०८ वर्ण्यसमजातिः

पक्षमात्रविवक्षितरूपवद्धेतुमत्वतदभावयोः सपक्षस्यापि साध्यत्वाऽपादनं वर्ण्यसमः

वर्ण्यसमजातिः

प्रमाणलक्षणटीका

पक्षमात्रविवक्षितरूपवद्धेतुमत्वतदभावयोः सपक्षस्यापि साध्यत्वाऽपादनं वर्ण्यसमः ।

असिद्धार्थत्वम् आरब्धसाध्यज्ञापनशक्तिमत्वं व्याप्ति-ग्राहकप्रमाणशून्यत्वं संशयसमानविषयत्वं स्वरूपविशेष-श्चेत्येतानि हेतोः पक्षमाणविवक्षितरूपाणि । तत्रासिद्धार्थं पर्वत इव महानसे धूमवत्वं वर्तते न वा ।

आद्ये महानसोऽपि साध्यवत्वेन साध्यः स्यात् । अन्यथा साध्यवैकल्यापातात् । द्वितीये तद्रूपहेतुमत्या साध्यः स्यात् । अन्यथा साधनवैकल्यापातात् । एवं रूपान्तरेष्वपि द्रष्टव्यम्।

प्रमाणलक्षणटीकाभावदीपः

असिद्धार्थत्वमित्यादि बहुव्रीहिः । प्रमाणान्तरानवगतार्थकत्व-मित्यर्थः ॥ व्याप्तिग्राहकेति ॥ तत्सत्त्वे साध्यस्य सिद्धत्वप्राप्तेरिति भावः ॥ संशयसमानेति ॥ संशयविषयसमानविषयत्वं सन्दिग्धविषयकत्वमिति यावत् । धूमादिस्वरूपविशेषश्चेत्यर्थः । यद्वा शुक्लवर्णाभ्रंलिहत्वाऽदिस्वरूपविशेषश्चेत्यर्थः।

॥ एवं रूपान्तरेष्विति ॥ आरब्धज्ञापनशक्तिमद्धूमवत्वं महानसेऽस्ति चेत् साध्यवत्वेन महानसोऽपि साध्यः स्यात् । न चेत् साधनवत्तया साध्यः स्यादित्यादिरूपेणेति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

हेतोस्तु यादृशं रूपं पक्षमात्रे विवक्षितम् ।

तद्रूपहेतुमान् साध्यः सपक्षोऽप्यन्यथा पुनः ॥

भवेत्साधनवैकल्यमिति वर्ण्यसमोदयः ।

इतिकारिकाऽनुसारेण वर्ण्यसमजातेर्लक्षणमाह ॥ पक्षमात्रेति ॥ कानि तानि हेतोः पक्षमात्रविवक्षितानि रूपाणि ? इत्यत आह ॥ असिद्दार्थत्वमित्यादिना ॥ साध्यस्य प्रमाणान्तरानिश्चितत्वेन असिद्धार्थत्वम् एकं पक्षीयहेतो रूपं हेतुर्हि पक्षे साध्यज्ञापनाय प्रवृत्तशक्तिर्भवति इति आरब्धसाध्यज्ञापनशक्तित्वाख्यं द्वितीयम् पक्षीयसाध्यस्य पूर्वमज्ञातत्वेन तन्निरूपितव्याप्तेः पक्षीयहेतुवृत्तितया ज्ञातुमशक्यत्वाद् व्याप्तिग्राहकप्रमाणशून्यत्वाभिधं तृतीयं सन्दिग्धे न्यायप्रवत्तेः पक्षीयहेतोः संशयसमानविषयत्वाख्यं चतुर्थम् पक्षीयहेतुस्वरूपविशेषरूपं पञ्चममित्यर्थः । यथा आहुर्

असिद्धार्थत्वमारब्धसाध्यज्ञापनशक्तिता ।

व्याप्तिप्रमाणशून्यत्वं संशयैकार्थता तथा ॥

स्वरूपभेदश्चेत्येतत्पक्षमात्रे विवक्षितम् ।

हेतुरूपम् ……………………. । इति ।

एवं च पक्षमात्रे हेतोर्विवक्षितानि यानि असिद्धार्थत्वाऽदीनि रूपाणि तद्वान् यः हेतुस् तद्वत्त्वतदभावयोः सकाशात् । तद्वत्त्वतदभावाभ्याम् इति यावत् । सपक्षस्यापि साध्यसाधनवत्तया साध्यत्वाऽपादनं वर्ण्यसम इत्यर्थः ।

उपलक्षणत्वेन एकं रूपं पुरस्कृत्योदाहरति ॥ तत्रेति ॥ असिद्धार्थम् असिद्धार्थत्वाऽख्यरूपोपेतं धूमवत्त्वम् इत्यन्वयः ॥ साध्यः स्यादिति ॥ पर्वत इव धूमवत्वेन हेतुनेत्यर्थः । अन्यथा साध्यत्वेनासाधने ॥ तद्रूपहेतुमत्तयेति ॥ असिद्धार्थत्वाऽख्यरूपवद्धेतुमत्तयेत्यर्थः । अन्यथा हेतुमत्तयाऽसाधने ॥ एवमिति ॥ आरब्धसाध्यज्ञापनशक्तित्वरूपोपेतं धूमवत्त्वं पर्वत इव महानसे वर्तते न वा इत्यादिरूपेणेत्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

