०९ अवर्ण्यसमजातिः

सपक्षमात्रविवक्षितरूपवद्धेतुमत्वतदभावयोः पक्षस्य असाध्यत्वापादनमवर्ण्यसमः

अवर्ण्यसमजातिः

प्रमाणलक्षणटीका

सपक्षमात्रविवक्षितरूपवद्धेतुमत्वतदभावयोः पक्षस्य असाध्यत्वापादनमवर्ण्यसमः । सिद्धार्थत्वं प्रवृत्तसाध्य-ज्ञापनशक्तिमत्वाभावः व्याप्तिग्राहकप्रमाणवत्वं निश्चयसमान-विषयत्वं रूपभेदश्च इत्येतानि हेतोः सपक्षमात्रविवक्षितरूपाणि। तत्र सिद्धार्थं धूमवत्त्वं महानस इव पर्वते वर्तते न वा ? आद्ये साध्यस्य सिद्धत्वात् पक्षे न साध्यः स्यात् । द्वितीयेऽपि हेतोः स्वरूपासिद्धत्वेन असाध्यः स्याद् इति । एवं रूपान्तरेष्वपि द्रष्टव्यम् । अत्र सपक्षमात्रविवक्षितरूपवद्धेतुमत्तया पक्षस्य असिद्धिः कारणम् । स्वरूपासिद्ध्यादि आरोप्यम् । वर्ण्यसम-वदेव दुष्टत्वमूलमिति ॥ ५ ॥

प्रमाणलक्षणटीकाभावदीपः

॥ प्रवृत्तसाध्येति ॥ यत् साधयितुं प्रवृत्तं तादृशसाध्येत्यर्थः ॥ रूपभेदश्चेति ॥ पक्षीय हेतुस्वरूपापेक्षयेति योज्यम् ॥ स्वरूपासिद्धत्वेनासाध्यः स्यादिति ॥ पक्षोऽपीत्यनुकर्षः । साधकाभावादिति भावः ॥ कारणमिति ॥ एतज्जात्युत्तरोक्तेरिति योज्यम् ॥ वर्ण्यसमवदेवेति ॥ ‘नायं हेतुः साध्यसाधको ऽसिद्धत्वात् शब्दानित्यत्वसाधकचाक्षुषत्ववद् इत्युक्तजात्युत्तरेऽपि एवं विकल्पदूषणयोः सुवचत्वेन स्वव्यधाताऽदिकं जात्युत्तरस्य दुष्टत्वे मूलं ध्येयम् इत्यर्थः ॥ ५ ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

सपक्षवर्तिनो हेतोर्यादृग्रूपं विवक्षितम् ।

पक्षेऽपि तादृगेव स्यादन्यथाऽसिद्धिहेतुता ॥

सपक्षवत्तदा साध्ये इत्यवर्ण्यसमाकृतिर्

इति कारिकाऽनुसारेण अवर्ण्यसमजातिं लक्षयति ॥ सपक्षमात्रेति ॥ कानि तानि हेतोः सपक्षमात्रविवक्षितरूपाणि ? इत्यत आह ॥ सिद्धार्थत्वमित्यादि ॥ एतदर्थः पूर्ववैपरीत्येनावगन्तव्यः । यथा आहुः

…………. सपक्षे तु तादृग्रूपविपर्ययः । इति ।

उपलक्षणत्वेन एकं रूपं पुरस्कृत्योदाहरति ॥ तत्रेति ॥ न साध्यः स्यादिति ॥ साधयितुं योग्यं साध्यं तद्वान् न स्यात् सिद्धसाधनत्वादित्यर्थः ।

॥ असाध्यः स्यादिति ॥ साध्यवत्तया साधयितुमशक्यः स्यात् तत्साधकस्य हेतोः स्वरूपासिद्धत्वादित्यर्थः ॥ रूपान्तरेष्विति ॥ प्रकृतसाध्यज्ञापनशक्ति-त्वादिरूपान्तरेष्वित्यर्थः । कारणम् उत्थानबीजम् । स्वरूपासिद्ध्यादीत्यादिपदेन सिद्धसाधनत्वं ग्राह्यम् ।

॥ वर्ण्यसमवदिति ॥ दुष्टत्वमूलं व्याघाताऽदिकं वर्ण्यसमवदेव द्रष्टव्यमित्यर्थः । तथा हि ‘धूमवत्त्वाद् इति हेतुः साध्यासाधकः स्वरूपासिद्धत्वाच् चाक्षुषत्ववत्’ इत्यत्रापि सिद्धार्थं स्वरूपासिद्धत्वं सपक्षे चाक्षुषत्व इव पक्षभूते धूमवत्त्वहेतौ वर्तते न वा ? आद्ये साध्यस्य सिद्धत्वात् पक्षोऽपि न साध्यवत्तया साध्यः स्यात् । सिद्धसाधनताऽपत्तेः । द्वितीयेऽपि हेतोःस्वरूपासिद्धत्वेन असाध्यः स्याद् इति वक्तुं शक्यत्वाद् व्याघातः । सपक्षवर्तिहेतुरूपाणां पक्षवर्तिन्यपि हेतौ सञ्चरणाद् अविषयवृत्तित्वम् । पक्षवर्तिहेतोरयुक्तानामेव सिद्धार्थत्वाद्यङ्गाना-मङ्गीकारादयुक्ताङ्गाधिकत्वञ्चेति ॥ ५ ॥

प्रमाणलक्षणटीकाविवरणम्

अवर्ण्यसमलक्षणमाह सपक्षेति ॥ वर्ण्यसमवदेवेति ॥ अयमाशयः विमतो हेतुः सध्यासाधकः स्वरूपासिद्धत्वात् । सम्मतवदिति त्वदनुमानेऽपि दृष्टान्तीयसिद्धार्थत्वं पक्षे वर्तते चेत् सिद्धत्वान्न साध्यः स्यात् । दृष्टान्त इव पक्षे सत्वे स्वरूपासिद्धत्वादेवासाध्यं स्यात् । सपक्षवर्तिहेतुरूपाणां पक्षेऽपि संचरणादविषयवृत्तिहेतोरयुक्तानामेव सिद्धार्थत्वादीनामङ्गीकारात् । अयुक्ताङ्गाधिकत्वं चेति दुष्टत्वमूलं वर्ण्यसमवदेवेत्यर्थः ।