विवक्षितस्य कस्यचिद्धर्मस्य तदतद्रूपतां विकल्प्य ..
नित्यसमः
प्रमाणलक्षणटीका
विवक्षितस्य कस्यचिद्धर्मस्य तदतद्रूपतां विकल्प्य तद्दूषणेन धर्मिणस् तद्विशिष्टत्वभङ्गो नित्यसमः । यथा ‘शब्दोऽनित्यः’ इत्युक्ते अनित्यत्वं नित्यमनित्यं वा ।आद्ये शब्दोऽपि तथा स्यात् । न हि धर्मो नित्यः धर्मी चानित्य इति युज्यते । द्वितीये यदाऽनित्यत्वाभावस्तदा शब्दस्य नित्यत्वमिति सारूप्येण । वैरूप्येण तु अनित्यत्वं शब्दाद् भिन्नमभिन्नं वा । आद्ये अनवस्था । द्वितीये अन्यतरमात्रावशेषे आश्रयासिद्ध्यादीत्यादि ।
अत्र धर्मधर्मिभावदर्शनमुत्थानबीजम् । तर्कपराहति-रारोप्या । धर्मधर्मिभावनिरासे जातेरप्यनुत्थानाद् व्याघातः। तर्कस्य व्याप्त्यभावाद् युक्ताङ्गहानिश्चेति ॥ २१ ॥
प्रमाणलक्षणटीकाभावदीपः
॥ विवक्षितस्येति ॥ सिषाधयिषितस्य धर्मस्येत्यर्थः ॥ इति सारूप्येणेति ॥ साध्यं यत् तद्रूपतद्विरोधिरूपेण विकल्प्य दूषणाभिधानमित्यर्थः ॥ वैरूप्येणेति ॥ साध्यापेक्षया वैरूप्येणेत्यर्थः ।
॥ अनवस्थेति ॥ भेदपरम्परयेति भावः । अनित्यत्वावशेषपक्षे दोषमाह ॥ आश्रयासिद्ध्यादीत्यादीति ॥ शब्दमात्रावशेषे च साध्यासिद्धिरिति प्रथमादिपदार्थः । द्वितीयादिपदेन धर्मान्तरेष्वप्येवमित्यर्थः। ॥ जातेरपीति ॥ ‘इदम् असाधकम् आश्रयासिद्ध्यादेः’ इत्युक्तजातेरपि असाधकत्वं धर्मितो भिन्नम् अभिन्नं वा इत्यादिविकल्पदूषणयोः सम्भवाद् इति भावः ॥ व्याप्त्यभावादिति ॥ अनित्यत्वं नाम ध्वंस तस्य नित्यत्वेऽपि प्रतियोगिनो नित्यताऽनापत्तेर् नित्यजात्याश्रयस्य घटादेर् नित्यताऽनुपलम्भादिति भावः ॥ २१ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
धर्मस्य तदतद्रूपविकल्पानुपपत्तिः।
धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत् ॥
इतिकारिकानुसारेण नित्यसमजातेर्लक्षणमाह ॥ विवक्षितस्येति ॥ तथेति ॥ नित्य इत्यर्थः ॥ सारूप्येणेति ॥ अनित्यत्वं वा इति साध्यसाधर्म्येण विकल्प्य तद्द्षणेन इयं जातिः प्रवर्तत इत्यर्थः ॥ वैरूप्येणेति ॥ अनित्यत्वं शब्दाद् भिन्नम् अभिन्नं वा इति साध्यवैधर्म्येण विकल्प्य तद्द्षणेन प्रवर्तत इत्यर्थः ॥ अनवस्थेति ॥ भिन्नत्वं नाम भेदवत्त्वम् । तथा च भेदः किं भेदिभ्यां भिन्नः ? उत अभिन्नः ? इत्यादिविकल्पप्रसराद् अनवस्था इत्यर्थः ।
