शुक्तिरजतादेरनिर्वचनीयत्वाभावात्
विश्वमिथ्यात्वानुमाने दृष्टान्ते साध्यवैकल्यम्
प्रमाणलक्षणटीका
शुक्तिरजतादिदृष्टान्ते साध्याननुगममुपपादयति
प्रमाणलक्षणम्
***शुक्तिरजतादेरनिर्वचनीयत्वाभावात् ***
मिथ्यापदेन अनिर्वचनीयत्वमभिमतं वादिनः । तच्च दृष्टान्ते शुक्तिरजतादौ न विद्यते । ‘असदेव रजतं प्रत्यभात्’ इति बाधकप्रत्ययेन असत्त्वावधारणात् । अतः शुक्तिरजता-दिदृष्टान्तः साध्यविकलो भवति ।
प्रमाणलक्षणटीकाभावदीपः
॥ तत्र च दृश्यत्वहेतोर्वर्तमानत्वादिति ॥ अन्यथा आत्मा इत्यादिव्यवहारायोग इति भावः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
॥ तत्र च दृश्यत्वहेतोर्वर्तमानत्वादिति ॥ आत्मनोऽपि वेदान्तजन्यवृत्तिव्याप्यत्वादित्यर्थः । अन्यथा ब्रह्मपराणां वेदान्तानां ब्रह्मज्ञानार्थं श्रवणादिविधेश्व वैयर्थ्यं स्यात् । ब्रह्म विचारयितुमारब्धयोर् गुरुशिष्ययोर् मौनं मौढ््यञ्च स्यात् । ‘ब्रह्मजिज्ञासा ब्रह्मज्ञानं’ इत्यादौ कर्मणि षष्ठी ‘तमेव धीरो विज्ञाय’ इत्यादौ द्वितीया ‘दृश्यते त्वग्रयया बुद्ध्या’ इत्यादौ तिङ् ‘आत्मा वा ओ द्रष्टव्यः’’ इत्यादौ तव्यादिश्च न स्यादिति भावः ॥ एतेनेति ॥ आत्मनोऽपि दृश्यत्वाद् इति वाक्येनेत्यर्थः ॥ व्यतिरेकदृष्टान्तादिति ॥ व्यतिरेकव्याप्तौ दृष्टान्तभूताद् आत्मनः सकाशात् साधनस्य अव्यावृत्तिश्चोपपादिता भवतीत्यर्थः । व्यतिरेकव्याप्तौ दृष्टान्ते साधनव्यावृत्तिरङ्गम् । तदव्यावृत्तिश्च दोष इति भावः ।
प्रमाणलक्षणटीकाविवरणम्
॥ एतेनेति ॥ आत्मनि दृश्यत्वोपपादनेनेत्यर्थः । ननु शुक्तिरजता-देरनिर्वचनीयत्वाभावेऽपि साध्यत्वेनाभिमतस्य मिथ्यात्वस्य तत्र सत्वान्न साध्याननुगम इत्यत आह ॥ मिथ्यापदेनेति ॥ तत्रानिर्वचनीयत्वं कुतो नास्तीति चेत् सद्विलक्षणत्वेऽपि असद्विलक्षणत्वाभावात्तस्य निर्वचनीयशब्दार्थत्वादिति भावः । असद्विलक्षणमेव कुतो नेत्यतो असत्वादेवेत्याह ॥ असदेवेति ॥ अनिर्वचनीयत्वस्य साधनविशेषणत्वमाभिप्रेत्य साधनाननुगम उपपादितः । इदानीं दृष्टान्तविशेषणत्वमभ्युपेत्यापि साधनाननुगममुपपादयति अनिर्वचनीयतयेति । ननु रजतस्यापि दृश्यत्वात् साधनाननुगमः कथमित्यत आह ॥ शुक्त्यादेरेवेति ।