अन्यच्च
छलस्य विरोधेऽपि अन्तर्भावः
प्रमाणलक्षणटीका
न केवलमसङ्गतं छलम् । किं तर्हि ? इत्यत आह
प्रमाणलक्षणम्
अन्यच्च
असङ्गताद् अन्योऽर्थदोषो विरोधः । तत्राप्यन्तर्भवति छलम् । छलवाक्यस्याप्यर्थान्तरं परिकल्प्य दूषणसम्भवेन स्ववचनन्यायेन स्वविरोधेऽन्तर्भावात् ।