पक्षाऽदीनां सिद्धानामपि तेनैव हेतुना साध्यत्वापादनं साध्यसमः
साध्यसमजातिः
प्रमाणलक्षणटीका
पक्षाऽदीनां सिद्धानामपि तेनैव हेतुना साध्यत्वापादनं साध्यसमः । यथा पर्वताऽदिसिद्ध्यर्थमपि धूमवत्वमेव प्रयोक्तव्यम् । अन्यथा क्रोडीकृतधर्म्यादिविषयस्य लिङ्गस्य तत्राप्रयोजकत्वे साध्येऽपि तथात्वाऽपातात् । दृष्टान्तेऽपि साध्यसिद्ध्यर्थमयमेव हेतुः प्रयोक्तव्यः । अन्यथा पक्षेऽपि अप्रयोजकत्वाऽपातात् । अन्यत्समानम् । तथा च तत्सिद्ध्यर्थ यावन् न प्रयुज्यते तावदाश्रयाऽसिद्ध्यादीति ॥
प्रमाणलक्षणटीकाभावदीपः
॥ पक्षादीनामिति ॥ धुर्मिसाधनदृष्टान्तव्याप्त्यादीनामित्यर्थः ॥ क्रोडीकृतेति ॥ समुदायीकृतधर्मिसाध्यसाधनादिविषयकस्य लिङ्गस्य इत्यर्थः ॥ अन्यथा पक्षेऽपीति ॥ वह्निमत्त्वसाधनेऽपीत्यर्थः ।
॥ अन्यदिति ॥ पक्षे दृष्टान्ते च साधनसिद्ध्यर्थमयमेव हेतुः प्रयोक्तव्यः ॥ अन्यथा पक्षेऽपि अप्रयोजकः स्याद् इति व्याप्तिसिद्ध्यर्थं दृष्टान्तमहानसादि-सिद्ध्यर्थम् इत्यादि एवमेव ज्ञेयमित्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
दृष्टान्तहेतुपक्षाणां सिद्धानामपि साध्यवत् ।
साध्यत्वापादनं तस्माल्लिङ्गात् साध्यसमो भवेद्
इतिकारिकाऽनुसारेण साध्यसमजातिं लक्षयति ॥ पक्षाऽदीनामिति ॥ आदिपदेन लिङ्गदृष्टान्तग्रहणम् ॥ सिद्धानामपीति ॥ प्रमाणान्तरेण सिद्धानामपीत्यर्थः ।
वर्ण्यसमव्यावृत्त्यर्थ तेनैव हेतुनेत्युक्तम् ॥ धूमवत्वमेवेति ॥ सिद्धस्यैव धर्म्यादेरनुमानाङ्गत्वात् प्रमाणान्तरात्तत्सिद्धेरनुचितत्वाद् इदमेव धूमवत्त्वं तत्सिद्ध्यर्थं प्रयोक्तव्यम् इति जातिवादिनोऽभिमान इत्यर्थः ।
॥ अन्यथेति ॥ पर्वताऽदिसिद्ध्यर्थमपि अस्यैव हेतोर् अप्रयोग इत्यर्थः ॥ क्रोडीकृतेति ॥ ‘तस्मात् पर्वतोऽग्निमान्’ इति विशेषणविशेष्यभावापन्नधर्मिलिङ्ग-लिङ्गिविषयकानुमितिजनकत्वस्वभावस्य लिङ्गस्य इत्यर्थः । लिङ्गोपहितलैङ्गिक-भानपक्षाभिप्रायेणेदं मन्तव्यम् ॥ तत्रेति ॥ धर्मिलिङ्गयोरित्यर्थः ।
॥ साध्येऽपीति ॥ पक्षे साध्यसिद्धावपि अप्रयोजकत्वापाताद् इत्यर्थः । तथा च लिङ्गधर्मिणौ अपोह्य साध्यमात्रप्रतीतेर् लिङ्गादजायमानत्त्वात् तेनैव हेतुना धर्म्यादेरपि साधनमावश्यकमिति भावः ॥ पक्षेऽपीति ॥ पक्षे साध्यसिद्धावपि ॥ अन्यत्समानमिति ॥ दृष्टान्तरूपधर्मिसिद्ध्यर्थमपि अयमेव हेतुः प्रयोक्तव्यः । अन्यथा तत्र अप्रयोजकस्य अन्यत्रापि अप्रयोजकत्वापाताद् इत्यर्थः ।
॥ तत्सिद्ध्यर्थमिति ॥ तेषां पक्षहेतुदृष्टान्तानां सिद्ध्यर्थमित्यर्थः ॥ न प्रयुज्यत इति ॥ अयमेव हेतुरिति शेषः ॥ तावदिति ॥ पक्षादीनामसिद्ध्येत्यर्थः । आश्रयासिद्ध्यादीत्यादिपदेन स्वरूपासिद्धिग्नहणम् ।
प्रमाणलक्षणटीकाविवरणम्
॥ अन्यत्समानमिति ॥ दृष्टान्तधर्मिण्ययमेव हेतुः प्रयोक्तव्यो ऽन्यथा तत्राप्रयोजकत्वे अन्यत्राप्यप्रयोजकत्वापातादित्यर्थः ।