०४ अर्थान्तरादीनाम् असङ्गतान्तर्भावः

अन्यच्च

अर्थान्तरादीनाम् असङ्गतान्तर्भावः

प्रमाणलक्षणटीका

निग्रहस्थानान्तरस्यापि असङ्गतान्तर्भावमाह

प्रमाणलक्षणम्

अन्यच्च

उक्ताद् अन्यदपि निग्रहस्थानं किञ्चिद् असङ्गतमेव । यथा अर्थान्तरम् । प्रकृतोपयोगिन एव सङ्गतत्वात् । परबोधनार्थं प्रवृत्तस्य तदङ्गपदप्रयोग एव सङ्गत इति निरर्थकमपि । अत एव अविज्ञातार्थम् । अपार्थकस्य स्फुटस्तत्रान्तर्भावः । अप्राप्तकाले तु अवयवविपर्यासादि निग्रहस्थानमेव न भवति अर्थाविरोधाच् छन्दोभङ्गादिवत् । अर्थविरोधि असङ्गतमेव । विवक्षित क्रमानुल्लङ्घने हि सङ्गतिः स्यात् । अन्यथाृनुभाषणं च, उक्तानुवादस्यैव सङ्गतत्वात् । प्राप्तदूषणोद्भावनस्यैव सङ्गत-त्वेन पर्यनुयोज्योपेक्षणमपि असङ्गतिरेवेति ।

प्रमाणलक्षणटीकाभावदीपः

॥ उक्तादन्यदिति ॥ प्रतिज्ञासंन्यासप्रतिज्ञाविरोधापसिद्धान्त-रूपाद् अन्यदित्यर्थः । तथा निरनुयोज्यानुयोगांशचतुष्टयाच्च अन्यदित्यर्थः । आद्यत्रयस्य मानविरोधश्च इत्यत्र, जातेः स्वन्यायविरोधे, अवशिष्टत्रयस्य असङ्गतौ अन्तर्गतेरुक्तत्वादिति भावः ।

॥ निरर्थकमपीति ॥ अबोधकपदादिप्रयोगरूपत्वात् तस्येति भावः ॥ अत एवेति ॥ परबोधाङ्गपदप्रयोगस्य सङ्गतत्वादेव परिषत्प्रतिवादिभ्याम् अविज्ञाता-र्थपदप्रयोगरूपम् अविज्ञातार्थमपि असङ्गतमित्यर्थः ।

॥ अपार्थकस्येति ॥ नान्वितार्थपदप्रयोगरूपत्वात् तस्य इति भावः ॥ अप्राप्तकाल इति ॥ क्रमविपर्यासरूपाप्राप्तकालनिग्रहस्थानमध्ये ‘धूमवत्त्वात् पर्वतोऽग्निमान्’ इत्याद्यवयवविपर्यासः ‘अग्निमान् पर्वतः’ इत्यवयवांशविपर्यासश्च न निग्रहस्थानमित्यर्थः ।

आरम्भविपर्यासवादांशविपर्यासादेर् अर्थविरोधित्वात् कथम् ? इत्यत आह ॥ छन्दोभङ्गादिवदिति ॥ ‘अन्यच्च असङ्गतम्’ इत्यस्यार्थान्तरमाह ॥ अन्यथाननु-भाषणं चेति ॥ असङ्गतमित्यनुकर्षः ॥ पर्यनुयोज्येति ॥ अवयवशोद्भाव्यतया प्राप्तानुद्भावनानुरूपत्वात्तस्येति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ उक्तादिति ॥ निरनुयोज्यानुयोगादित्यर्थः ॥ तदङ्गेति ॥ परबोधनाङ्गेत्यर्थः ॥ निरर्थकमपीति ॥ असङ्गतमेवेत्यर्थः ॥ अत एवेति ॥ परबोधनार्थं प्रवृत्तस्य पुरुषस्य परबोधनाङ्गपदप्रयोगस्यैव सङ्गतत्वेन अज्ञायमानार्थकपदप्रयोगरूपाविज्ञातार्थमपि असङ्गतमेवेत्यर्थः ॥स्फुट इति ॥ अन्वितार्थवाचप्रयोगस्यैव सङ्गतत्वेन अनन्वितार्थवाचकपदप्रयोगरूपापार्थकस्यापि तत्र असङ्गतौ अन्तर्भावः स्फुट इत्यर्थः ।

॥ अवयवविपर्यासादीति ॥ ‘धूमवत्त्वात् पर्वतोऽग्निमान्’ इत्यवयवविपर्यासः । आदिपदेन ‘अग्निमान् पर्वतः’ इत्यवयवांशविपर्यासो ग्राह्यः ।

