उपलब्ध्यादिविषयिधर्माणां स्वात्मनि तदतद्रूपतां ..
अनुपलब्धिसमः
प्रमाणलक्षणटीका
उपलब्ध्यादिविषयिधर्माणां स्वात्मनि तदतद्रूपतां विकल्प्य उभयथा व्याघातापादनम् अनुपलब्धिसमः । यथा ‘उपलब्धत्वाद् इदमस्ति’ इत्युक्ते सा उपलब्धिः स्वस्मिन्न् उपलब्धितया वर्तते न वा ।
आद्ये नोपलब्धिः प्रमेयवदुपलब्धत्वात् । द्वितीयेऽपि तथा। प्रमेयवत् स्वात्मनि तथा अवृत्तेः । तथा च उपलब्धित्व-मसिद्धम् ।
एवं ‘अनुपलब्धेरिदं नास्ति’ इत्युक्ते अनुपलब्धिः स्वा-त्मनि अनुपलब्धितया वर्तते चेत् प्रमेयवदसती स्यात् । अवृत्तौ घटवन् नानुषलब्धिः । अनुपलब्ध्यभावाद् अनुपलब्धत्वासिद्धिर् इत्यादि।
प्रमाणलक्षणटीकाभावदीपः
॥ स्वस्मिन्नुपलब्धिरूपेणेति ॥ स्वविषयकत्वेन वर्तते न वा इत्यर्थः ॥ उपलब्धत्वादिति ॥ उपलब्धिविषयत्वादित्यर्थः ॥ तथेति ॥ नोपलब्धिरित्यर्थः ।
॥ तथाऽवृत्तेरिति ॥ उपलब्धिरूपेण अवृत्तेरित्यर्थः । प्रमेयं घटादिकं स्वात्मनि उपलब्धिरूपेण अवर्तमानत्वाद् यथा नोपलब्धिस् तथेति ॥ प्रमेयवदसती स्यादिति ॥ घटादिप्रमेये अनुपलब्धिर् अनुपलब्धितया उपलब्ध्यभावरूपतया वर्तमाना चेत् तदा घटाभावसिद्ध्या घटो यथा असन् तथा अनुपलब्धितया स्वविषये वर्तते चेत् तदा स्वस्य अभाव एव सिध्येन् न तु स्वयमिति स्वयमसती स्यादित्यर्थः ॥ घटवदिति ॥ घटो यथा स्वात्मनि अनुपलब्धत्वेन न वर्तत इति नानुपलब्धिस् तथेयमपीत्यर्थः । इत्यादीति आदिपदेन विषयितामन्तरेऽप्येवमिति ग्राह्यम् ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
स्वस्मिन्विषयिधर्माणां तदतद्रूपकल्पनात् ।
विपर्ययप्रसङ्गः स्याज्जातिश्चानुपलब्धितः ॥
इतिकारिकानुसारेण नुपलब्धिसमजातिं लक्षयति ॥ उपलब्ध्यादीति ॥ आदिपदेन अनुपलब्धिर् इच्छानिच्छे द्वेषाद्वेषौ कृत्यकृती उपपत्त्यनुपपत्ती व्यवहृत्त्यव्यवहृती भेदाभेदावित्येवमादयो वरदराजीयोक्ता ग्राह्याः ।
॥ विषयिधर्माणामिति ॥ विषयनिरूप्यधर्माणामित्यर्थः । उपलब्ध्यादयश्च ते विषयिधर्माश्चेति विग्रहः । स्वात्मनि उपलब्ध्यादिस्वरूपे । विषयसप्तमीयम् ।
॥ तदतद्रूपतामिति ॥ तद्रूपताम् अतद्रूपतां चेत्यर्थः । तद्रूपताम् उपलब्ध्या-दिरूपताम् उपलब्ध्यादिरूपत्वेन वृत्तिमित्यर्थः । अतद्रूपताम् उपलब्ध्यादिरूपत्वेन अवृत्तिमित्यर्थः । उभयथा पक्षद्वयेऽपि । व्याघाताऽपादनम् उपलब्धित्वाऽदि-व्याघाताऽपादनम् ।
स्वस्मिन्विषये ॥ उपलब्धितयेति ॥ उपलब्धिरूपेणेत्यर्थः ॥ स्वविषयतया वर्तत इति यावत् । कथं’ इत्यत आह ॥ प्रमेयवदिति ॥ घटादिवदित्यर्थः । तथा च यद्युपलब्धिः स्वविषये उपलब्धितया वर्तत इत्यङ्गीक्रियते स्वविषयकतया वर्तत इत्यङ्गीक्रियत इति यावत् । तर्हि तस्या उपलब्धेर् उपलब्धिविषयत्वेन घटादिवद् उपलब्धत्वस्यैव प्राप्त्या उपलब्धित्वं न स्यात् । ततश्च तद्विषयो लिङ्गादिर् नोपलब्धः स्यात् । तथा चोपलब्धत्वाद् इदमस्ति’ इत्यत्र उपलब्धत्वमसिद्धमिति भावः ।
॥ तथेति ॥ न उपलब्धिरित्यर्थः । तदुपपादयति ॥ प्रमेयवदिति ॥ स्वात्मन्युपलब्धिरूपेणावर्तमानघटादिवदित्यर्थः । अस्वविषयकघटादिवदिति यावत् ॥ स्वात्मनीति ॥ स्वविषये उपलब्धिरूपेणावृत्तेरित्यर्थः । अस्वविषयकत्वादिति यावत् । तथा च यद्युपलब्धिः स्वात्मन्युपलब्धिरूपेण न वर्तत इत्यङ्गीक्रियते स्वविषयिणी न भवतीत्यङ्गीक्रियत इति यावत् । तर्हि अस्वविषयकघटादिवद् यथा घटादीनामुपलब्धित्वं नास्ति तद्वदिति यावत् । अस्या अप्युपलब्धित्वं न स्यादिति तद्विषयो लिङ्गादिर्नोपलब्धः स्यादिति उपलब्धत्वमसिद्धमित्यर्थः ।
