तत्पक्षे दृश्यत्वस्य च मिथ्यात्वात्
विश्वमिथ्यात्वानुमाने स्वरूपासिद्धिः
प्रमाणलक्षणटीका
हेतोः स्वरूपासिद्धिमुपपादयति ।
प्रमाणलक्षणम्
***तत्पक्षे दृश्यत्वस्य च मिथ्यात्वात् ***
‘यद् दृश्यं तन् मिथ्या’ इति व्याप्तिमङ्गीकुर्वता दृश्यत्व-स्यापि मिथ्यात्वमङ्गीकर्तव्यम् । अन्यथा दृश्यत्वस्य व्यभि-चारापातात् । अतो दृश्यत्वहेतोर्मिथ्यात्वाद् दृश्यत्वहेतुर्वादिनः स्वरूपासिद्ध एव ।
न मिथ्येत्यसदुच्यते । येन हेतोः स्वरूपासिद्धिः स्यात्। किं नाम ?अनिर्वचनीयमेव । अतो ऽनिर्वचनीयदृश्यत्वस्य भावान्न स्वरूपासिद्धिरित्यत आह
***अनिर्वचनीयस्य प्रतिवादिनोऽसिद्धत्वात् ***
अनिर्वचनीयस्य दृश्यत्वस्य हेतुत्वाङ्गीकारेऽपि प्रति-वादिनः स्वरूपासिद्धिर्भवत्येव । प्रतिवादिना जगति अनि-र्वाच्यदृश्यत्वस्यानङ्गीकृतत्वादिति ।
यथा अग्निमत्वे साध्ये मलिनत्वामलिनत्वादिविशेषान-पहाय धूममात्रं हेतुस् तथा अनवधारितानिर्वचनीयत्वादिविशेषं दृश्यत्वमात्रं जगन्मिथ्यात्वे हेतुः किं न स्यात् ? इत्यत आह ॥ अनिर्वचनीयस्येति ॥ शक्यते वक्तुं धूममात्रमग्निमत्वे हेतुरिति । मलिनधूमादौ वादिप्रतिवादिनोर्धूमत्वसंमतेः । न चैवं प्रकृते । अनिर्वचनीयदृश्यत्वस्य प्रतिवादिनोऽसिद्धत्वात्। न हि गगननलिनासिद्धौ नलिनत्वसामान्यं तत्राङ्गीकर्तुं शक्यत इति ।
प्रमाणलक्षणटीकाभावदीपः
॥ दृश्यत्वस्यापीति ॥ हेतूकृतस्येति योज्यम् । अस्य दृश्यत्वहेतोर् अज्ञानासिद्धिपरिहाराय दृश्यत्वस्यापि दृश्यत्वमङ्गीकार्यमिति भावेनोक्तम् अन्यथा व्यभिचारापातादिति ॥ वादिन इति ॥ अनुमानप्रयोक्तुरित्यर्थः ।
शङ्कते ॥ नेति ॥ अनिर्वचनीयमिति ॥ सदसद्विलक्षणमित्यर्थः । तदेव वाक्यम् अन्यथापि अवतारयति ॥ यथेति ॥ अनवधारितेत्यादि बहुव्रीहिः । आदिपदेन असत्त्वग्रहः । असद्दृश्यत्वाद् इति वा अनिर्वचनीयदृश्यत्वाद् इति वा नोच्यते । किं तु ? दृश्यत्वमात्रमित्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
॥ अन्यथेति ॥ दृश्यत्वस्य सत्यत्वाङ्गीकारे दृश्यत्वे दश्यत्वमस्ति न वा इति प्रष्टव्यम् । द्वितीये हेतोर् अज्ञानासिद्धिः । आद्ये दृश्यत्वोपेते दृश्यत्व एव मिथ्यात्वरूपसाध्याभावेन व्यभिचारः स्यादित्यर्थः ॥ मिथ्यात्वादिति ॥ असत्वादित्यर्थः । शङ्कते ॥ न मिथ्येत्यसदुच्यत इति ॥ भावादिति ॥ मन्मत इति शेषः । अनिर्वचनीयस्येत्यनन्तरं पूर्ववाक्याद् दृश्यत्वस्य इत्यनुवर्तत इत्यभिप्रेत्य व्याचष्टे ॥ अनिर्वचनीयस्य दृश्यत्वस्येति ॥ शङ्कते ॥ यथेत्यादिना ॥ अमलिनत्वादीत्यादिपदेन एतद्देशकालसंलग्नत्वानेतद्देशकालसंलग्रत्वादिसंग्रहः ।
प्रमाणलक्षणटीकाविवरणम्
॥ अन्यथेति ॥ दृश्यत्वे दृश्यत्वमंगीकृत्यापि तत्र मिथ्यात्वानंगी-कारे साध्याभाववद्गामित्वेन व्यभिचारः स्यादित्यर्थः ।