॥ वर्ण्यसमं लक्षयति ॥ पक्षमात्रेति ॥ कानि तानि हेतोः पक्षमात्रविवक्षितानि रूपाणीत्यत आह ॥ असिद्धार्थत्वमिति ॥ हेतोरर्थः साध्यधर्मः स हि पक्षे असिद्धो भवति । अन्यथा सिद्धसाध्यत्वापातात् सपक्षे तु सिद्ध इतरथा साध्यवैकल्यप्रसंगात् । पक्षे साध्यज्ञापनाय प्रवृत्तशक्तिर् हेतुर् न तथान्यत्रापूर्वमेव तत्र मानान्तरेण साध्यसिद्धेः । पक्षे संशयसमानविषयो हेतुः । संदिग्धे न्यायप्रवृत्तेः । अन्यत्र न तथा साध्यधर्मनिश्चयात् । पक्षे व्याप्तिग्राहकमानशून्यो हेतुस् तत्र साध्यस्य प्रमाणान्तरभावाद् इतरत्र मानान्तरात् । साध्यहेत्वोर्व्याप्तिर्गृह्यते पक्षे धूमादिविशेषं कश्चित् प्रतिज्जातीयोऽन्यो विशेष इत्येतानि हेतुरूपाणि पक्षसपक्षयोर्व्यवस्थया व्यवस्थानीति ज्ञेयम् ।

नन्वसिद्धार्थवमात्रोक्तौ संशयसमानविषयत्वलाभात् सिध्यभावेऽपि संशयविषयत्वस्यावश्यकत्वादिति चेन्न । सिद्धिर्यस्यार्थस्य नास्ति संशयो वा नास्ति तत्र असिद्धार्थत्वादनुमित्यापत्तेः । अत उत्तरपदं न च तत्र व्याप्त्याद्यंगं भवति न वा आद्येऽनुमितिर् भवत्येव । द्वितीये कारणान्तराभावेनैव तदभावेनैव तदभावोपपत्तौ रूपवत्वेन कल्पनीयमिति वाच्यम् । व्याप्त्यादिसद्भवेऽपि सन्देहाभावेऽनु-मित्यसंभवात् संदिग्धस्यैवार्थस्यानुमेयत्वात् ।

यत्तु तावन्मात्रोक्तौ विरुद्धेऽतिव्याप्तिस् तत्परिहारायोत्तरमित्याह । तन्न तत्रासिद्धार्थत्वेऽपि दोषाभावात् । अन्यथा व्याप्त्यादिकमपि न स्यात् । न चैवं तस्यानमिुतिप्रमाजन कत्वापत्तिः । रूपान्तराभावादेव तदभावोपपत्तेर् अन्यथा दंडमात्रस्य सत्वेऽपि घटाभावाद् दंडस्यापि जनकत्वं न स्यात् । असिद्धत्वमिति । अत्रासिद्धार्थत्वं नारिकेलद्वीपवासिनो सिद्धार्थधूमज्ञानसद्भावादनुमितिः स्यात् । तस्य हेतोरर्थः साध्यो वन्हिस्तस्यासिद्धत्वात् । अतः संशयसमानविपर्ययत्वमिति संदिग्धविषयत्वमिति यावत् ।

संदिग्धविषयधूमज्ञानमेव तद्धेतुः । तत्र च साध्यविपर्ययत्वेन तत्संदेहा-भावात्तर्हि तावन्मात्रेणालं किमसिद्धार्थत्वग्रहणेनेति चेद् यत्र सिषाधयिषा अनुमिति-स्तत्र संदिग्धविषयत्वं हेतोर्नास्ति साध्यवन्हेः सिद्धत्वात् तथा च तत्र विवक्षित-हेत्वभावात् हेतुत्वं न स्यात् तत्परिहारार्थम् असिद्धार्थत्वमित्युक्तत्वात् । न च पुनर्दोषः । असिद्धार्थभावादिति असिद्धार्थपदेन सिषाधयिषाविरहसहकृतसिध्यभावस्य विवक्षितत्वात् । सिषाधयिषा च यत्रानुमितिस्तत्र सिषाधयिषाया एव सत्वात् सिषाधयिषाविरहसहकृतसिद्धेरभावाद् असिद्धार्थत्वं तिष्ठतीति न दोषः। अत्र यद्यपि असिद्धार्थत्वं न संशयसमानविषयत्वेन गतार्थम् असिद्धार्थत्वस्य सर्वत्र सत्वात् । तथाऽपि संशयसमानविषयत्वमात्रेण सिद्धार्थत्वं गतार्थत्वम् इति न पृथक् ग्राह्यत्वमिति चेत् । यत्र सिषाधयिषाऽनुमानं प्रवर्तते तत्र संशयसमानविषयत्वं नास्ति ॥ अतो सिद्धार्थत्वमुक्तम् ॥ न च तत्राप्यसिद्धार्थत्वाभावः वन्हिमात्रस्य सिद्धत्वेऽपि अनुमित्या जन्यस्य तस्य सिद्धत्वान् न च पञ्चानामेवात्रासंभवः क्वचित् क्वचिदित्य-ङ्गीकारादिति ।