१२ प्रप्तिसमजातिः

साधनस्य साध्याप्राप्तिपक्षनिरासेन प्राप्तिपक्षमवशेष्य तददुषणं प्राप्तिसमः

**प्रप्तिसमजातिः **।

प्रमाणलक्षणटीका

साधनस्य साध्याप्राप्तिपक्षनिरासेन प्राप्तिपक्षमवशेष्य तददुषणं प्राप्तिसमः । यथा धूमवत्वज्ञानम् अग्निमत्वज्ञानं प्राप्य उत्पादयति अप्राप्य वा । द्वितीयेऽतिप्रसङ्गात् प्राप्येति वक्तव्यम्। सता च प्राप्तिर् इति प्रागेव अग्निमत्वज्ञानसद्भावाद् व्यर्थमनु-मानम् । एवं धूमवत्वज्ञानम् अग्निमत्वं ज्ञापयति प्राप्य अप्राप्य वा । द्वितीये अतिप्रसङ्गात् प्राप्य इति वक्तव्यम् । लिङ्गज्ञानस्य साध्यप्राप्तिश्च विषयविषयिभाव एव सम्भवति । तथा च धूमवत्वज्ञाने वह्निमत्वस्यापि स्फुरणाद् व्यर्थमनुमानमिति ।

प्रमाणलक्षणटीकाभावदीपः

उत्पत्तौ प्रदर्श्य ज्ञप्तावपि प्राप्तिसमप्रकारं दर्शयति ॥ एवं धूमवत्त्वज्ञानमिति ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

प्राप्य साध्यं साधयति हेतुश्चेत्प्राप्तिकर्मणः ।

साध्यस्य पूर्वं सिद्धिः स्यादिति प्राप्तिसमोदयः ॥

इतिकारिकानुसारेण प्राप्तिसमजातिं लक्षयति ॥ साधनस्येति ॥

कृतज्ञप्तिसाधारणीऽयं जातिर् इत्यभिप्रेत्य कृतौ तावद्विकल्पयति ॥ यथेति ॥ प्राप्य सम्बध्य ॥ अतिप्रसङ्गादिति ॥ काष्ठासम्बद्धस्याप्यग्नेर्दाहजनकत्व-प्रसङ्गादित्यतिप्रसङ्गाद् इत्यर्थः ।

॥ प्रागेवेति ॥ धुमवत्वज्ञानेऽग्निमत्वज्ञाननिरूपितसम्बन्धात् प्रागेवेत्यर्थः । ज्ञप्तौ विकल्पयति ॥ एवमिति ॥ अग्निमत्वमिति ॥ अग्निमतो भावो ऽग्निरेव तमित्यर्थः । धूमज्ञानमग्निंप्राप्य ज्ञापयति चेद् इति पद्धतिवचनात् ॥ अतिप्रसङ्गादिति ॥ प्रकाश्यासम्बद्धस्यापि दीपस्य प्रकाशकत्वप्रसङ्गादित्यतिप्रसङ्गादित्यर्थः ॥ विषयविषयिभाव इति ॥ लिङ्गज्ञानस्य साध्येन संयोगादिरूपायाः प्राप्तेरसम्भवाज् ज्ञानज्ञेययोर्विषयविषयिभाव एव सम्भावित इत्यर्थः ॥ स्फुरणादिति ॥ धूमज्ञानस्य यदा वह्निविषयकत्वं प्राप्तं तदा धूमज्ञाने धूमवद् वह्नरपि स्फुरणं जातमेवेत्यर्थः ।

प्रमाणलक्षणटीकाविवरणं

कृतिज्ञप्तिसाधारणमिदं जातिद्वयमित्यभिप्रेत्य विकल्पयति यथेत्यादिना ॥ द्वितीयेऽतिप्रसंगादिति ॥ अप्राप्योत्पादकत्वे काष्ठासंबद्धस्याग्नेः काष्ठदाहकत्वपत्तेरित्यतिप्रसंगादित्यर्थः ॥ अतिप्रसंगादिति ॥ अप्राप्यज्ञापकत्वे प्रकाशप्रप्यैव दीपः घटादिकं प्रकाशयेदित्यर्थः ।