०५ अवशिष्टनिग्रहस्थानानां संवादादिषु अन्तर्भावः

अन्यच्च

अवशिष्टनिग्रहस्थानानां संवादादिषु अन्तर्भावः

प्रमाणलक्षणटीका

एवमुक्तादन्यच्च यथासम्भवमुक्तान्तर्भूतं द्रष्टव्यमित्याह

प्रमाणलक्षणम्

***अन्यच्च ***

यथा, प्रतिज्ञाहानिः संवादे, अन्तर्भवति । अर्थतो हानि-रसङ्गतावपि । प्रकृतदोषपरिहारे प्राप्ते ‘अन्यथास्तु’ इत्यस्य सङ्गत्यदर्शनात् । एवं प्रतिज्ञान्तरमपि । अविशिष्टदूषणाभ्युप-गमात् तद्दूषणपरिहारस्यैव सङ्गतत्वात् ।

हेत्वन्तरमप्यनेनोक्तम् । न्यूनाधिके न्यूनाधिकयोः । तत्र अवयवन्य्नमदूषणमित्युक्तम् । एवम् आभासानुद्धारो ऽनुकूल-तर्कानुक्तिश्च । अबुभुत्सितोक्तेरेव दोषत्वात् । तर्कस्य पृथक्-प्रमाणत्वात् ।

पुनरुक्तमधिकम् । उक्ताद् अन्यद् अननुभाषणं न्यूनम्। तृष्णीम्भावो ऽनुक्तौ । अज्ञानम् अप्रतिभा विक्षेपश्च, यत्किञ्चिदुक्तावपि प्रकृतोपयोगाभिमानाद्यभावात् । न ह्यनुक्तिरप्यात्यन्तिकी । किं तु ? प्रकृतोप्योगाभिमानादिना अनुक्तिः । मतानुज्ञायाः प्रयोजनविशेषात् पृथगन्तर्भावं वक्ष्यतीति । नचानेन त्रिविधो विरोध इत्यादेर्गतार्थता । अनु-मानविरोधविवेकाभावे हेत्वाभासादेरुक्तान्तर्र्भावाप्रतीतेरिति।

प्रमाणलक्षणटीकाभावदीपः

॥ प्रतिज्ञान्तरमपीति ॥ असङ्गतमित्यन्वेति ॥ उक्तमिति ॥ असङ्गतमिति व्याख्यातमित्यर्थः ॥ न्यूनाधिकयोरिति ॥ अन्तर्गते इति योज्यम् ॥ अदूषणमित्युक्तमिति ॥ सा प्रतिज्ञाहेतुदृष्टान्तरूपा इत्यादि प्रकरणव्याख्यावसरे उक्तमित्यर्थः ।

अनुक्तिश्च इत्यनन्तरम् अदूषणमित्यनुषङ्गः । तर्कपराहतिरूपचरमनिग्रह-स्थानस्य कुत्र अन्तर्भावः ? इत्यतोऽनुमान एवेति भावेन आह ॥ तर्कस्येति ॥ उक्तादिति ॥ अन्यथानुभाषणाद् अन्यत्, यत् तद् इत्याद्यनुवादादिरूपमित्यर्थः । विक्षेपश्चेत्यनन्तरम् अनुक्तौ इत्यनुषङ्गः ।

विक्षेपे ‘अद्य मे महत्प्रयोजनं’ इत्याद्युक्तेः कथमनुक्तित्वम् ? इत्यत आह ॥ यत्किञ्चिदिति ॥ वक्ष्यतीति ॥ इष्टापत्तिः सिद्धसाधनत्वादसङ्गतमेव इति वक्ष्यति प्रकरणान्त इत्यर्थः ।

॥ न चानेनेति ॥ अन्यच्चेत्यनेनेत्यर्थः ॥ इत्यादेरिति ॥ अनुपदमग्रे वक्ष्यमाणस्येत्यर्थः । तस्यापि अन्तर्भावोक्त्यर्थं प्रवृत्तत्वादिति भावः । पुरुषदोषभूतनिग्रहस्थानादेर् अन्तर्भावोक्त्यर्थम् अन्यच्च इत्येतत् ।