॥ अन्यतरमात्रावशेष इति ॥ अनित्यत्वस्य शब्दाभिन्नत्वेन अन्यतर-मात्रावशेषेपि अनित्यत्वमेवास्ति न शब्द इति प्राप्त्या आश्रयासिद्धिः । आदिशब्देन यदा च अन्यतरमात्रावशेषेण शब्द एवस्ति नानित्यत्वरूपं साध्यमिति प्राप्तं तदा बाध इति द्रष्टव्यम् ।
इत्यादीति आदिपदेन कार्यकार्याऽश्रितानाश्रितसत्यासत्यसदसत्स्थिरा-स्थिरैकानेकानुवृत्ताननुवृत्तविशेषणाविशेषणसापेक्षानपेक्षक्रमाक्रमवाच्यावाच्य-परोक्षापरोक्षवर्तमानावर्तमानहेयाहेयसहितासहितविरुद्धाविरुद्धाज्ञानाज्ञानेष्टानिष्ट-द्विष्टाद्विष्टकृताकृतशक्ताशक्तोत्पन्नानुत्पन्न व्यवहृताव्यवहृतसन्दिग्धासन्दिग्धेत्या-द्यवान्तरविकल्पक्रमा वैरूप्येण एतज्जातिप्रवृत्तिपक्षे सङ्गृहीता भवन्ति । तथा च एतज्जातिवादिनो विशिष्टस्वरूपनिराकरणमात्रे तात्पर्यम् इत्यवगन्तव्यम् ।
तर्कपराहतिरिति ॥ ‘अन्यतरमात्रावशेषे सति आश्रयासिद्ध्यादिकं स्यात्’ इति प्रतिकूलतर्कपराहतिरित्यर्थंः ॥ धर्मधर्मिभावेति ॥ उक्तरीत्या धर्मिणः शब्दस्य अनित्यत्वरूपधर्मवैशिष्ट्यभङ्गेन शब्दानित्यत्वयोर् धर्मधर्मिभावनिरासे क्रियमाणे सतीत्यर्थः ॥ जातेरपीति ॥ ‘शब्दोऽनित्यः कृतकत्वात्’ इत्यत्र कृतकत्वरूपो हेतुर् अनित्यत्वरूपसाध्यसाधको न भवति आश्रयासिद्धत्वाद् इति प्रतिषेधा-नुमानेऽपि साधकत्वरूपं साध्यं पक्षीभूतात् कृतकत्वरूपहेतोः सकाशाद् भिन्नम् अभिन्नं वा । आद्ये अनवस्था, द्वितीये अन्यतरमात्रावशेषे सति आश्रयासिद्ध्यादि इत्यापादनसम्भवेन पक्षीभूते कृतकत्वहेतौ असाधकत्वरूपसाध्यवैशिष्ट्यभङ्गेन जातेरपि अनुत्थानप्रसङ्गात् स्वन्यायविरोध इत्यर्थः ।
॥ व्याप्त्यभावादिति ॥ ‘अनित्यत्वस्य शब्दाद्भिन्नत्वे अनवस्था स्यात्’ इतितर्कमूलभूतव्याप्तौ दृष्टान्ताभावादिति भावः ॥ २१ ॥
प्रमाणलक्षणटीकाविवरणं
नित्यसमं लक्षयति ॥ विवक्षितस्येति ॥ सारूप्येणेति ॥ साधर्म्येणेत्यर्थः । आद्येऽनवस्थेति । यद्यनित्यत्वशब्दाद् भिन्नं तर्हि भिन्नत्वं नाम भेदत्वं भेदोऽपि धर्मएव सोऽपि भिन्न इत्यनवस्था स्यादित्यर्थः । असिध्यादीत्यत्रादिपदेन बाधसंग्रहः ॥ धर्मधर्मिभावनिरास इति ॥ अयं भावः विमतो हेतुरसाधक आश्रयासिद्धत्वादित्यत्रापि साध्यधर्मः पक्षाद्भिन्नोऽभिन्नो वा । नाद्यः भिन्नत्वेऽनवस्थापत्तेः । अभिन्नत्वे अन्यतरमात्रावशेष इत्यसिध्यादीति व्याघात इत्यर्थः ।