ञानेष्वप्येवं कल्पनाप्रसङ्गेन ‘इदं रजतम्’ इति ज्ञानात् तेषां भेदाभावापत्तेर् इत्याद्यालोचनीयमिति संक्षेपः ।
तथा च रजतांशे अविद्यावृत्तेर् अप्रामाणिकत्वात् प्रतीतिसमयमात्रवर्तितया प्रातिभासिकस्य रजतस्य इन्द्रियजन्यान्तःकरणपरिणामरूपवृत्तिविषयत्वरूप-दृश्यत्वस्य च परेणैवानङ्गीकृतत्वाद् दृष्टान्ते साधनवैकल्यं सुस्थमेवेति भावः ।
प्रमाणलक्षणटीकाविवरणं
वादिमतानुसारेण साधनाननुगममुपपादयति । तन्मतेऽपीति ॥ रजतस्य दृश्यत्वं कुतो नास्तीत्यत आह ॥ तैरपीति ॥ तत्र हेतुमाह ॥ प्रतीतीति ॥ नन्वेवं तस्येंद्रियजन्यज्ञानविषयत्वाभावे इंद्रियसन्निकर्षोपयोगो न स्यात् । अंधस्यापि रजतभ्रमापत्तेश्चेत्यत आह ॥ इंद्रियस्येति ॥
तत्रैव तत्प्रक्रियामुदाहरति शुक्त्याद्यवछिन्नेति । ऐन्द्रियकदृग्विषयत्वमिति। अन्तःकरणवृत्तिविषयत्वमित्यर्थः । तेनेंद्रियजन्यज्ञानविषयत्वस्य धर्मादावभावेन भागासिद्धिपरिहारः । धर्मादावप्यन्तःकरणवृत्तिविषयत्वस्य सत्वात् । शुक्तिरजतादौ चान्तःकरणवृत्तिविषयत्वस्य भावात् साधनवैकल्यं च । अन्तःकरणवृत्तेरिंद्रिय-जन्यत्वात् । रूप्यस्य च प्रतीतिकाल एवोत्पन्नत्वेनेंद्रियेण सह सन्निकर्षाभावादिति भावः ।
ननु तथा सति रजतभानं कथमित्यत आह ॥ शुक्त्यादीति ॥ शुक्त्यादिनाव-च्छिन्नो य आत्मा तन्निष्ठा या अविद्या तया कल्पितमपि रजतमारोपितं तथैवाव-भासत इत्यर्थः । अयं भावः । यथा तटाकोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविशति एवं सावयवं तैजसमन्तःकरणं चक्षुरादिद्वारा बहिर्निसृतं सदिदमाकारेण परिणमते । सोऽयं परिणामोन्तःकरणवृत्तिरित्युच्यते । तस्यां वृत्तावभिव्यक्तं प्रतिबिंबितं वा यच्चैतन्यम् इदमंशावच्छिन्नं तद्विषयो भवति । तत्रस्थाविद्यादोषवशात् क्षुब्धा सति रजताकारेण तज्ज्ञानाकारेण परिणमते तत्र रजताकारपरिणामो विद्यावृत्तिः सोऽयमर्थज्ञानात्मको भ्रमस् तत्राविद्यावृत्तिप्रतिबिंबितं यत्साक्षिचैतन्यं तस्य रजतं विषयो भवति । नत्वंतःकरणवृत्तिविषय इति । न च वृत्तिविषयत्व-मात्रस्यैव तत्वेन विवक्षितत्वान्न साधनवैकल्यमिति वाच्यम् । तथात्वे हेतोः प्रातिभासिकविषयत्वेनाप्युपपत्याऽर्थांतरपातात् ।
न चैवं प्राभाकरमत इव ज्ञानद्वयापत्तिरिति वाच्यम् । चैतन्यस्वरूपफलैक्येन ज्ञानैक्यव्यवहारसंभवात् । न चैवं घटो यदित्यादिज्ञानानां तथात्वापत्तेर्न भागासिद्धिः। दोषसहकारिसदसद्भावाभ्यां घटोऽयमित्यादि ज्ञानानां रजतमित्यादिनां च भेदोपपत्तेः । ननु प्रबलप्रमाणविरोधानन्तरं प्रतिज्ञायाः समबलप्रमाणविरोध उद्भाव्यः । उभयोरपि प्रतिज्ञाविरोधत्वात् ।