॥ त्रिविधो विरोध इत्यादि तु पराभिप्रेत हेत्वाभासानाम् अन्तर्र्भावाय अनुमानविरोधविभागकीर्तनम् इत्यगतार्थतेति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ उक्तादिति ॥ अन्तर्भूतत्वेन उक्ताद् अन्यत् परोक्तं निग्रहस्थानमित्यर्थः ॥ प्रतिज्ञाहानिरिति ॥ कण्ठतः प्रतिज्ञाहानिरित्यर्थः । पर्वतं निरग्निकं मन्यमानं प्रति ‘पर्वतोऽग्निमान् प्रमेयत्वात्’ इति प्रयुक्ते परेण अनैकान्तिकत्वोद्भावने ‘मा भूत् तर्हि पर्वतोऽग्निमान्’ इति वदति । तथा चैवं कण्ठतः क्रियमाणायाः प्रतिज्ञाहानेर् विप्रतिपन्नप्रमेयाङ्गीकाररूपत्वेन संवाद एव अन्तर्भाव इत्याशयः ।

॥ असङ्गतावपीति ॥ न केवलमुक्तरीत्या संवादे । किं तु ? असङ्गता-वप्यन्तर्भवतीत्यर्थः । असङ्गत्यन्तर्भावमुपपादयति ॥ प्रकृतेति ॥ अन्यथास्त्वि-त्यस्येति ॥ ‘अन्यथाऽस्तु’ इत्येवमात्मिकाया अर्थतो हानेरित्यर्थः । ननु कण्ठतो हानिरसङ्गतावपि कस्मान्नान्तर्भवति ? इति चेन्न । ‘दुष्टः पक्षो मास्तु’ इत्याकारिकायास् तस्याः पूर्वदोषपरिहारात्मकत्वेन असङ्गतत्वाभावात् । ‘अन्यथाऽस्तु’ इत्येवं सामान्योक्तिरूपाया अर्थतो हानेः पूर्वदोषपरिहारात्मकत्वाभावेन असङ्गत्वाद् इत्याहुः ।

॥ एवं प्रतिज्ञान्तरमपीति ॥ अर्थतो हानिवत् प्रतिज्ञान्तरमपि संवादे असङ्गतौ च अन्तर्भवतीत्यर्थः ।

तत्र संवादान्तर्भावमुपपादयति ॥ अविशिष्टेति ॥ ‘शब्दोऽनित्यः’ इत्युक्ते ध्वनिभिः सिद्धसाधनतोद्भावने वर्णात्मकः शब्दः पक्ष इत्यादि वदति । तत्र विशेषणाविशिष्टतया पक्षादौ प्रयुक्ते सति तत्र परोद्भावितदूषणस्य अभ्युपगमात् संवाद इत्यर्थः । असङ्गत्यन्तर्भावमुपपादयति ॥ तद्दूषणेति ॥ अविशिष्टदूषणेत्यर्थः। अविशिष्टतया प्रयुक्ते परो दूषणं यदोद्भावयति तदा अविशिष्टपक्षम् अङ्गीकृत्यैव तद्दूषणपरिहारकरणं सङ्गतम् । विशेषणं प्रक्षिप्य तद्दूषणपरिहारे तु सङ्गतिरेवेति भावः ।

नन्वेवं पद्धतिविरोधः । तत्र हि अत्र वक्तव्यं, किं पूर्वैव कथा अनुवर्तते ? उत कथान्तरम् ? नाऽद्य एकस्य साधनस्य दूषणस्य वा स्थितौ भङ्गेवा कथायाः परिसमाप्तत्वात् । न द्वितीयस् तथा सति प्रथममेव विशिष्टस्योपात्तत्वेन प्रतिज्ञान्तराभावाद् इत्येवं प्रतिज्ञान्तरस्य निग्रहस्थानताया एव दूषितत्वात् । अतोऽत्र अन्तर्भावकथनं न युक्तमिति चेद् उच्यते , पूर्वैव कथा अनुवर्तत इत्यङ्गीकारात् । यदत्रोक्तं ‘एकस्य साधनस्य दूषणस्य वा स्थितौ भङ्गे वा कथायाः परिसमाप्तत्वात्’ इति, तदपि सत्यं, तथाऽपि कथापरिसमाप्त्यनन्तरमपि पुनर्विशेषणं प्रक्षिप्य प्रतिज्ञान्तरकरणे तस्या असङ्गत्यन्तर्भावस्य अत्राभिप्रेतत्वात् । उक्तं च पद्धतौ सत्यं, निवृत्तयोरपि जल्पवितण्डयोः पुनर्विशेषणं प्रक्षिपतः को दोषः ? इति चेद् असङ्गत्यादिकमिति ब्रूम इति । अभ्युपगम-वादेनेयमुक्तिरित्यप्याहुः ॥ हेत्वन्तरमपीति ॥ प्रतिज्ञान्तरस्य संवादासङ्ग-त्योरन्तर्भावकथनेन हेत्वन्तरमपि तयोरन्तर्भूतत्वेनोक्तप्रायम् । समानन्यायत्वा-दित्यर्थः ॥ इत्युक्तमिति ॥ हेतुगर्भा प्रतिज्ञा केवलापि इत्यादिग्रन्थेनेत्यर्थः ।

