०१ विश्वमिथ्यात्वानुमाने प्रतिज्ञादिविरोधः

सर्व एते दृश्यत्वानुमाने द्रष्टव्याः

विश्वमिथ्यात्वानुमाननिरासप्रकरणम्

विश्वमिथ्यात्वानुमाने प्रतिज्ञादिविरोधः

प्रमाणलक्षणटीका

प्रतिज्ञाविरोधादेरुदाहरणमाह

प्रमाणलक्षणम्

***सर्व एते दृश्यत्वानुमाने द्रष्टव्याः ***

‘‘विवादपदं मिथ्या दृश्यत्वाद् यद् दृश्यं तन् मिथ्या यथा शुक्तिरजतं तथा चेदं दृश्यं तस्मान्मिथ्या’’ इत्येतदनुमानं प्रतिज्ञाविरोधादीनामुदाहरणं ज्ञातव्यमिति ।

***विश्वमिथ्यात्वप्रतिज्ञायाः प्रबलप्रमाणविरोधः ***

तत्कथम् ? इत्यतः प्रतिज्ञायाः प्रबलप्रमाणविरोधं तावदुप-पादयति

***प्रत्यक्षागमादिभिर्जगतः सत्यत्वात् ***

सन् घट इत्यादिप्रत्यक्षेण, विश्वं सत्यमित्याद्यागमेन , विवादपदं सत्यम् अर्थक्रियाकारित्वाद् इत्याद्यनुमानेन च जगतः सत्यत्वावधारणाज् जगन्मिथ्या इति प्रतिज्ञा प्रबलप्रमाण-विरुद्धा भवति ।

प्रमाणलक्षणटीकाभावदीपः

॥ विवादपदमिति ॥ सत्यत्वमिथ्यात्वाभ्यां विवादस्थानं शुक्तिरूप्यासद्ब्रह्मान्यज् जगद् इत्यर्थः ॥ मिथ्येति ॥ असदित्यर्थः ॥ दृश्यत्वादिति ॥ ज्ञानविषयत्वादित्यर्थः ।

विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ।

हे मघवानौ धनादिमन्तौ युवयोर् विश्वं सत्यमित् सत्यमेव । अलमहमेवं प्रतिपन्नः । किं तु ? आपोऽति सर्वा देवता अपि वां सत्यजगत्सर्जनादिकं कर्म जानन्ति इति द्विरूपं परमेश्वरं प्रत्युच्यते ‘यच्चिकेत सत्यं’ इत्याद्यागमेनेत्यर्थः ॥ अर्थेति ॥ जलाहरणशीतनिवर्तनादिवस्तुकार्यकरत्वादित्यर्थः । आदिपदेन प्रमितिविषयत्वबाधशून्यतादिग्रहः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ विवादपदमिति ॥ ‘सर्वं मिथ्या’ इत्युक्ते ब्रह्मणि प्रमाणबाधः शुक्तिरजतादौ सिद्धार्थता च स्यात् । अतो विवादपदमित्युक्तम् । तथा च ब्रह्मप्रमान्येन वा अबाध्यत्वे सति असद्विलक्षणत्वे सति ब्रह्मान्यद् इत्यर्थः । यद्वा सत्यत्व-मिथ्यात्वाभ्यां वादिप्रतिवादिनोर् विप्रतिपत्तिविषयीभूतं वियदादि इत्यर्थः।

प्रमाणलक्षणटीकाविवरणम्

॥ विवादपदमिति ॥ ब्रह्म प्रमान्येन वा सप्रकारकेण वा बाध्यत्वे सति असद्वैलक्षण्ये सति ब्रह्मान्यत् सत्वमिथ्यात्वाभ्यां वादिप्रतिवादिविमति-विषयीभूतमित्यर्थः । साध्यविवेकमुत्तरत्र करिष्यत्याचार्यः । सन् घट इति न च नानेन घटसत्वं विषयीक्रियते । ब्रह्मगतसत्वानुवेधादिति चेन्न । ब्रह्मणो निरुपाख्य-त्वेन वेदैकसमधिगम्यत्वेन च चाक्षुषे ज्ञाने तत्प्रतिभानासंभवादिति ॥ प्रत्यक्षा-गमादिव्याप्तिरिति । अत्रादिपदसंगृहीतमनुमानमाह ॥ विवादपदमिति ॥