२० अर्थापत्तिसमः

व्याप्तिं विना वाद्युक्तिमात्रेण ‘अर्थाद् इदमाक्षिप्तं’ ..

अर्थापत्तिसमः

प्रमाणलक्षणटीका

व्याप्तिं विना वाद्युक्तिमात्रेण ‘अर्थाद् इदमाक्षिप्तं’ इत्यभिमानेनोक्तविपरीतारोपणेन दोषाभिधानम् अर्थापत्तिसमः। यथा ‘पर्वतोऽग्निमान्’ इत्युक्ते अर्थाद् आपद्यते ‘अन्यद् अनग्निमत्’ इति । तथा च साध्यविकलो दृष्टान्त इत्यादि ।

अत्र ‘विशेषविधिः शेषनिषेधं गमयति’ इत्यभिमान-मुत्थानबीजम् । साध्यविकलत्वादि आरोप्यम् । व्याप्तेरभावाद् युक्ताङ्गहानिः । तदनपेक्षणे ‘धूमवत्वम् असाधकं’ इत्युक्ते अर्यादापद्यते ‘अन्यत् सर्वं साधकं ‘इति ॥ तथा च दृष्टान्ताभाव इति व्याघात इति ॥ १६ ॥

प्रमाणलक्षणटीकाभावदीपः

उक्तविपरीतेति ॥ वाद्युक्तविपरीतेथ्यर्थः ॥ साध्यविकलत्वादीति ॥ साधनविकलत्वम् आदिपदार्थः । इति सुवचत्वाद् व्याघात इति योज्यम् ॥ १६ ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

व्याप्ते विना वादिवाक्यादर्थाक्षेपाभिमानतः ।

विपरीतसमारोपमर्थापत्तिसमं बिदुः ॥

इतिकारकिानुसारेण अर्थापत्तिसमजातिं लक्षयति ॥ व्याप्तिं विनेति ॥ इत्यादीति आदिशब्दार्थस्तु ‘अनित्यप्ताधर्म्यात् शब्दोऽनित्यः’ इत्युक्ते अर्थाद् आपन्नं ‘नित्यप्ताधर्म्यान्नित्यः’ इति । तथा च प्रतिरोध इत्यादिना वरदजातीयोक्तो द्रष्टव्यः । साध्यविकलत्वादीत्यत्र आदिपदेन प्रतिरोधादिग्रहणम् ॥ ेतथा च दृष्टान्ताभाव इति ॥ पक्षातिरिक्ते सर्वत्र अर्थात् साधकत्वस्य लब्धत्वेन असाधकत्वे दृष्टान्ताभावेन तत्र साध्यस्यापि सुुतरामभावात्साध्यवैकल्यमिति स्वन्यायविरोध इत्यर्थः ॥ १६ ।

प्रमाणलक्षणटीकाविवरणम्

॥ विशेषविधिरिति । तस्य व्याप्तत्वादित्यर्थः । तदपेक्षेण इति। पक्षातिरिक्तस्य सर्वस्यापि साधकत्वादिति दृष्टान्ताभावः । अन्यथेति व्याप्त्याद्य-नंगीकार इत्यर्थः । अस्य धूमानुमानस्य । संप्रतिपन्नस्येति । तर्कपराहततया साधकत्वेन संप्रतिपन्नस्य कस्यचिदित्यर्थः ॥ १६ ॥