प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधनः
सप्रतिसाधनस्य प्रमाणविरोधान्तर्भावः
प्रमाणलक्षणटीका
बाध एव प्रमाणविरोध इति मन्वान आह । सप्रति-साधनोऽप्यन्योऽनुमानविरोधोऽस्ति । अतः कथमेवं त्रैविध्यं? इति । तत्राह
प्रमाणलक्षणम्
***प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधनः ***
द्विविधो हि प्रतिज्ञायाः प्रमाणविरोधः प्रबलप्रमाणेन समबलेन चेति । आद्योबाधकत्वेन । द्वितीयः प्रतिबन्धकत्वेन । तत्र योऽयं प्रतिज्ञायाः समबलेन प्रमाणेन विरोधः स सप्रतिसाधन-सञ्ज्ञो भवति । अतो युक्तमुक्तमिति ।