०२ छलस्य विरोधेऽपि अन्तर्भावः

अन्यच्च

छलस्य विरोधेऽपि अन्तर्भावः

प्रमाणलक्षणटीका

न केवलमसङ्गतं छलम् । किं तर्हि ? इत्यत आह

प्रमाणलक्षणम्

अन्यच्च

असङ्गताद् अन्योऽर्थदोषो विरोधः । तत्राप्यन्तर्भवति छलम् । छलवाक्यस्याप्यर्थान्तरं परिकल्प्य दूषणसम्भवेन स्ववचनन्यायेन स्वविरोधेऽन्तर्भावात् ।