०८ सोपाधिकस्य व्याप्यत्वासिद्धत्वमतम्

उपाधिगतव्याप्यत्वोपजीवनात् सोपाधिको हेतुर्व्याप्यत्वा-सिद्धो भवतीत्येके

सोपाधिकस्य व्याप्यत्वासिद्धत्वमतम्

प्रमाणलक्षणटीका

उपाधिगतव्याप्यत्वोपजीवनात् सोपाधिको हेतुर्व्याप्यत्वा-सिद्धो भवतीत्येके ।

सोपाधिकस्य व्यभिचारित्वमतम्

साध्यरहितस्य पक्षस्यैव विपक्षत्वात् तत्र वर्तमानो हेतुर् व्यभिचारी स्यादित्यपरे ।

पूर्वोक्तमतद्वयनिरासः

तद् एवकारेण व्यवच्छिद्यते । यदा उपाधिव्यावृत्त्या पक्षे साध्याभावः सिद्धस् तदैव परानुमानं दुष्टं स्यादिति पश्चाद्भाविना दोषेण पिष्टं पिष्टं स्यादिति ॥

साध्याभावाविनाभाव्यभावत्वस्य अवश्याभ्युपगम-नीयत्वात् प्रथमप्राप्तपरित्यागेन दोषान्तरान्वेषणे गौरवं च स्यात्। विषमव्याप्तौ व्याप्यत्वासिद्ध्यनुपपत्तिश्चेति ।

प्रमाणलक्षणटीकाभावदीपः

साध्यसमव्याप्तोपाध्यभिप्रायेणाह ॥ उपाधिगतव्याप्यत्वेति ॥ साध्याभावेति ॥

साध्याभावाविनाभावी स उपाधिर्यदस्यः ।

इत्युक्तदिशा उपाधेः साध्यव्याप्तत्वमङ्गीकुर्वता साध्याभावाविनाभावी योऽभावस् तत्प्रतियोगित्वरूपस्यावश्याभ्युपेयत्वात् साध्याभावव्याप्याभावस्य लिङ्गत्वात् प्रतिपक्षत्वमेवेति भावः ।

॥ विषमेति ॥ ‘गिरिर् धूमवान् अग्निमत्त्वात्’ इत्यत्र ‘आर्द्रेन्धनवत्वरूपोपाधेर् विषमव्याप्तिमतः साध्यव्याप्यत्वाभावेन तन्निष्ठव्याप्यत्वोपजीवनाभावात् हेतोर् व्याप्यत्वासिद्धिर् अयुक्तैव स्यात् । प्रतिपक्षस्तु तत्रापि सम्भवत्येवेति भावः ।

एतच्चोपाधेः प्रतिपक्षोन्नायकत्वाभिधानं विप्रतिपत्त्युत्तरकालोपस्थितोपा-धिविषयम् । ततः प्राग्व्याप्तिग्रहणकालोपस्थितोपाधिस्तु व्याप्यत्वासिद्धौ अन्त-र्भवतीति ज्ञेयम् । तेन व्याप्यत्वासिद्धो द्विविधः साध्यसम्बन्धरहितः सोपाधिकश्च इति पद्धतिवाक्याविरोधः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

एवकारव्यावर्त्यं दर्शयति ॥ उपाधिगतेति ॥ उप समीपे स्वनिष्ठ धर्मम् आदधाति इति उपाधिशब्दनिर्वचनेन समव्याप्तस्यैव उपाधित्वावगमादिति भावः । यथा आहुः

स्वसम्बन्धेन यः स्वीयं धर्ममन्यत्र योजयेत् ।

स उपाधिर्यथा लोके जपादिः स्फटिकादिषु ॥ इति ।

॥ व्याप्यत्वासिद्धो भवतीति ॥ यथा आहुः पदार्थविदः ‘व्याप्यत्वासिद्धो द्विविध एको व्याप्तिग्राहकप्रमाणाभावाद् अपरस्तु उपाधिसद्भावादिति ।