॥ अनुपलब्धेरिति ॥ अनुपलब्धत्वादित्यर्थः । स्वात्मनि स्वविषये । अनुपलब्धितया अनुपलब्धिरूपेण स्वविषयकतयेति यावत् ॥ प्रमेयवदसती स्यादिति ॥अयमर्थः , यदि अनुपलब्धिः स्वात्मनि अनुपलब्धिरूपेण वर्तत इत्यङ्गीक्रियते स्वविषयकतया वर्तत इत्यङ्गीक्रियत इति यावत्, तर्हि यथा घटादिरूपप्रमेयविषयकोपलब्ध्यभावे घटादीनामसत्त्वमेव प्राप्नोति वस्तुसिद्धेर्ज्ञानैकाधीनत्वात् । एवमनुपलब्धिविषयकानुपलब्ध्यङ्गीकारे अनुपलब्धिविषयकोपलब्ध्यभावप्राप्त्या अनुपलब्ध्यभावाद् अनुपलब्धिरूपपदार्थस्यैव अभावापत्तेः । वस्तुसिद्धेर्ज्ञानैकाधीनत्वात् । तथा च अनुपलब्धेरेवाभावे तद्विषयो नानुपलब्धः स्यात् । एवं च ‘अनुपलब्धत्वाद् इदं नास्ति’ इत्यत्र अनुपलब्धत्वस्य असिद्धिरित्यर्थः ।
॥ अवृत्ताविति ॥ अयं भावः , यदि अनुपलब्धिः स्वात्मनि अनुपलब्धि-रूपेण न वर्तत इत्यङ्गीक्रियते अनुपलब्धिः स्वविषयिणी न भवति इति अङ्गीक्रियते अनुपलब्धिविषयकानुपलब्धि नास्तीत्यङ्गीक्रियत इति यावत् , तर्हि यथा घटादिपदार्थविषयकानुपलब्ध्यभावे घटादिपदार्थानामुपलब्धत्वमेव प्राप्तम् एवम् अनुपलब्धिरूपपदार्थविषयकानुपलब्धिर्नास्ति इत्यङ्गीकारे अनुपलब्धिविषयकोप-लब्ध्यभावाभावापत्त्या अनुपलब्धिरूपपदार्थस्य उपलब्धिविषयत्वेन उपलब्ध-त्वमेव प्राप्तम् इति अनुपलब्धित्वं स्यात् । तथा च तद्विषयो नानुपलब्धः स्यादिति अनुपलब्धत्वस्य असिद्धिरिति ।
प्रमाणलक्षणटीकाविवरणम्
अनुपलब्धिसमं लक्षयति । उपलब्ध्यादिति । विषयनिष्ठा विषयिणः। ते च ते धर्माश्च उपलब्ध्यादयश्च ते विषयधर्माश्चेति कर्मधारयः । आदिपदेनानुपलब्धिइच्छानिच्छद्वेषाद्वेषकृत्यकृतिशक्त्यशक्तिउपपत्यनुपपत्य-व्यवहृत्यव्यवहृतिभेदादिसंग्रहः । तेषां स्वात्मनि उपलब्ध्यादौ एते धर्मा उपलब्धित्वादिरूपेण वर्तन्ते उत तद्रूपेणेति विकल्प्योभयथाऽपि पक्षद्वयेऽपि व्याघातापादनमित्यर्थः ।
॥ अद्य इति ॥ यद्युपलब्धिर् उपलब्धौ वर्तते तर्हि उपलब्धिर्न स्यात् । किंतु घटादिरुपलब्ध्या स्यादिति भावः । द्वितीयेऽपि तथेति तथा नोपलब्धिरित्यर्थः।
कथमित्यतस्तदुपपादयति ॥ प्रमेयवदिति ॥ यथा प्रमेयं घटादिस्वस्मिन् अवृत्तिस्तथा आत्मन्युपलब्ध्यादौ तथा उपलब्ध्यादित्वरूपेणावृत्तेरित्यर्थः । प्रमेयवदसती स्यादिति यद्यनुपलब्धितयाऽनुपलब्धिरनुपलब्धावस्ति तदाऽनुप-लब्धेरसती स्यात् । सर्वेषामपि घटादीनां सत्वस्योपलब्ध्येकसमधिगम्यत्वेनानुप-लब्धघटादिवदसत्वापातादित्यर्थः ।
यद्वा अनुपलब्धौ अनुपलब्धिसत्वे तस्यापि विषयवदनुपलब्धत्वादनुप-लब्धित्वं न स्यादिति भावः । द्वितीयं दूषयति अवृत्ताविति । घटवदनुपलब्धिर्न स्यात् । तथा अनुपलब्धिविषयत्वं न स्यादित्यर्थः ।
॥ व्याघात इति ॥ विमतो हेतुः साध्यासाधको ऽसिद्धत्वादिति प्रतिषेधहेतावपि असिद्धिर् असिद्धतया स्वात्मनि वर्तते चेत्तर्हि अस्या अप्यसिद्धत्वमेव स्यान् नत्वसिद्धित्वमिति। असिद्धिविषयत्वाभावादिसिद्धिरिति व्याघात इत्यर्थः । अयुक्तांगाधिकत्वमुपपादयति स्वात्मनीति ॥ उपलब्ध्यादौ तथा उपलब्ध्यादिना रूपेण वृत्तेरयुक्तत्वादित्यर्थः ।