१३ अप्राप्तिसमजातिः

प्राप्तिपक्षनिरासेन अप्राप्तिपक्षं शेषयित्वा तद्दूषणम् अप्राप्तिसमः

अप्राप्तिसमजातिः

प्रमाणलक्षणटीका

प्राप्तिपक्षनिरासेन अप्राप्तिपक्षं शेषयित्वा तद्दूषणम् अप्राप्तिसमः । यथा, पूर्ववत् प्राप्तिपक्षस्य दुष्टत्वाद् अप्राप्य इति वक्तव्यम् । न च तद् युक्तम् । न हि अप्राप्याग्निः काष्ठं दहति । न हि अप्राप्य दीपः प्रकाश्यं प्रकाशयति ।

प्राप्तावुक्तानुपपत्तिदर्शनमुत्थानहेतुः । साध्यप्राप्तेर्हेतु-विशेषणत्वेन विशेषणासिद्धिरारोप्या । पुर्ववद् दुष्टत्वमूलम् इति ॥ ९ ॥

प्रमाणलक्षणटीकाभावदीपः

॥ दुष्टत्वादिति ॥ हेतोर्विशेषणासिद्धत्वरूपदोषयुक्तत्वप्रसङ्गाद् इत्यर्थः ॥ विशेषणत्वेन इत्यनन्तरम् इह च तदभावाद् इति योज्यम् ॥ पूर्ववद्दुष्टत्व-मूलमिति ॥ ‘नायं हेतुः साधकः विशेषणासिद्धत्वात्’ इति प्रतिषेधहेतावपि प्रतिषेधेन प्राप्तिपक्षं निरस्य परिशिष्टाप्राप्तिसिद्धेर् विशेषणासिद्धेः सुवचत्वाद् व्याघातो ऽप्राप्तिसमजातेर्दुष्टत्वमूलं ज्ञेयमित्यर्थः ॥ ९ ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

अप्राप्य साधयेत्साध्यं हेतुः सर्वं च साधयेत् ।

अप्राप्तेरविशिष्टत्वादित्यप्राप्तिसमस्थितिः ॥

इतिकारिकानुसारेण अप्राप्तिसमजातिं लक्षयति ॥ प्राप्तिपक्षेति ॥ इयमपि कृतिज्ञप्तिसाधारणी जातिः ॥ पूर्ववदिति ॥ कृतौ ज्ञप्तौ च उक्तरीत्या अनुमानवैयर्थ्य-प्रसङ्गेन प्राप्तिपक्षस्य दुष्टत्वादित्यर्थः ॥ अप्राप्येतीति ॥ धूमवत्त्वज्ञानम् अग्नि-मत्त्वज्ञानम् एवं धूमवत्त्वज्ञानम् अग्निं च अप्राप्यैव उत्पादयति ज्ञापयति च इति वक्तव्यमित्यर्थः । कुतो न युक्तम् ? इत्यतः कृतिपक्षे अतिप्रसङ्गं सूचयति ॥ न हीति ॥ तथा च ‘अप्राप्याप्यग्निः काष्ठदाहं कुर्याद् इत्यतिप्रसङ्ग इति भावः । ज्ञप्तिपक्षे अतिप्रसङ्गं सूचयति ॥ न हीति ॥ तथा च ‘अप्राप्यापि दीपः प्रकाश्यं प्रकाशयेत्’ इत्यतिप्रसङ्ग इति भावः ।

॥ अनुपपत्तीति ॥ अनुमानवैयर्थ्यानुपपत्तीत्यर्थः ॥ हेतुविशेषणत्वेनेति ॥ अप्राप्तिपक्षे च तदनङ्गीकाराद् विशेषणासिद्धिरित्यर्थः ॥ पूर्ववदिति ॥ प्राप्तिसमवदेव व्याघातरूपं दुष्टत्वमूलं द्रष्टव्यमित्यर्थः । तथा हि ‘नायं धूमवत्त्वहेतुः साध्यसाधकः विशेषणासिद्धत्त्वात्’ इति प्रतिषेधहेतावपि प्राप्तिपक्षस्य अनुमानवैयर्थ्येन दुष्टत्वाद् विशेषणासिद्धत्वज्ञानम् असाधकत्वज्ञानम् असाधकत्वं च अप्राप्यैव उत्पादयति ज्ञापयति च इति वक्तव्यं तदयुक्तम् अतिप्रसङ्गाद् इति स्वन्यायेन व्याघात इति ॥ ९ ॥

प्रमाणलक्षणटीकाविवरणम्

॥ पूर्ववदिति ॥ सा चैव प्राप्तिरिति अनुमानवैय्यर्थ्यमिति कारणात् प्राप्तिपक्षौ न संभवति ॥ पूर्ववदिति ॥ अयं भावः ॥ प्रतिषेधहेतावपि प्राप्तिपक्षस्य दुष्टत्वादप्रामाण्येन वक्तव्यम् । तच्च न संभवति । अप्राप्योत्पादकत्वे ज्ञापकत्वे वाऽतिप्रसंगात् । तस्मादप्राप्यापि न संभवतीति स्वव्याहतिरिति ॥ कारणादीत्यत्र आदिपदेन प्रमाणसंग्रहः ॥ ९ ॥