साधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थाना-मविशेषापादनम् अविशेषसमः
अविशेषसमः
प्रमाणलक्षणटीका
साधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थाना-मविशेषापादनम् अविशेषसमः । यथा ‘यदि धूमवत्वात् पर्वतमहानसयोरग्निमत्वाविशेषस् तर्हि द्रव्यत्वात् सर्वद्रव्याणाम् अनित्यत्वं स्यादिति ।
कस्यचिद्धर्मस्य किञ्चिदसाधकत्वदर्शनमत्रोऽत्थानबीजम्। तर्कपराहतिर् आरोप्या । व्याप्तिहीनत्वात् तर्कस्य युक्ताङ्ग-हानिरिति ।
अन्यथा ‘अस्य संप्रतिपन्नस्य च तर्कपराहतत्वेन असाधकत्वविशेष पदार्थत्वात् सर्वस्यानित्यत्वाविशेषः स्यात्’ इति व्याघात इति ॥ १७ ॥
अस्य सम्प्रतिपन्नस्य चेति ॥ ‘धूमवत्त्वम् असाधकं तर्क-पराहतत्वात् तर्कपराहतहेत्वन्तरवत्’इत्यत्र त्वया पक्षीकृत-धूमवत्त्वस्य दृष्टान्तीकृतस्य चेत्यर्थः ॥ १७ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
धर्मेणैकेन केषाञ्चिदविशेषप्रसञ्जनम् ।
साधनप्रतिबन्द्या यत्सोऽविशेषसमो मतः ॥
इतिकारिकानुसारेण अविशेषसमजातिं लक्षयति ॥ साधनप्रतिबन्द्येति ॥ तदितरधर्मेणेति ॥ वादिसाधनव्यतिरिक्तधर्मेणेत्यर्थः । उत्कर्षसमव्यवच्छेदायेदं विशेषणमिति मन्तव्यम् ॥ कस्यचिदित्यादि ॥ द्रव्यत्वस्य सर्वद्रव्यानित्यत्व-साधकत्वदर्शनं जात्युत्तरोत्थानबीजमित्यर्थः ॥ अन्यथेति ॥ व्याप्त्याद्यनङ्गीकार इत्यर्थः । अस्य धूमानुमानस्य ॥ सम्प्रतिपन्नस्येति ॥ तर्कपराहततया असाधकत्वेन सम्प्रतिपन्नस्य कस्यचिदित्यर्थः ।
॥ तर्केति ॥ ‘द्रव्यत्वात् सर्वद्रव्याणामनित्यत्वं स्यात्’ इति तर्कपराहत-त्वेनेत्यर्थः । तथा च ‘धूमानुमानस्य सम्प्रतिपन्नकिञ्चिदनुमानस्य चेत्युभयोस् तर्कपराहतत्वेन यदि असाधकत्वाविशेषस् तर्हि पदार्थत्वात् सर्वपदार्थानां नित्यत्वेनापि विशेषः स्याद् इति स्वन्यायविरोधः । न चात्र व्याप्त्यभावः । त्वया पूर्वं तदङ्गत्वानङ्गीकारादित्यर्थः ॥ १७ ॥