२२ उपपत्तिसमः

मत्पक्षेऽपि किञ्चित् प्रमाणं भविष्यतीति तदुप-पादनमुपपत्तिसमः

उपपत्तिसमः

प्रमाणलक्षणटीका

मत्पक्षेऽपि किञ्चित् प्रमाणं भविष्यतीति तदुप-पादनमुपपत्तिसमः । यथा ‘धूमवत्वं यथा अस्ति त्वत्पक्षे प्रमाणं तथा मत्पक्षेऽपि किञ्चिद् भविष्यति पक्षत्वात्’ इति।

अत्र सामान्यतः प्रमाणसम्भावना उत्थानबीजम् । बाधः प्रतिरोधो वा आरोप्यः । तस्यापि कश्चिद् दोषो भविष्यतीति वक्तुं शक्यत्वाद् व्याघातः । युक्ताङ्गहानिश्च । उपन्यस्तं प्रत्यनुप न्यस्तस्य प्राबल्यादेर्वाधाद्यङ्गस्य अनिश्चयादिति ॥ १८ ॥

प्रमाणलक्षणटीकाभावदीपः

॥ तदुपपादनमिति ॥ हेतूपन्यासेनेति भावः ॥ तस्यापीति ॥ ‘धूमवत्त्वम् असाधकं बाधदिमत्वात्’ इत्यत्र धूूमवत्त्वहेतोर् बाधितत्वादिदोष इव ‘बाधितत्वात् सप्रतिपक्षत्वाद् इति त्वदुक्तहेतावपि कश्चिद्दोषो भविष्यति हेतुत्वात्’ इति त्वदुक्तहेतोरपि दूषयितुं शक्यत्वाद् व्याघात इत्यर्थः । युक्ताङ्गहानिं व्यनक्ति ॥ उपन्यस्तं प्रतीति ॥ १८ ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

अस्मत्पक्षेऽपि किमपि प्रमाणमुपपत्स्यते ।

त्वत्पक्षवदिति प्राप्तिरुपपत्तिसमो मतः ॥

इतिकारिकानुसारेण उपपत्तिसमजातिं लक्षयति ॥ मत्पक्षेऽपीति ॥ बाध इत्यादि ॥ मत्पक्षीयप्रमाणस्य प्रबलत्वे तद्विरुद्धस्य त्वत्पक्षस्य बाधः । समबलत्वे तु प्रतिरोध इत्यर्थः ॥ तस्यापीति ॥ मत्पक्षेऽपि किञ्चित् प्रमाणं भविष्यतीति सामान्यत उपन्यस्तस्याप्रीत्यर्थः । निर्वक्तुमितिपाठे नितरां वक्तुुमित्यर्थः ।

युक्ताङ्गहानिमुपपादयति ॥ उपन्यस्तं प्रतीति ॥ उपन्यस्तप्रमाणं प्रतीत्यर्थः ॥ अनुपन्यस्तस्येति ॥ किञ्चिद्भविष्यतीति सामान्येनैवोपन्यासेऽपि कण्ठतोऽनुपन्यस्तस्य प्रमाणस्येत्यर्थः । प्राबल्यादेरित्यादिपदेन समबलत्वग्रहणम् बाधादीत्यादिपदेन प्रतिरोधग्रहणम् । बाधाद्यङ्गस्य प्राबल्यादेरिति सम्बन्धः ॥अनिश्चयादिति ॥ निश्चयेन निरूपणासम्भवादित्यर्थः । यथोक्तं वरदराजीये ‘अनुपन्यस्तप्रमाणस्य प्राबल्यसाम्ययोर्निरूपणासम्भवात्’ इति ॥ १८ ॥

प्रमाणलक्षणटीकाविवरणं

युक्तांगहानिमुपपादयति । उपन्यस्तं प्रतीति । उपन्यस्तप्रमाणं प्रतीत्यर्थः । अनुपन्यस्तस्येति । किंचिद्भविष्यतीति सामान्येनैवोपन्यासेऽपि कंठतो अनुपन्यस्तस्य प्रमाणस्येत्यर्थः ।