०१ अनुमानविरोधविभागः

त्रिविधो विरोधः प्रतिज्ञाहेतुदृष्टान्तभेदेन

अनुमानविरोधविभागः

प्रमाणलक्षणटीका

हेत्वाभासादेः क्वान्तर्भावः ? इत्यतस्तं वक्तुमनुमान-विरोधविभागमाह

प्रमाणलक्षणम्

***त्रिविधो विरोधः ***

अनुमानस्य साधारणोऽसाधारणश्च सम्भावित इति शेषः । कथं त्रैविध्यम् ? इत्यत आह

***प्रतिज्ञाहेतुदृष्टान्तभेदेन ***

अत्र प्रतिज्ञापदेन पक्षोऽप्युपलक्ष्यते । हेतुपदेन लिङ्गञ्च । तथा दृष्टान्तपदेनोदाहरणम् । विरोधस्योभयदूषणत्वात् । प्रतिज्ञादिभेदेन साधनांशानां त्रैविध्यात् तद्विरोधस्त्रिविधः । विरोधपदं संयोज्य वा योज्यम् । तत्र प्रतिज्ञाविरोधः साधारणः। अन्यावसाधारणौ ।

प्रमाणलक्षणटीकाभावदीपः

॥ उभयेति ॥ अर्थवचनोभयदोषत्वाद् उभयमप्यत्र ग्राह्यम् । अर्थद्वारा वचनस्यापि दोषत्वाद् उभयेत्युक्तम् । विरोधविभागं प्रतिज्ञाय प्रतिज्ञा-दिभेदकीर्तनम् अयुक्तमित्यत आह ॥ प्रतिज्ञादीति ॥ साधारण इति ॥ स्ववाक्यविरोधस्यापि प्रतिज्ञाविरोधत्वात् तस्य च अनुमानाद् अन्यत्रापि प्रश्नो-त्तरापसिद्धान्तजात्युत्तरादावपि सम्भवादिति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

ननु विरोधो मानस्ववाक्याभ्याम् इत्यनेन सम्यग्विरोधप्रभेदस्य निरूपितत्वात् त्रिविधोविरोध इति पुनर्विरोधविभागकथनमनुपपन्नम् इत्यतस् तद्वाक्यमवतारयति ॥ हेत्वाभासादेरिति ॥ तं वक्तुमिति ॥ उक्तदोषेष्वेव अशेषानुमानदोषाणाम् अन्तर्भाव इत्यतस् तम् अन्तर्भावं वक्तुमित्यर्थः ।

॥ अनुमानस्येत्यादि ॥ अनुमानस्य सम्भावितो विरोधः प्रतिज्ञादिविरोध-भेदेन त्रिविधः । तन्मध्ये कश्चित् साधारणः कश्चिद् असाधारण इति योज्यम् । अनुमाने साधारणासाधारणविरोधयोर् न नियम इत्याशयेन सम्भावित इत्युक्तम् ॥ प्रतिज्ञापदेनेति ॥ पक्षवचनवाचिना प्रतिज्ञापदेनेत्यर्थः ॥ हेतुपदेनेति ॥ लिङ्गवचनवाचिना हेतुपदेनेत्यर्थः ॥ दृष्टान्तपदेनेति ॥ साध्यसमानधर्मविशिष्ट-धर्मिवाचिनेत्यर्थः । उदाहरणं तद्वचनरूपम् ।

उपलक्षणे निमित्तमाह ॥ विरोधस्येति ॥ उभयेति ॥ साक्षाद् अर्थदोषस् तद्वारा वचनस्य इत्येवं विरोधस्य अर्थवचनदोषत्वादित्यर्थः । ननु विरोधस्य त्रैविध्यं प्रतिज्ञाय अनुमानावयवानां त्रैविध्योक्तिरनुपपन्ना इत्यत आह ॥ प्रतिज्ञादिभेदेनेति ॥ साधनांशानामनुमानावयवानाम् । तद्विरोधो ऽनुमानविरोधः । विरोधे त्रैविध्यं प्रतिज्ञाय अनुमानावयवानां त्रैविध्योक्तिरनुपपन्ना इति शङ्काऽपनोदाय विरोधपदा-ध्याहारेण मूलं योजयति ॥ विरोधपदं संयोज्यवेति ॥ तथा च प्रतिज्ञाविरोध-हेतुविरोधदृष्टान्तविरोधभेदेन इति मूलयोजना द्रष्टव्या ।

अनुमानस्य सम्भावितो विरोधः प्रतिज्ञाऽदिविरोधभेदेन त्रिविधः । तन्मध्ये कश्चित् साधारणः कश्चिद् असाधारण इत्युक्तम् । तद् विवेकेन दर्शयति ॥ तत्रेति ॥ त्रिविधविरोधमध्ये ॥ साधारण इति ॥ अनुमानसमयबन्धादिसाधारण इत्यर्थः । अन्यौ हेतुविरोधदृष्टान्तविरोधौ । असाधारणौ अनुमानमात्रनिष्ठौ ।

प्रमाणलक्षणटीकाविवरणं

ननु प्रतिज्ञाहेतुदृष्टान्तभेदेनेति आचार्येण एकत्रार्थग्रहणम् एकत्र वचनग्रहणं कृतं तत्कृत इत्यतो प्रतिज्ञाहेतूदाहरणभेदेनेति वक्तव्ये दृष्टान्त्ग्रहणेन सूचितमुपलक्षणमाह । अत्रेति ॥उपलक्षणे निमित्तमाह विरोधस्येति ॥ साक्षादर्थदोषस्तद्वारा वचनस्येत्येवं विरोधस्यार्थवचनदोषत्वादित्यर्थः ।

ननु विरोधस्त्रिविध इति विरोधस्य त्रैविध्यं प्रतिज्ञाय अवयवानां त्रैविध्योक्तिरसंगतेत्यत आह ॥ प्रतिज्ञादिभेदेनेति ॥ साधनांशानां साधना-वयवानमित्यर्थः।

तर्हि उपचारः स्यादित्यतः पक्षान्तरमाह ॥ विरोधेति ॥ तथा च प्रतिज्ञाहेतु-दृष्टान्तविरोधभेदेन विरोधस्त्रिविध इति नासङ्गतिः । यद्येवं त्रिविधस्य विरोधस्य साधारणत्वमसाधारणत्वं च तत्किं प्रत्येकमित्यतः पूर्वमर्थादुक्तं परिहारं साक्षात् कण्ठत आह ॥ अत्रेति ॥