साधनं प्रयुज्य आभासानुद्धारे अनुकूलतर्कानुक्तौ च वाद•शन्यूनम् इत्युक्तम् । तदपि न दूषणमित्याह ॥ एवमिति॥

कुतो न दूषणम् ? इत्यत आह ॥ अबुभुत्सितोक्तेरेवेति ॥ पराबुभुत्सितोक्ते-रित्यर्थः ॥ स्वस्यैति शेषः । तेन एवशब्दसम्बन्धः ।

अयं भावः, आदौ अनुमानमात्रं वादिना प्रयोक्तव्यम् । पश्चात् प्रतिवादिना असिद्ध्याद्याभासे अप्रयोजकत्वे च शङ्किते सति, अनन्तरं वादिना ‘नायं हेतुराभासस् तल्लक्षणरहितत्वात्’ इत्याभासोद्धारः कार्यो ऽनुकूलतर्क श्च वक्तव्यः । तेनाभासादिके आनाशङ्कितेऽपि आदावेव स्वेनैव आभासोद्धारादिके कृते सति पराबभुतिसतोक्ति-रूपत्वेन तस्याः स्वस्यैव असङ्गतिरूपदोषकारित्वात् साधनं प्रयुज्य आभासानुद्धारा-दिरूपं वादांशन्यूनमपि न दूषणमिति ।

साधनं प्रयुज्य अनुकूलतर्कानुक्तेर् अदोषत्वे युक्त्यन्तरं चाह ॥ तर्कस्येति ॥ तर्कस्य दूषणानुमानरूपत्वेन साधनानुमानात् पृथकूप्रमाणतया प्रथममेकं साधनानुमानरूपं प्रमाणमभिधाय अप्रयोजकताशङ्काभावेऽपि पुनस् तर्करूप-प्रमाणोक्तौ अधिकेन निगृह्येतेति न तदनुक्तिर्दूषणमित्यर्थः ।

॥ उक्तादन्यदिति ॥ अन्यथानुवादाद् अन्यद् यत्तदित्याद्यनुवादादिरूपं यद् अननुभाषणत्रयं तन् न्यूनमित्यर्थः । तूष्णीम्भावरूपपञ्चमाननुभाषणस्य अनुक्तौ अन्तर्भाव इत्याह ॥ तूष्णीम्भाव इति ॥ विक्षेपश्चेत्यनन्तरम् अनुक्तौ इत्यनुवर्तनीयम्।

ननु प्रत्युत्तराप्रतिपत्तिरूपाया अप्रतिभाया अनुक्त्यन्तर्भावसम्भवेऽपि न अज्ञानविक्षेपयोस् तत्रान्तर्भावो युक्तः । अज्ञानस्य ‘नास्यार्थो ज्ञायते मया’ इत्युक्तिरूपत्वात्, विक्षेपस्य च ‘अद्य मे महत् प्रयोजनमस्ति, तस्मिन् अवसिते वक्ष्यामि’ इत्युक्तिरूपत्वाद् इत्यत आह ॥ यत्किञ्चिदुक्तावपीति ॥

नन्वस्तुु प्रकृतोपयोगाभिमानाभावस् तथापि कथम् उक्तिसामान्याभावरूपानुक्तौ अन्तर्भावः ? इत्यत आह ॥ न हीति ॥ आत्यन्तिकी । उक्तिसामान्याभावरूपा ॥ अनुक्तिरिति ॥ उक्त्यभाव एवेत्यर्थः ।

तथा च अज्ञानविक्षेपयोरपि प्रकृतोपयोगाभिमानेन उक्त्यभाव सद्भावात् प्रकृतोपयोगाभिमानेन उक्त्यभावरूपानुक्तौ अन्तर्भावो युक्त इति भावः । न च तूष्णीम्भावोऽनुक्तिरिति पूर्वमनुक्तिलक्षणस्योक्तत्वात् तद्विरोध इति वाच्यम् । यत्किञ्चिदुक्तेरपि प्रकृतोपयोगाभिमानाभावेन तूष्णीम्भावतुल्यत्वाद् इत्याशयात्।

ननु मतानुज्ञायाः कुतोऽन्तर्भावो नोच्यते ? न चोत्तरत्रोच्यत इति अत्रानुक्ति-रिति वाच्यम् अन्तर्भावकथनप्रसङ्गेऽन्तर्भावमनुक्त्वा उत्तरत्र कथने प्रयोजनाभावा-दित्यत आह ॥ मतानुज्ञाया इति ॥ इष्टापादनरूपाया इत्यर्थः ।

