०७ शब्दानां मुख्यार्थादिनिरूपणम्

रूढ्या योगेन वा प्रतिपाद्योऽर्थो मुख्यः

शब्दानां मुख्यार्थादिनिरूपणम्

प्रमाणलक्षणटीका

रूढ्या योगेन वा प्रतिपाद्योऽर्थो मुख्यः । बहुलप्रयोगमात्र-सिद्धा रूढिः प्रवृत्तिनिमित्तविवक्षया प्रवृत्तिर्योगः । अखण्डवृत्ती रूढिर् अवयववृत्तिर्योग इति वा । गौण्या लक्षणया वा वृत्त्या शब्दबोध्योऽर्थो ऽमुख्यः । मुख्यार्थगुणयुक्तार्थान्तरवृत्तिर्गौणी। मुख्यार्थसम्बन्धिन्यर्थान्तरे वृत्तिर्लक्षणेति ।

प्रमाणलक्षणटीकाभावदीपः

प्रसङ्गप्राप्तमुख्यार्थादेर्लक्षणमाह ॥ रूढ्येति ॥ योगरूढेः समाहारवृत्तित्वेन वृत्यन्तरत्वाभावाद् द्वयोरेवोक्तिः ॥ मुख्यार्थगुणेति ॥ मुख्यार्थगुणसदृशागुणयुक्तेत्यर्थः ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

मुख्यार्थविवक्षयेत्यादिना वाक््यलक्षणमुक्तम् । तत्र कोऽसौ मुख्यार्थः ? इत्यतस् तं दर्शयति ॥ रूढ्येति ॥ बहुलप्रयोगमात्रसिद्धेति ॥ प्रयोगमात्रबाहुल्यानुमिता रूढिरित्यर्थः । यथा घटादिशब्दानां कुम्भादाविति द्रष्टव्यम्।

प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ।

इत्यनुव्याख्यानस्याप्येवमेवार्थो वर्णनीयः ।

……………………….बहुलातिप्रयोगतः .

रूढमित्येव साध्यं स्यात् ………………… ।

इति निरवकाशनामपादीयानुव्यख्यानोक्तेः ।

रूढिर्हि द्विविधा मता ……………….. ।

इत्यनुव्याख्यानस्थरूढिपदस्य रूढिरिति रूढिज्ञापको बहुलातिप्रयोगो लक्ष्यते इति सुधायां व्याख्यातत्वाच्च । तथा च ‘घटादिशब्दाः कुम्भादौ रूढाः प्रयोगमात्रबाहुल्यवत्वाद् व्यतिरेकेण यौगिकशब्दवत्’ इत्यनुमानं द्रष्टव्यम् । अत्र मात्रपदेन अवयवार्थमुख्यगुणसादृश्यमुख्यार्थसम्बद्धसापेक्षताव्युदासः । तेन अवयवार्थापेक्षया भेकादौ प्रयुज्यमाने केवलयौगिके पङ्कजादिशब्दे, मुख्यार्थगुणसादृश्यं निमित्तीकृत्य बटौ प्रयुज्यमाने सिंहादिशब्दे, मुख्यार्थसम्बन्धं निमित्तीकृत्य तीरादौ प्रयुज्यमाने लाक्षणिके गङ्गादिशब्दे च व्यभिचारपरिहार इति ज्ञातव्यम् ।

बहुलेति स्वरूपसङ्कीर्तनं बाहुल्यमिति स्वरूपकथनम् इति सुधावचनात् । अत्र यद्यपि प्रयोगमात्रबाहुल्यानुमेयाऽखण्डशक्त्या प्रतिपादकत्वरूपा रूढिः प्रयोगघटिता अन्यैवास्ति तथापि रूढ्यनुमापकप्रयोगोऽपि असाधारणधर्मत्वाद् गोत्वानुमापकसास्नादिमत्त्वमिव तल्लक्षणमपि भवतीत्यभिप्रेत्येदमुक्तमिति मन्तव्यम् ।

योगलक्षणमाह ॥ प्रवृत्तीति ॥ यथा पङ्कजादिशब्दानां भेकादौ । अत्र प्रवृत्तिनिमित्तापेक्षप्रयोगबाहुल्यं योगरूढिर् इति रूढ्यनुमापकप्रयोगगर्भं योगरूढिलक्षणं द्रष्टव्यम् ।

एवं ज्ञापकमुखं रूढिलक्षणमुक्त्वा प्रयोगमात्रबाहुल्यानुमेयाऽखण्डशक्त्या प्रतिपादकत्वरूपा रूढिः प्रयोगाघटिता अन्यैवास्ति इत्याशयेन ज्ञाप्यमुखलक्षणमाह ॥ अखण्डवृत्तिरिति ॥ अवयवार्थनिरपेक्षेत्यर्थः । वृत्तिः प्रतिपादकत्वम् । प्रवृत्तिनिमित्तापेक्षया प्रवृत्तिर्योग इति योगलक्षणस्य घटत्वादिरूपप्रवृत्तिनिमित्त-सापेक्षरूढ्याम् अतिव्याप्तत्वाद् लक्षणान्तरमाह ॥ अवयववृत्तिरिति ॥ अवयवार्थ-मपेक्ष्यवृत्तिरित्यर्थः । नन्वस्मिन्पक्षे योगरूढिेलक्षणं विरुद्धत्वादयुक्तमिति चेत् । सत्यं, तथापि ज्ञापकमुखमेव रूढिलक्षणमङ्गीकृत्य प्रयोगबाहुल्यापेक्षा अवयववृत्ति-र्योगरूढिरिति रूढ्यनुमापकप्रयोगगर्भमेव तल्लक्षणं बोद्धव्यम् । अवयवशक्ति-सापेक्षसमुदायशक्त्या अर्थप्रतिपादकत्वरूपम् अपरं च योगरूढिलक्षणं रूढ्यनु-मापकप्रयोगाघटितं तर्कताण्डवोेक्तमनुसन्धेयम् ।