कुतो न भवति ? इत्यतो ऽन्वयबोधप्रतिबन्धाभावादित्याह ॥ अर्थेति ॥ तत्र दृष्टान्तमाह ॥ छन्दोभङ्गादिवदिति ॥ यथा अष्टाक्षरापेतपादचतुष्टवत्त्वम् अनुष्टुपछन्दसो लक्षणम् । तत्र एकस्य पादस्य दैवान् नवाक्षरत्वेऽपि अन्वयबोधप्रतिबन्धकत्वाभावाच् छन्दोभङ्गो न दूषणम् ‘न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यां’ इति वचनात् । तथा प्रकृतेऽपि अवयवविपर्यासादेरपि अन्वयबोधप्रतिबन्धकत्वाभावान् न निग्रहस्थानत्वेन दोषत्वमित्यर्थः । आदिपदेन गणव्यत्यासो ग्राह्यः ॥ अर्थविरोधीति ॥ अवयवविपर्यासादीति वर्तते । अन्वयबोधविरोधि यत् ‘निर्धूमत्वात् पर्वतोऽग्निमान्’ इत्याद्यवयवविपर्यासादि तद् असङ्गतमेवेत्यर्थः। कुत इत्यतस् तदुपपादयति ॥ विवक्षितक्रमेति ॥ अन्वयबोधा-नुकूलत्वेन वक्तुमिष्टोयः क्रमस् तदुल्लङ्घनाभाव एव हि सङ्गतिः स्यात् । तदुल्लङ्घने त्वसङ्गतिरेवेत्यर्थः ।

॥ अन्यथानुभाषणं चेति ॥ अनुभाषणमनुवादः । यत्तदित्याद्यनुवादः दूष्यैकदेशानुवादो ऽन्यथानुवादः केवलं दूषणोक्तिस् तूष्णीम्भावश्चेत्यननुभाषणं पञ्चविधमस्ति । तन्मध्ये अन्यथानुवादरूपं यदननुभाषणं तदपि असङ्गतमेवेत्यर्थः।

कुत इत्यतस् तदुपपादयति ॥ उक्तानुवादस्यैवेति ॥ परोक्तानुवादस्यैवेत्यर्थः । पर्यनुयोज्योपेक्षणस्य असङ्गतत्वोपपादनायोक्तं प्राप्तद्ूषणेति । अवश्योद्भाव्यतया प्राप्तनिग्रहस्थानरूपदूषणोद्भावनस्यैव सङ्गतत्वेन तदनुद्भावनरूपं पर्यनुयोज्योपेक्षणमपि असङ्गतमेवेत्यर्थः ।

प्रमाणलक्षणटीकाविवरणं

विरोधस्यानेकप्रकारत्वात् । कस्मिन्न विरोधेन्तर्भाव इत्यतः स्वन्यायविरोधेऽन्तर्भाव इत्याह ॥ छलेति ॥ वक्ष्यते चैतत् ॥ अंशद्वयस्येति ॥ हान्याद्याभासस्याप्राप्तकाले ग्रहणस्य चेत्यर्थः ।

अंशद्वयस्य छलेऽन्तर्भावमुपपादयति । प्राप्तेति ॥ अर्थान्तरस्य प्रकृतानुप-योग्यभिधानत्वेनानाकांक्षितत्वादसङ्गतत्वमित्यर्थः । उपपादनपूर्वं निरर्थकस्याप्य-न्तर्भावमाह । परेति ॥ शब्दो हि परप्रत्यायनार्थः । तथा च यादृशेन शब्देन परस्य प्रत्यायनं स्यात् तादृश एव शब्दः प्रयोक्तव्यस् तदनभिधाने संगतिरिति भावः ।

॥ अत एवेति ॥ शब्दस्य परबोधानेकप्रयोजकत्वेन परप्रत्यायनांगशब्दस्यैव प्रयोक्तव्यत्वेन तादृशशब्दप्रयोगस्यैव संगतत्वादेवेत्यर्थः। ॥ स्फुट इति ॥ अनन्वितार्थवाचकत्वोक्तेरसङ्गतत्वादिति भावः

॥ अर्थाविरोधादिति ॥ अन्वयबोधप्रतिबंधाभावादित्यर्थः । तत्र दृष्टन्तमाह ॥ छन्दोभंगादिवदिति ॥ यथाऽष्टाक्षरोपेतपादचतुष्टयत्वम् अनुष्टुप् छंदसो लक्षणम् । तत्रैकस्य पादस्य दैवान् नवाक्षरत्वेऽपि अन्वयबोधप्रतिबंधकत्वाभावाच् छंदोभंगो न दूषणम् । न वा एकेनाक्षरेण छंदांसि वियंति न द्वाभ्यामिति वचनात् । तथा प्रकृतेऽपि अवयवविपर्यासादेरन्वयबोधप्रतिबंधत्वाभावान्न निग्रहस्थानत्वेन दोषत्वमित्यर्थः ।

॥ अर्थविरोधीति ॥ अन्वयबोधविरोधीत्यर्थः । तदेवोपपादयति विवक्षितेति ॥ अन्यथाऽनुभाषायां चेति । यत्तदित्याद्यनुवाददूष्यैकदेशानुवादो ऽन्यथानुवादः केवलं दूषणोक्तिस्तूष्णींभावश्चेति पंञ्चविधाननुभाषणान्तर्गतमन्यथानुवादरूप-मननुभाषणं चासङ्गतमित्यर्थः ॥ प्राप्तेति ॥ तस्य चावश्योद्भाव्यतया प्राप्तनिग्रह-स्थानानुद्भावनरूपत्वादिति भावः ।