॥ प्रयोजनविशेषादिति ॥ दूषणानुमानरूपे तर्के अपसिद्धान्तप्रमाण-बाधासिद्धीनाम् अदोषत्वेऽपि इष्टापादनरूपाय मतानुज्ञाया दोषत्वम् अस्त्येव इति प्रमेयसूचनरूपप्रयोजनविशेषादित्यर्थः ।

॥ पृथगिति ॥ कण्ठत एव मतानुज्ञास्वरूपानुवादपूर्वकम् असङ्गत्यन्तर्भावम् इष्टापत्तिः सिद्धसाधनत्वादसङ्गतमेव इति वाक्येन भगवानाचार्य एव वक्ष्यतीत्यर्थः।

ननु विरोधो मानस्ववाक्याभ्याम् इत्यादिना ग्रन्थेन विरोधविभा-गस्योक्तत्वात् त्रिविधो विरोध इत्यादिनाऽपि विरोधविभागस्यैवोच्यमानत्वेन गतार्थता इत्येवं मन्दानां शङ्कां प्रतिषेधति ॥ न चानेनेति ॥ विरोधो मानस्व-वाक्याभ्याम् इत्यादिनेत्यर्थः । कुतो न गतार्थता ? इति चेन्न ।

विरोधो द्विविधः समयबन्धादिसाधारणो ऽसाधारणश्चेति । तत्र समयबन्धा-दिसाधारण एव विरोधो विरोधो मानस्ववाक्याभ्याम् इत्यादिना विभज्य निरूपितः । अत्र पुनः यो ऽसाधारणो ऽनुमानमात्रनिष्ठो विरोधः स एव विभज्य निरूप्यते । न च तत्र प्रयोजनाभावः । अनुमानमात्रनिष्ठविरोधानां समयबन्धा-दिसाधारणविरोधाद् विवेकज्ञानाभावे परनिरूपित हेत्वाभासानाम् अनुमानमात्रनिष्ठ विरोधेषु अन्तर्भावस्य दुर्ज्ञानत्वापत्तेरित्याह ॥ अनुमानविरोधेति ॥ अनुमान-विरोधस्य समयबन्धादिसाधारणविरोधाद् विवेकाभावे विवेकज्ञानाभाव इत्यर्थः।

॥ उक्तान्तर्भावेति ॥ उक्तेषु षट्सु निग्रहस्थानेषु मध्ये विरोधप्रभेदरूपो यो ऽसाधारणविरोधो ऽनुमानमात्रनिष्ठविरोध इति यावत् । तत्रान्तर्भावप्रतीत्य-सम्भवादित्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

॥ प्रतिज्ञाहानिरिति ॥ कण्ठत इति शेषः । विप्रतिपन्न-प्रमेयांगीकाररूपत्वादित्यर्थः । यत्तु शक्तिवैकल्याद्विप्रतिपन्नप्रमेयाङ्गीकार-रूपत्वात्संवाद इति । तदयुक्तम् । शक्तिवैकल्यादित्यस्य लक्षणान्तर्गतत्वात् तदंगीकारे पद्धतिविरोधात् । लक्षणान्तर्गतत्वे चासंगतत्वादिति । असङ्गतावपीति न केवलं संवादेऽन्तर्भवति अर्थतो हानिर् अपि तु असंगतावपीत्यर्थः । एवं प्रतिज्ञान्तरमपीति।

यद्यपि पद्धतिरीत्या प्रतिज्ञान्तरं न निग्रहस्थानं किं पूर्वैव कथानुवर्तते । उत कथान्तरम् । नाद्यः । एकस्य दूषणस्य स्थितौ भंगे वा कथायाः परिसमाप्तत्वात् । द्वितीये तु तस्या एव प्रथमप्रतिज्ञात्वेन प्रतिज्ञान्तरासंभवादित्यादिना प्रतिज्ञांतरस्य निग्रहस्थानत्वस्य दूषितत्वात्तदन्तर्भावकथनमयुक्तम् अन्यथा पद्धतिविरोधःस्यात् । प्रमाणलक्षणविरोधश्च स्यादिति । तथाऽपि विशेषणे प्रक्षिप्ते किं दूषणं वक्तव्यम् । तच्च प्रतिज्ञान्तरमेवेति तस्यासङ्गतावन्तर्भावोक्तिरुपपन्नेति भावः । अत एवोक्तं पद्धतौ निवृत्तयोरपि जल्पवितण्डयोः पुनर्विशेषणं प्रक्षिपतः को दोष इति चेद् असङ्गत्यादिकमिति ब्रूम इत्यभिहितम् । यद्वा तत्पद्धतिरीत्या न निग्रहस्थानं तथाऽपि न दोषः । न चान्तर्भावविरोधः । अस्तु वा निग्रहस्थानत्वं तथाऽपि न पृथक्त्वम् । असंगतावन्तर्भावसंभवाद् इति । अभ्युच्चयवादेनेयमुक्तिः ।