वस्तुतस्तु, अवयववृत्तिर्योगः रूढिस्त्वखण्डवृत्तिः । न ह्येतयोरेकत्र समावेशो युज्यते विरोधाद् इत्याशङ्ग्य सुधायामेव न हि योगरूढ्योः समाहारो योगरूढिरिति ब्रूमो येन विरोधः स्यात् । किं नाम ? यथा रूढलक्षणा लक्षणामात्राद् रूढगौणी च गौणीमात्रात् प्रयोगप्राचुर्येण भिद्यते तथा प्रवृत्तिनिमित्तापेक्षत्वाद् रूढिमात्रात् प्रयोगबाहुल्येन योगमात्राच्च भिन्ना तृतीयेयं वृत्तिर् इति समाहितत्वेन न कोपि दोष इति ।

प्रमाणलक्षणटीकाविवरणं

करणत्वेनान्वयाभावात्गोर् आनयनकर्मत्वेस्येवसत्वादितिभाव उपचारछलेवाक् छले च मुख्यार्थामुख्याथार् प्रविष्टौ तयोः स्वरूपाज्ञाने तद्भानं न संभवति अतस्तल्लक्षणमाह योगेनेति अत्र च योगापेक्षया रूढिः प्रबलत्वादादौ निर्दिष्टः ।

प्रथमोद्दिष्टत्वात्तल्लक्षणमाह अखंडेति ।अखंडा या वृत्तिर् अवयववृत्यनपेक्षा या वृत्तिः प्रतिपादकत्वं सा रूढिरित्यर्थः ।

एवं कार्यमुखं लक्षणमुक्त्वा कारणमुखं लक्षणमाह ॥ बहुलेति ॥ बहुलो यः प्रयोगस् तन्मात्रेण सिद्धिर्यस्याः सेत्यर्थः । अत एव प्रयोगमात्रबाहुल्याद्रूढिरित्य-भिधीयत इत्यनुव्याख्याने लक्षणं कारणमुखमुक्तम् । एतच्च तर्कतांडवे अनुमानखंडे स्पष्टमिति तत एवावगन्तव्यम् ।

॥ अवयववृत्तिरिति ॥ यद्यप्यवयवेषु वृत्तिरवयववृत्तिरिति न सहयोगः । अवयवे तस्या रूढित्वात् । अथ समुदाये वृत्तिर्योग इति विवक्षितं तर्हि तदयुक्तम् । समुदाये अवयवानां वृत्तेरेवाभावाद् इति । तथाऽपि अवयववृत्तिसापेक्षावृत्तिर्योग इत्यर्थः ॥ शब्देति ॥ विवक्षापेक्षया वृत्तिर्योगः न चैवं पूर्वलक्षणसांकर्यं तत्रावयवानां वृत्यनपेक्षणात् । अत्र पुनस्तच्छब्दप्रवृत्तिनिमित्तापेक्षणादिति भेदात् । अत्रापि लक्षणापेक्षया गौण्यः मुख्यत्वादादौ निर्देशः । प्राधान्यं च मुख्यार्थनिष्ठगुणस्यार्थांन्तरे सत्वाद् अन्यत्र च संबन्धमात्रसत्वादिति उत्तरत्र वक्ष्यते । तदनुसारेणैव च लक्षणोक्तिरिति ध्येयम् । अनुमानस्य साधारणोसाधारणश्च संभावित इति ।

नन्वनेन साधारणस्यासाधारणस्य च प्रत्येकं त्रिविधत्वोक्तिरनुपपन्ना प्रतिज्ञाविरोधस्य साधारणत्वेऽपि हेतुविरोधस्य दृष्टांन्तविरोधस्य चासाधारणत्वाद् अन्यथा उभयोरपि त्रिविधत्वे तत्र प्रतिज्ञाविरोधः साधारणः । अन्यौ द्वौ आसाधारणावित्युत्तरग्रंथविरोधापाताच्चेति चेन् न अत्र हि अनुमानस्य संभावितो विरोधः साधारणो ऽसाधारणश्च त्रिविध इति न प्रत्येकं वाक्यपरिसमाप्तिः । अपि तु अनुमानस्य संभावितो विरोधस्त्रिविधः वक्ष्यमाणन्यायेन तन्मध्ये कश्चित्साधारणः कश्चिदसाधारण इति वाक्यसमुदाये वाक्यपरिसमाप्तिरिति ।

यद्वा प्रतिज्ञाहेतुदृष्टान्ताभेदेनानुमानस्य संभावितस् त्रिविधो विरोधस् तत्र कश्चित्साधारणः कश्चिदसाधारण इति वाक्यार्थो ऽनुमाने साधारणासाधारण-विरोधयोर्न नियम इत्याशयेन संभावित इत्युक्तमिति केचित् ।