२६ अनित्यसमः

वादिसाधनप्रतिबन्द्या धर्मान्तरेण सर्वस्य साध्य-धर्मवत्वापादनमनित्यसमः

अनित्यसमः

प्रमाणलक्षणटीका

वादिसाधनप्रतिबन्द्या धर्मान्तरेण सर्वस्य साध्य-धर्मवत्वापादनमनित्यसमः । यथा ‘यदि महानसवद् धूमवत्वात् पर्वतोऽग्निमान् तर्हि सत्त्वात् सर्वमप्यग्निमत् स्यात्’ इति । अविशेषसमायां तु सर्वाविशेषमात्रापादनम् । अन्यत् समानम्।

व्याप्त्यभावाद् युक्ताङ्गहानिः । तदनभ्युपगमे ‘यदि असाधक प्रतिबन्दीग्रस्तत्वाद् इदमसाधकं तर्हि पदार्थत्वात् सर्वमप्यसाधकं स्यात्’ इति व्याघात इति ॥ २२ ॥

प्रमाणलक्षणटीकाभावदीपः

पौनरुक्त्यं निराह ॥ अविशेषेति ॥ सर्वाविशेषेति ॥ धर्मान्तरेण अत्र तु साध्यधर्मेण इति भेद इति भावः ॥ अन्यदिति ॥ उत्थानबीजदिकमित्यर्थः।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

साधर्म्यादेर्विपक्षस्य सपक्षत्वप्रसञ्जनम् ।

साधनप्रतिबन्द्या यत्सह्यनित्यसमो मतः ॥

इतिकारिकानुसरेण अनित्यसमजाति ॥ वादिसाधनेति ॥ नन्वेवमविशेष-समजातिसाङ्कर्यम् । तत्रापि वादिसाधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थानां विशेषापादनसद्भावात् । उक्तञ्च कारिकायां

धर्मेणैकेन केषाञ्चिदविशेषप्रसञ्जनम् ।

साधनप्रतिबन्द्या यत्सोऽविशेषसमो मतः ॥ इति ॥

तत्राह ॥ अविशेषसमायां त्विति ॥ सर्वाविशेषमात्रापादनमिति ॥ ‘यदि धूमवत्त्वात् पर्वतमहानसयोर् अग्निमत्त्वाविशेषस् तर्हि द्रव्यत्वात् सर्वद्रव्याणा-मनित्यत्वं स्यात्’ इत्येवमविशेषसमायां सर्वपदार्थानां केवलमनित्यत्वादि-धर्मान्तरेणैव अविशेषापादनमभिप्रेतम् अत्र पुनः साध्यधर्मवत्वापादनमिति भेदात् । अत एवोक्तं कारिकायां ‘अविशेषप्रसञ्जनम् , सपक्षत्वप्रसञ्जनम्’ इति ।

॥ अन्यत्समानमिति ॥ कस्यचिद्धर्मस्य किञ्चिदसाधकत्वदर्शनम् उत्थानबीजम् , तर्कपराहतिरारोप्या इत्येवम् उत्थानबीजम् आरोप्यं च अविशेष-समजातिवदेव द्रष्टव्यमित्यर्थः ॥ व्याप्त्यभावादिति ॥ ‘यत्र सत्त्वं तत्र अग्निमत्त्वं’ इति व्याप्त्यभावादित्यर्थः ॥ तदनभ्युपगम इति ॥ व्याप्त्यनभ्युगम इत्यर्थः ।

॥ असाधकेति ॥ ‘सत्त्वात् सर्वमपि अग्निमत् स्यात्’ इति तर्कस्य व्यभिचारेण दुष्टत्वाद् असाधकत्वमित्यर्थः । इदं धूमवत्त्वरूपं साधनम् । तथा च ‘धूमवत्त्वाद् इतिहेतुः साध्यसाधको न भवति तर्कपराहतत्वात्’ इति प्रतिषेधानुमानेऽपि ‘यदि असाधकोक्ततर्कप्रतिबन्दीग्रस्तत्वाद् इदं धूमवत्त्वं साध्यासाधकं स्यात् तर्हि पदार्थत्वात् सर्वमपि असाधकं स्यात् , इत्येवं सर्वस्यापि असाधकत्व-रूपसाध्यधर्मवत्त्वापादनसम्भवात् स्वन्यायविरोध इति भावः ॥ २२ ॥

प्रमाणलक्षणटीकाविवरणं

नन्वेवमनित्यसमस्याविशेषसमसांकर्यम् । साधनप्रतिबंधाघातादि-तरधर्मेण तद्वतां सर्वपदार्थानामविशेषापादनं हि अविशेषसमो ऽनित्यसमोऽपि तथैवेति । अत आह ॥ अविशेषेति ॥ नाविशेषसमकार्यम् अनित्यसमस्य यतस् तत्र साधनप्रतिबन्धाघातादितरधर्मेण सर्वेषां धर्माविशेषापादनस्य विवक्षितत्वात्। अत्र पुनः साध्यधर्मवत्त्वापादनमिति भेदादिति भावः ।

नन्वत्रोेत्थानहेत्वादिकं कुतो नोच्यत इत्यत आह । अन्यत् समानमिति । अन्यद् उत्थानहेत्वादिकमविशेषसमेन समम् । कस्यचिद्धर्मस्य किंचिद् असाधकत्वदर्शनमुत्थानहेतुस् तर्कपराहतिरारोप्येति । अविशेषसमात्सममिति भावः व्यवहर्तव्यद्वैतमिति । व्यवहारविषयस्य सत्वासत्वमित्यर्थः ॥ २२ ॥