असंगतावन्तर्भावमुपपादयति ॥ अविशिष्टेति ॥ अविशिष्टपक्षदूषणोक्ति-परिहारे आकांक्षा नत्वदृष्टप्रतिज्ञान्तरे अविशिष्टपक्षोक्तदूषणस्य अभ्युपगतत्वेन तदपरिहारादसंगतिरिव भाति हेत्वन्तरमिति । प्रतिज्ञान्तरस्यासंगत्यंतर्भावकथनेन हेत्वन्तरमयुक्तमसङ्गत्यन्तर्भूतत्वेनेत्यर्थः ॥ तत्रेति । हेतुगर्भाप्रतिज्ञाकेवलेत्यादिना अवयवन्यूनत्वस्य दूषणत्वाभाव उक्त इत्यर्थः । एतच्चावयवनियमवचनं समयबंधानुसारेण द्रष्टव्यम् । एतावद्भिरवयवैः कर्तव्यमिति नियमं कृत्वा न्यूनमपि प्रत्युक्तं तदा तदपि निग्रहस्थानमेवेत्यर्थः ।

साधनं प्रयुज्याभासानुद्धारेऽनुकूलतर्कानुक्तौ च पादांशन्यूनमित्युक्तम् । तदपि न दूषणमित्याह ॥ एवमिति ॥ यथाऽवयवन्यूनं न दूषणं व्याप्तिमल्लिंगबोधस्य तावताऽपि संभवात् । तथा भासानुद्धारो अनुकूलतर्कानुक्तिर्न दूषणमित्यर्थः ।

तत्र हेतुमाह ॥ अबुभुत्सितेति ॥ तर्कस्यानुक्तौ दोषत्वे नियामकान्तरमाह ॥ तर्कस्येति ॥ तथा च प्रथममेकस्य प्रमाणोपन्यासे प्रमाणान्तराकांक्षाया अभावेन तदनुक्तेर्न दूषणत्वम् आकांक्षाऽभावेऽपि तदुपन्यासेऽधिकेनायमेव निगद्यतेतिभावः।

उक्तादन्यदनुभाषणमिति । अन्यथानुवादरूपं यदननुभषणमुक्तं तस्मादन्यच् चतुर्विधमपीत्यर्थः । तूष्णींभावेऽनुक्ताविति । अत्र यद्यपितूष्णींभावो ज्ञानम् अप्रतिभाविक्षेपश्चानुक्ताविति एकमेव वाक्यं कर्तव्यं तथापि तूष्णींभावस्य तदन्तर्भावस्य स्पष्टत्वेनानुपपाद्यत्वात् । अन्यत्रोपपाद्यत्वाद्वाक्यभेद इत्यवधेयम् । नाज्ञानादेरनुक्तावन्तर्भावः संभवति ।

तथा हि । अज्ञानविक्षेपयोर्नास्यार्थो ज्ञायते मयेति । अद्यमे महत्प्रयोजनमस्ति तस्मिन्नवसिते श्वो वक्ष्यामीति उक्तिसत्वात् कथमनयोरनुक्तावन्तर्भाव इत्यत आह ॥ यत्किंचिदुक्तावपीति ॥ तर्ह्यनुक्तिरपीति ॥

तथा चोक्तिसामान्याभावो नानुक्तिरूपो दोषः किं नाम प्रकृतोपयुक्ता-भिमानोक्त्यभावः स चास्त्येवाज्ञानविक्षेपयोरित्यर्थः । ननु मतानुज्ञाया कुतोऽन्तर्भावो नोच्यते। न चोत्तरत्र वक्ष्यमाणत्वादिति वाच्यम् । उत्तरत्र सङ्गतेरभावादत्रैव सङ्गतेः सत्वादित्यत आह ॥ मतानुज्ञायाइति ॥ नचानेनेति ॥ विरोधोमानस्ववाक्या-भ्यामित्यनेनत्रिविधोविरोधइत्यादेर्गतार्थत्वमिति शंकाभिप्रायः ।