०३ प्रतिज्ञाहान्याद्याभासाप्राप्तकालयोर् असङ्गतान्तर्भावः

अन्यच्च

प्रतिज्ञाहान्याद्याभासाप्राप्तकालयोर् असङ्गतान्तर्भावः

प्रमाणलक्षणटीका

निरनुयोज्यानुयोगांशान्तरद्वयस्याप्यसङ्गतान्तर्भावमाह

प्रमाणलक्षणम्

अन्यच्च

उक्ताच् छलाज् जातेश्च अन्यन् निरनुयोज्यानुयोगांशद्वयं च असङ्गतमेव । प्राप्तस्यैव हान्यादेरुद्भावनप्राप्तकाल एव ग्रहणस्य च सङ्गतत्वात् ।

प्रमाणलक्षणटीकाभावदीपः

॥ स्ववचनन्यायेन स्वविरोध इति ॥ प्रागुक्ततृतीयजाता-वन्तर्भावादित्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

न केवलं छलमसङ्गतमित्यन्वयः । असङ्गतादन्यो य इति शेषः ॥ स्ववचनविरोध इति ॥ विरोधो द्विविधः प्रमाणविरोधः स्ववाक्यविरोधश्चेति । स्ववाक्यविरोधोऽपि द्विविधो ऽपसिद्धान्तो जातिरिति । स्वव्याहतिरूपा जातिः स्ववचनस्वक्रियास्वन्यायविरोधभेदेन त्रिविधा । तत्र स्ववचनविरोधे छलस्य अन्त-र्भाव इत्यर्थश् छलवाक्ये स्ववचनविरोधप्रकारं च स्वयमेव विवरिष्यति ।

॥ अंशांतरद्वयस्यापीति ॥ हान्याद्याभासस्य अप्र्राप्तकाले ग्रहणस्य चेत्यर्थः ॥ प्राप्तस्यैवेति ॥ प्राप्तस्यैव प्रतिज्ञाहान्यादेर् उद्भावनस्य सङ्गतत्वेन सर्वथा हान्याद्य-प्राप्तौ तदुद्भावनरूपस्य अन्यप्राप्तौ अन्योद्भावरूपस्य च हान्याद्याभासस्य असङ्गतत्वादित्यर्थः ॥ प्राप्तकाल एवेति ॥ प्राप्तकाल एवोद्भावनस्य सङ्गतत्वेन उद्भावनावसरम् अप्राप्य अतिक्रम्य वा तन्निग्रहोद्भावनरूपाप्राप्तकालग्रहणस्यापि असङ्गतत्वादित्यर्थः ।