०२ प्रतिज्ञाविरोधः

प्रमाणविरुद्धार्थप्रतिज्ञाविरोधः

प्रतिज्ञाविरोधः

प्रमाणलक्षणटीका

प्रतिज्ञाविरोधं लक्षयति ।

प्रमाणलक्षणम्

***प्रमाणविरुद्धार्थप्रतिज्ञाविरोधः ***

अत्र प्रमाणविरोध एव हेत्वाभासानामन्तर्भावात् तस्य ग्रहणं, न स्ववाक्यविरोधस्य ।

प्रमाणलक्षणटीकाभावदीपः

प्रमाणस्ववाक्यविरुद्धार्थेति कुतो नोक्तं ? इत्यत आह ॥ अत्र प्रमाणविरोध एवेति ॥ न स्ववाक्यविरोधस्येति ॥ ग्रहणमित्यनुकर्षः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

ननु प्रमाणविरोधवत् स्ववाक्यविरोधस्यापि प्रतिज्ञाविरोधत्वात् प्रमाणस्ववाक्यविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोध इति कुतो नोक्तम् ? इत्यत आह ॥ अत्रेति ॥ नेति ॥ स्ववाक्यविरोधे हेत्वाभासानामनन्तर्भावात् तदन्तर्भाव-कथनायैवास्य ग्रन्थस्य प्रवृत्तत्वादित्याशयः ।

प्रमाणलक्षणटीकाविवरणं

ननु प्रमाणविरुद्धार्थः प्रतिज्ञाविरोध इत्युक्तम् । प्रमाणविरोधवत् स्ववाक्यविरोधस्यापि तद्विरोधत्वादित्यत आह अत्रेति ॥ नात्र प्रतिज्ञाविरोधादि-लक्षणमन्याथर्म् अपि तर्हि हेत्वाभासादीनामन्तर्भावकथनार्थमेव । हेत्वाभासाना-मन्तर्भावश्च न स्ववाक्यविरोधे किंतु प्रमाणविरोध एवेति युक्तमुक्तम् ।