पक्षादीनामन्यतमस्यासिद्धिमुद्भाव्य..
कार्यसमः
प्रमाणलक्षणटीका
पक्षादीनामन्यतमस्यासिद्धिमुद्भाव्य तत्साधकत्वेन स्वयमेवोत्प्रेक्षितस्य दूषणेन वादि साधनभङ्गः कार्यसमः ।
यथा ‘पर्वतोऽग्निमान्’ इत्युक्ते पर्वतस्यैवाभावादा-श्रयासिद्धिः । ‘यदिप्रतीयमानत्वात् सोऽस्तीत्युच्यते तन्न । शुक्तिरजतादौ व्यभिचारात्’ इति । व्यवहर्तव्यद्वैतमत्र हेतु-रुत्थानस्य । तत्तदङ्गसिद्धिरारोप्या। अस्य जातावपि तुल्यत्वेन व्याघातः । उत्प्रेक्षितदोषेण वाद्युक्तस्यासाधकत्वोक्तेरविषय-वृत्तित्वञ्चेति ॥ २३ ॥
प्रमाणलक्षणटीकाभावदीपः
॥व्यवहर्तव्यद्वैतमिति ॥ व्यवहर्तव्यवस्तुषु सत्त्वादिभेदेन द्वैविध्यमित्यर्थः ॥ तत्तदङ्गेति ॥ आश्रयव्याप्तिपक्षधर्मताद्यङ्गेत्यर्थः ॥ अस्य जातावपीति ॥ धूमवत्वम् असाधकम् आश्रयासिद्ध्यादेर् इत्यत्रापि ‘धूमवत्वम् असिद्धं , प्रतीतत्वाद् अस्ति चेच् छुक्तिरूप्यादौ प्रतीतिर्व्यभिचारिणी , तथा च आश्रयासिद्धिः’ इति दोषस्य जातावपि तुल्यत्वेनेत्यर्थः ॥ २३ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
असिद्धतां वादिहेतोरुक्त्वा तं साधयेत्स्वयम् ।
तदृूषणान्मूलहेतुभङ्गः कार्यसमो भवेत् ॥
इतिकारिकानुसारेण कार्यसमजातेर्लक्षणमाह ॥ पक्षादीनामिति ॥ व्यभि-चारादिति ॥ ‘यत्र प्रतीयमानत्वं तत्र सत्त्वं’ इति व्याप्तेर् व्यभिचारादित्यर्थः । इतिशब्दः प्रभृत्यर्थकः । तथा च धूमवत्त्वस्यैवाभावात् स्वरूपासिद्धिः । यदि प्रतीतत्वात् सोऽस्ति इत्युच्येत तन्न । शुक्तिरजतादौ व्यभिचाराद् इत्यादिकमूह्यम्।
॥ व्यरहर्तव्यद्वैतमिति ॥ प्रतीति जन्यविषयव्यवहारविषयस्य क्वचित् सत्त्वं क्वचिद् असत्त्वञ्च इति द्वैविध्यदर्शनमित्यर्थः ॥ तत्तदङ्गासिद्धिरिति ॥ तस्य तस्य सदाश्रयत्वपक्षधर्मत्वादिरूपस्य अङ्गस्य असिद्धिरित्यर्थः ।
॥ अस्येति ॥ स्वोत्प्रेक्षितदूषणेन वादिसाधनभङ्गस्येत्यर्थः ॥ जातावपीति ॥ तथा च ‘धूमवत्त्वादिति हेतुः साध्यासाधक आश्रयासिद्ध्यादेः’ इति प्रतिषेधानुमानेऽपि पक्षस्यैवाभावाद् आश्रयासिद्धिः । यदि प्रतीयमानत्वात् सोऽस्ति इत्युच्येत तन्न । शुक्तिरजतादौ व्यभिचाराद् इति वक्तुं शक्यत्वेन स्वन्यायविरोध इत्यर्थः ॥ उत्प्रेक्षितेति ॥ स्वयमेव पक्षादिसाधकत्वेनोत्प्रेक्षितेत्यर्थः
॥ अविषयवृत्तित्वं चेति ॥ पक्षादिसाधकत्वेन वाद्युक्तस्यैव दोष-प्रयुक्तासाधकत्वोक्तिविषयत्वेन स्वयमेवोत्प्रेक्षितस्य तदविषयत्वाद् विषय-वृत्तित्वमित्यर्थः ॥ २३ ॥
प्रमाणलक्षणटीकाविवरणम्
अस्येति । विमतो हेतुः साध्यासाधक आश्रयद्यसिद्धत्वाद् इति प्रतिषेधानुमानेऽपि विमतस्य हेतोरेवाभावात् । पक्षो सिद्धस्तस्मात्प्रतीयमानत्वा-दस्तीत्युच्चते चेत् तर्हि शुक्तिरूप्ये नैकान्तिकमिति व्याघात इति भाव इति जातिप्रकरणम् ॥ २३ ॥