द्वितीयमतं तावद्दूषयति ॥ यदेति ॥ दुष्टं स्यादिति ॥ सत्प्रतिपक्षरूप-दोषेणैवेत्यर्थः ॥ दोषेणेति ॥ व्यभिचाररूपदोषेणेत्यर्थः ॥ पिष्टं पिष्टं स्यादिति ॥ तथा च तस्य दोषस्य वैयर्थ्यात् तदुद्भावने आधिक्येन निग्रह इति भावः ।

उपाधिव्यावृत्त्या पक्षे साध्याभावसिद्धिरेव मया नाङ्गीक्रियते इत्याशङ्कां परिहरन् गौरवरूपं दोषान्तरं चाह ॥ साध्याभावेति ॥ अभावत्वस्येति बहुव्रीहिः । तथा च साध्याभावेन साकं यो ऽविनाभावस् तद्वान्यो ऽभाव उपाध्यभावस् तद्वत्त्वस्य तत्प्रतियोगित्वस्येति यावत् ।

एकः साध्याविनाभावे भिन्नः सम्बन्धशून्ययोः ।

साध्याभावाविनाभावी स उपाधिर्यदत्ययः ॥

इतिवचनादित्यर्थः ॥ अवश्याभ्युपगमनीयत्वादिति ॥ उपाधेरिति शेषः । अन्यथा पक्षस्य विपक्षत्वाभावेन तत्र व्यभिचारोऽपि न स्यादिति भावः । तथा च यत्रोपाध्यभावस् तत्र साध्याभाव इति व्याप्त्या पक्षे साध्याभावसिद्धौ सत्प्रतिपक्षस्यैव प्रथमप्राप्तत्वात् तत्परित्यागेन व्याभिचाररूपदोषान्तरान्वेषणे गौरवं च स्यादित्यर्थः।

आद्यं मतं दूषयति ॥ विषमव्याप्ताविति ॥ विषमव्याप्तिमच्छाकपाकजत्वो-पाधिमतिमित्रातनयत्वाद् इति हेतावित्यर्थः । तथा च तत्र उपाधौ साध्यव्याप्यत्वा-भावेन स्वनिष्ठधर्मासञ्जकत्वस्य वक्तुमशक्यत्वादिति भावः । ननु

साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च ।

इत्यनुव्याख्याने भगवत्पादैर् उपाधेर् अव्याप्त्युन्नायकत्वस्य चशब्दात् सत्प्रति-पक्षोन्नायकत्वस्य चोक्तत्वाद् अत्र पुनः स ऐवोपाधिदोषोऽपि इत्युपाधेः सत्प्रतिपक्षोन्नायकत्वमेव अङ्गीकृत्य अव्याप्त्युन्नायकत्वस्य एवकारेण व्यावर्तित-त्वात् स्ववचनविरोध इति चेद् उच्यते, पक्षादिप्रविभागात् पूर्वं व्यप्तिग्रहणवेलायाम् उपस्थितस्य उपाधेर् अव्याप्त्युन्नायकत्वमेव न सत्प्रतिपक्षोन्नायकत्वम् । पक्षादि-प्रविभागानन्तरम् उपस्थितस्य तु सत्प्रतिपक्षोन्नायकत्वमेव नाव्याप्त्युन्नायकत्वम् इति विवेकसद्भावेन पक्षादिप्रविभागोत्तरकालोपस्थितोपाध्यपेेक्षया एतद्ग्रन्थस्य प्रवृत्तत्वान् न विरोध इति द्रष्टव्यम् ।

यथोक्तं सुधायां तस्मादनुमानोत्तरकालं सत्प्रतिपक्षतैवेत्युचितम् । एतदेवाभिप्रेत्य ‘स एवोपाधिदोषोपि’ इत्यादिवचनम् इति ।

