अङ्गीकृतानधिकबलत्वेन बाधचोदनं प्रकरणसमः
प्रकरणसमः
प्रमाणलक्षणटीका
अङ्गीकृतानधिकबलत्वेन बाधचोदनं प्रकरणसमः । यथा ‘द्रव्यत्वात् पर्वतो नाग्निमानेव’ इति ।
अत्र प्रतिप्रमाणोपलम्भ उत्थानहेतुः । बाध आरोप्यः । बाधकत्वेऽधिकबलवत्वस्याङ्गत्वाद् युक्ताङ्गहानिः । बाधकस्य अधिकबलत्वानङ्गीकारे स्थापनयैव जातेर्बाधकप्राप्तेर्व्याहतिरिति ॥ १४ ॥
प्रमाणलक्षणटीकाभावदीपः
॥ स्थापन इवेति पाठे वाद्युक्तानुमान इव जात्युत्तरेऽपि ‘नायं हेतुः साधकः बाधितविषयत्वाद् इत्यत्र वस्तुत्वात् साधकएवायं हेतुरिति बाधकप्राप्तेरित्यर्थः ॥ स्थापनयैवेति पाठे वाद्यनुमानेनैव बाधाप्राप्तेनित्यर्थः ॥१४।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
तुल्यत्वमभ्युपेत्यैव परहेतोः स्वहेतुना ।
बाधेन प्रत्यवस्थानं प्रक्रियासम इष्यते ॥
इतिकारिकानुसारेण प्रकरणसमजातेर्लक्षणमाह ॥ अङ्गीकृतेति ॥ यथेत्यनन्तरं ‘धूमवत्त्वात् पर्वतोऽग्निमान्’ इति स्थापनाहेतौ प्रयुक्त इति शेषः । स्थापनया स्थापनयुक्त्या ।
॥ जातेरिति ॥ अग्निप्रतिषेधहेतोर्द्रव्यत्वस्य स्थापनाहेतुबाधकत्वोपयोगिनस् तदपेक्षया अधिकबलवत्वस्याभावेऽपि तद्बाधकत्वोक्तौ स्थापनाहेतुनैव जातेः प्रतिषेधहेतोर्बाधप्राप्तेः स्वन्यायविरोधः । न च प्रतिषेधहेत्वपेक्षया स्थापनाहेतोरधिकबलवत्वाभावात् कथं तेन प्रतिषेधहेतोर्बाधप्राप्तिः ? इति वाच्यम् बाधकत्वेन अधिकबलवत्वस्य त्वया तन्त्रताऽनङ्गीकारादिति भावः ॥ १४ ॥
प्रमाणलक्षणटीकाविवरणम्
॥ बाधकस्येति ॥ प्रतिषेधहेतोः स्थापनाहेत्वपेक्षयाऽधिकबलत्वा-भावेऽपि तद्बाधकत्वे स्थापनाहेतोरेव प्रतिषेधहेतुबाधकत्वं स्यात् । न चाधिकबलत्वाभावात् कथं तद्बाधकत्वमिति चेत् । तस्य पूर्वमनङ्गीकारात् । अंगीकारे वा व्याघातादिति ।