१४ प्रसङ्गसमजातिः

सिद्धस्यापि पक्षाऽदेर् उत्पादकज्ञापकानवस्थाप्रसञ्जनं प्रसङ्गसमः

प्रसङ्गसमजातिः

प्रमाणलक्षणटीका

सिद्धस्यापि पक्षाऽदेर् उत्पादकज्ञापकानवस्थाप्रसञ्जनं प्रसङ्गसमः । यथा, पर्वतस्यापि किम् उत्पादकम् ? तस्यापि अन्यद् इत्यनवस्था । कस्यचित् कारणाभावे अन्यस्यापि तत्प्रसङ्गात् । तथा प्रमाणेऽपि किं प्रमाणं ? तत्राप्यन्यदित्य-नवस्था । कस्यचित् प्रमाणान्तरं विना सिद्धावन्यत्रापि तथा-त्वापातादिति । कारणाऽदिनियमाभिमानोऽत्र द्वारम् । तर्क-पराहतिरारोप्या । जात्युत्तरेऽप्येवं वक्तुं शक्यत्वाद् व्याघातो ऽवस्थाङ्गमूलक्षतेरभावाद् युक्ताङ्गहानिश्चेति ॥ १० ॥

प्रमाणलक्षणटीकाभावदीपः

॥ जात्युत्तरेऽप्येवमिति ॥ ‘नायं हेतुः साधको ऽनवस्था-रूपतर्कपराहतत्वात्’ इति जात्युत्तरेऽपि अयं हेतुर् इत्युक्त हेतोर् उत्पादका-द्यनवस्थायास् त्वदुक्तप्रमाणेऽपि प्रमाणान्तरानवस्थायाः सुवचत्वाद् व्याघात इत्यर्थः ॥ मूलक्षतेरभावादिति ॥ बीजाङ्कुरानवस्थाया इवेति भावः ॥ १० ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

सिद्धे दृष्टान्तहेत्वादौ साधनप्रश्नपूर्वकम् ।

अनवस्थाभासवचः प्रसङ्गसमजातिता ॥

इतिकारिकानुसारेण प्रसङ्गसमजातिं लक्षयति ॥ सिद्धस्यापीति ॥ कृतिज्ञप्ति-साधारणीयमपि जातिः ।

पक्षादेरित्यादिपदेन हेतुदृष्टान्तग्रहणम् । कृतौ अनवस्थां व्युत्पादयति ॥ यथेति ॥ कारणाभाव इति ॥ कारणाभावेऽप्युत्पत्तिमङ्गीकृत्यापि नानवस्था-परिहार इत्यर्थः । अन्यस्यापि पर्वतस्यापि ।

ज्ञप्तौ अनवस्थां व्युत्पादयति ॥ तथेति ॥ प्रमाणेऽपीति ॥ पक्षीभूतपर्वता-दिज्ञापकप्रमाणेऽपीत्यर्थः ॥ प्रमाणान्तरं विना सिद्धाविति ॥ प्रमाणान्तरं विनाऽपि तज्ज्ञानमङ्गीकृत्य अनवस्थापरिहारे सतीत्यर्थः ॥

कारणादीत्यादिपदेन ज्ञापकप्रमाणसंग्रहः ॥ तर्कपराहतिरिति ॥ अनवस्था-रूपप्रतिकूलतर्कपराहतिरित्यर्थः ॥ जात्युत्तरेऽपीति ॥ ‘नेदमनुमानं साधकं तर्कपराहतत्वात् संमतवत्’ इत्यनुमानेऽपि पक्षादीनां सद्भावेन तदुत्पादकज्ञापक-परम्परयाऽपि अनवस्थाया वक्तुं शक्यत्वात् स्वन्यायविरोध इत्यर्थः ।

॥ अनवस्थाङ्गेति ॥ मूलक्षयकरीं प्राहुरनवस्थां हि दूषणम् । इतिवचनादिति भावः ॥ मूलक्षतेरिति ॥ यदर्थम् उत्तरोत्तरानुसरणं तन् मूलम् उत्पत्तिर्ज्ञप्तिर्वा । तत्परिक्षयाभावादित्यर्थः । अयं भावः ‘यदि अनवस्थितासिद्धपक्षादिकारण-ज्ञापकपरम्परा अङ्गीक्रियते तर्हि अनवस्था स्यात्’ न चेयमनवस्था अङ्गीकर्तुमुचिता अप्रामाणिकत्वात् तस्मात् प्रकृतकार्यं न सम्भवति’ इत्येवम् अनवस्थाया मूलक्षय-कारिता वक्तव्या ।

न चैवं प्रकृते सम्भवति । अनवस्था हि तर्कविशेषः । तर्कस्तु अप्रामाणिक-कल्पनाऽत्मकानिष्टाऽपादनरूपः । एवं च प्रकृतानाम् अनुमानाङ्गभूतानां पक्षाऽदीनां प्रत्यक्षाऽदिप्रमाणसिद्धत्वेन तद्विषयकानवस्थाया बीजाङ्कुरानवस्थावन् मूलोपपादकतया दोषत्वासम्भवात् । यथोक्तम् पद्धतौ अत्र सिद्धविषयत्वेन अनवस्थाऽसम्भवेन मूलक्षयाभावाद् अदोषत्वमिति वाच्यम् इति ॥ १० ॥

प्रमाणलक्षणटीकाविवरणम्

॥ जात्युत्तरेऽपीति ॥ अयं भावस् त्वदीयानुमानेऽपि पक्षादीनां सत्वात् तेषामपि कारणं वाच्यम् । तस्याकारणत्वे अस्यापि तथात्वापातात् ॥ तथा प्रमाणेऽपि प्रमाणं वक्तव्यम् । तस्य प्रमाणं विना सिद्धौ अस्यापि तथात्वापाताद् इति ।