प्रमाणलक्षणटीकाविवरणम्

एवकारव्यावर्त्यं दर्शयितुं मतान्तरमुत्थापयति । उपाधीति तदेकदेशमतमुत्थापयति । साध्यरहितस्येति ॥ द्वितीयपक्षं तावद्दूषयति यदेति ॥ ननु पद्धतौ उपाधेः सत्प्रतिपक्षोन्नायकत्वस्योक्तत्वेन प्रमाणलक्षणे तु मूले स एवोपाधिदोषोऽपीत्यनेनोपाधिदोषेन्तर्भावकथनेन टीकायामपि एवकारेण व्यभिचारनिरासेनोपाधिदोषस्य सत्प्रतिसाधनत्वमेवोच्यत इति व्याख्यातत्वेन तयोर्विरोध इति चेन्न । भावानवबोधात् पद्धतौ व्याप्तिग्रहणवेलायामुपस्तितस्योपा-धेरव्याप्त्युन्नायकत्वमुक्तम् अत्र च न दूषितं यच्चात्र दूषितं सत्प्रतिपक्षोन्नायकत्वमेव वर्तते नत्वव्याप्त्युन्नायकत्वमिति तदनुमानान्तरमुपस्थितस्यैवोपाधेस् तच्च न तत्राप्यंगीकृतमतो न विरोधः । यद्वा अत्र परोक्तानुमानप्रयोगानंतरमुपस्थितस्यैव उपाधेर् अव्याप्त्युन्नायकत्वं दूषितं न तु स्वोक्तं व्याप्तिग्रहणदशायामुपस्थितस्य अव्याप्त्युन्नायकत्वमतो न विरोधः । प्रथमोपस्थितत्वेन तेनैव दुष्टत्वसंभवे दूषणान्तरकल्पने गौरवं स्यादित्यर्थः ।

ननूपाध्यभावेन साध्याभावसिद्धिः कुतोंगीकर्तव्येत्यत आह ॥ साध्येति ॥ साध्यस्याभावः साध्याभावस्तस्य योऽविनाभावः स विद्यते यस्य सः साध्याभावाविना-भाव्यभावस्तस्य भावस्तत्वं तस्येत्यर्थः । अत एवोक्तं साध्याभावाविनाभावीस उपाधिर्यदत्यय इति प्रथमे परित्यागेनेति ।

अनेन प्रथमपक्षं दूषयति ॥ साध्याभावेति ॥ अभावत्वस्येति बहुव्रीहिः । तथा च साध्याभावेन साकं योऽविनाभाव उपाध्यभावस्तद्वत्वस्य तत्प्रतियोगि-त्वस्येति यावत् । अवश्याभ्युपगमनीयत्वादिति उपाधेरिति शेषः । अन्यथा पक्षस्य विपक्षत्वाभावेन तत्र व्यभिचारोऽपि न स्यादिति भावः । तथा च यत्रोपाध्यभावस्तत्र साध्याभाव इति व्याप्त्या पक्षे साध्याभावसिद्धौ सत्प्रतिपक्षस्यैव प्रथमप्राप्तत्वा-त्तत्परित्यागेन व्यभिचाररूपदोषान्तरान्वेषणे गौरवत्वं स्यादित्यर्थ इतिकेचित् ।

॥ विषमव्याप्तेरिति ॥ यद्यपि समव्याप्त्यस्य स्वगतव्याप्तेरन्यत्र स्थापकत्वेनोपाधित्वं संभवति । तथापि विषमव्याप्तस्योपाधेः साध्यव्यापकत्वेऽपि साध्यव्याप्यत्वाभावेन तव्द्याप्त्युपजीवनानुपपत्तेः । न च न विषमव्याप्तस्योपाधित्वम्। स्ववचनविरोधापत्तेस् तदनङ्गीकारे समव्याप्तस्यापि तदभावापत्तेः । विनिगमका-भावाच्चेति ।