०६ छलविभागलक्षणोदाहरणानि

छलं त्रिविधं वाक्छलं सामान्यछलम् उपचारछलञ्चेति

छलविभागलक्षणोदाहरणानि

प्रमाणलक्षणटीका

छलं त्रिविधं वाक्छलं सामान्यछलम् उपचारछलञ्चेति ॥ तत्र मुख्यार्थविवक्षया प्रत्युक्तस्य मुख्यार्थान्तरकल्पनया तद्दूषणं वाक्छलम् । अभिप्रायान्तरकल्पनया तद्दूषणं सामान्यछलम् । अमुख्यार्थाभिप्रायेण प्रयुक्तस्य मुख्यार्थकल्पनया दूषणमुप-चारछलम् । तत्र वाक्छलादेरसङ्गताद्यन्तर्भावस्फुरणायोप-लक्षणतया वाक्छलमुदाहरति

गृष्टिविवक्षया ‘गाम् आनय’ इत्युक्ते

पृथिवीविवक्षया ‘गवानयनमशक्यम्’ इतिवद्

एकवारप्रसूता गौर् गृष्टिः । द्वितीयं यथा ‘अनूचानोऽयं ब्राह्मणः’ इत्युक्ते ‘युक्त मेव हि ब्राह्मणे अनूचानत्वम्’ इति सम्भावनाभिप्रायेण परेणाभिहिते ब्राह्मणत्वस्य हेतुत्वाभिप्राय-कल्पनया ‘नैवं , व्रात्ये व्यभिचारात्’ इति प्रतिषेधः । तृतीयं यथा ‘सिंहो देवदत्तः’ इत्युक्ते ‘नैवं , सटाद्यभावात्’ इति । अत्र ‘गवानयनं न विधेयम् अशक्यत्वात्’ इत्यादिछलवाक्ये ‘गवा नयनम्’ इत्येतदयुक्तम्अनन्वितत्वात्’ इत्यादेश्छलस्य प्रवृत्तेर्विरोधत्वं ज्ञातव्यम् ।

प्रमाणलक्षणटीकाभावदीपः

॥ अनन्वितत्वादिति ॥ गवा इति तृतीयान्तेन नयनमिति नेत्रवाचिपदस्य अन्वयाभावादिति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

छलमसङ्गतमित्युक्तम् । तस्य असङ्गत्यन्तर्भावप्रतिपत्तिसौकार्याय

तच्च त्रेधा वाक्छलादिविभेदत इतीरितम् ।

इतिकारिकानुसारेण तद्विभागमाह ॥ छलं त्रिविधमिति ॥

…………………………….. तत्र तु वाक्छलम् ।

अभिधावैपरीत्येन कल्पितार्थस्य बाधनम् ॥

इतिकारिकानुसारेण वाक्छलं लक्षयति ॥ तत्र मुख्यार्थेति ॥ त्रिविधछलमध्य इत्यर्थः

सामान्यछलमेतत्स्यादिति सामान्ययोगतः ।

तात्पर्यवैपरीत्येन कल्पितार्थस्य बाधनम् ॥

इतिकारिकानुसारेण सामान्यछललक्षणमाह ॥ अभिप्रायान्तरेति ॥

उपचारप्रयोगेषु गौैणलक्षणकेषु यः ।

मुख्यार्थसम्भवाद्बाध उपचारछलं तु तत् ॥

इतिकरिकानुसारेण उपचारछललक्षणमाह ॥ अमुख्यार्थेति ॥ अनूचानः सदाचारसम्पन्नः ॥ हेतुत्वेति ॥ अनूचानत्व इत्यर्थः । व्रात्यो व्रतभ्रष्टो दुराचारीति यावत् । सटाः स्कन्धसंस्थाः केशाः । आदिपदेन लाङ्गूलग्रहणम् ।

पूर्वं छलमसङ्गतम् इति असङ्गत्यन्तर्भावं छलस्योक्त्वा अन्यच्च इतिवाक्येन स्ववचनविरोधेऽप्यन्तर्भाव उक्तः । तमुपपादयति ॥ अत्रेति ॥ गवानयनं पृथिव्यानयनम् ।

॥ अनन्वितत्वादिति ॥ गवा इतितृतीयान्तपदस्य चक्षुर्वाचकस्यनयनमिति प्रथमान्तपदस्य च अनन्वितत्वाद् इत्यर्थः ॥ इत्यादेरिति ॥ इत्यादिप्रकारेणेत्यर्थः।

॥ छलस्य प्रवृत्तेरिति ॥ छलवाक्येऽप्यर्थान्तरपरिकल्पनेन दूषण-प्रवृत्तेरित्यर्थः ॥ विरोधत्वमिति ॥ स्ववचन विरोधत्वमित्यर्थः ।

प्रमाणलक्षणटीकाविवरणं

छलमसंगतमित्युक्तं तवासङगत्यंतर्भावप्रतिपत्त्सिौकर्याय तद्विभागमाह ॥ छलमिति ॥

गृष्टिशब्दं दुर्गमार्थत्वादप्रतीतं व्याचष्टे ॥ एकवारमिति ॥ मूलकारेण ग्रन्थगौरवभयात् । पृथगनुदाहृतमपि स्वयं शिष्यानुजिघृक्षया पृथगुदाहरति ॥ द्वितीयमिति ॥ अन्यो ऽनूचानः सदाचारसपंन्नः सटाः स्कं दस्छाः केशा इत्यादिना असंगतावन्तर्भावमुक्त्वा पश्चाद्विरोधेप्यन्तर्भाव उक्तो ऽतो असङ्गत्यन्तर्भावमुपपाद्य विरोधेन्तर्भावमुपपादयति ॥ अत्रेति ॥ अनन्वितत्वात् ।