वादिसाधनसामर्थ्येन साध्यस्यैव व्याप्तिं विना ..
उत्कर्षसमजातिः
प्रमाणलक्षणटीका
वादिसाधनसामर्थ्येन साध्यस्यैव व्याप्तिं विना कस्यचिद-निष्टधर्मस्य दृष्टान्तात् पक्षे उत्कर्ष उत्कर्षसमः । यथा ‘यदि धूमवत्वान् महानसवद् अग्निमान् पर्वतस् तर्हि तत एव स्थाल्या-दिमानपि स्यात् । अविशेषादिति ।
अत्र साधनसाहचर्यदर्शनमुत्थानबीजम् । विशेष-विरुद्धत्वमारोप्यम् । व्याप्त्यभावाद् युक्ताङ्गहानिः । तदनङ्गीकारे ‘नेदं साधकं विशेषविरुद्धत्वान् नित्यत्वसाधककृतकत्वत्’ इति प्रतिषेधहेतावपि नित्यत्वसाधककृतकत्ववत् तत एव हेतोर्धूम-वत्वस्यामूर्तवृत्तित्वं च स्यादित्युत्कर्शसाम्याद् व्याघात इति ॥ २ ॥
प्रमाणलक्षणटीकाभावदीपः
सामर्थ्येन पक्षधर्मत्वरूपेणेत्यर्थः ॥ प्रतिषेधहेतावपीति ॥ जाति-वादिनोक्तदूषणहेतावपीत्यर्थः ॥ २ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
कस्याप्यनिष्टधर्मस्य वादिसाधनशक्तितः ।
दृष्टान्तात्पक्ष उत्कर्ष उत्कर्षसम उच्यते ॥
इतिकारिकानुसारेण उत्कर्षसमजातिं लक्षयति ॥ वादिसाधनेति ॥ अविशेषसमव्यवच्छेदाय वादिसाधन सामर्थ्येनेत्युक्तम् । तत्र हेत्वन्तरेणोत्कर्षं वक्षयति । सदुत्तरव्यावृत्त्यै व्याप्तिं विनेति । शिष्टं स्वरूपकथनमिति ज्ञेयम् । तत एव धूमवत्वा-देव । तद्वदेव इति शेषः । स्थाल्यादीति आदिपदेन व्यञ्जनवत्त्वग्रहणम् । अविशेषाद् धूमवत्वाविशेषात् ।
दर्शनं स्थाल्यादिमत्त्वस्येति शेषः ॥ विशेषविरुद्धत्वमिति ॥ हेतोः पक्ष-धर्मताबललभ्यं यत् पक्षीयं साध्यं तद् विशेषशब्देनोच्यते । यथा ‘क्षित्यादिकं सकर्तृकम्’ इत्यत्र कार्यत्वहेतोः पक्षधर्मताबललभ्यं सर्वज्ञकर्तृकत्वमिव धूमवत्त्वहेतोः पक्षधर्मताबललभ्यं यत् पक्षीयसाध्यं पर्वतीयवह्निरूपं तेन विरुद्धत्वं तदभावेना तददर्शनात् प्रत्युत तदभावेनैव सहचारदर्शनाद् विरुद्धत्वम् इति सम्प्रदायः ।
॥ तदनङ्गीकार इत्यादि ॥ अयं भावः, ‘धूमवत्वाद् इति हेतुः साध्यसाधको न विरुद्धत्वात् शब्दे नित्यत्वसाधककृतकत्ववत्’ इति जातिवादिप्रत्युक्ते प्रतिषेध-हेतावपि विरुद्धत्वं कृतकत्वे यथा साध्यासाधकत्वेन सह दृष्टम् एवममूर्तवृत्तित्वेनापि सहचरितं दृष्टं शब्दस्यामूर्तत्वेन कृतकत्वस्य तद्वृत्तित्वात् । तथा च तद्वदेव धूमवत्त्वेऽप्यमूर्तवृत्तित्वं साधयेद् विरुद्धत्वाविशेषात् । धूमवत्वे च अमूर्तवृत्तित्व-मनिष्टं पर्वतस्य मूर्तत्वेन धूमवत्त्वस्य तद्वृत्तित्वात् । तथा च धूमवत्त्वाद् अमूर्तवृत्ति विरुद्धत्वान् नित्यत्वसाधककृतकत्ववदिति । न चात्र व्याप्त्यभावः । तदनङ्गीकाराद् इति स्वन्यायविरोध इति ॥ २ ॥
प्रमाणलक्षणटीकाविवरणम्
॥ विशेषविरुद्धत्वमिति ॥ हेतोः पक्षधर्मतालंबलभ्यं यत्पक्षीयं साध्यं तद्विषशब्देनोच्यते । यथा क्षित्यादिकं सकर्तृकमित्यत्र कार्यत्वहेतोः पक्षधर्मताबललभ्यं सर्वज्ञकर्तृत्वमिव धूमवत्वहेतोः पक्षधर्मताबललभ्यं यत्पक्षीयं साध्यं पर्वतीयवन्हिरूपं तेन विरुद्धत्वं तदभावेन व्याप्तत्वमारोप्यमित्यर्थः ॥ तथाहि ॥ धूमवत्वस्य महानसे स्थाल्यादिमत्वेन साहचर्यदर्शनेन पर्वतीयवन्हिना तददर्शनात् प्रत्युत तदभावेन साहचर्यदर्शनाद्विरुद्धत्वमिति संप्रदायः ॥ व्याप्तीति ॥ धूमवत्वस्य स्थाल्यादिमत्वेन व्याप्त्यभावादिति ॥ प्रतिषेधहेतावपीति ॥ धूमवत्वम् अमूर्त-वृत्तिविरुद्धत्वानित्यत्व-साधककृतकत्ववत् कृतकत्वं हि यथा साध्यासधकत्वेन व्यप्य एव मूर्तावृत्तित्वेनापि सहचरितं शब्दस्य मूर्तत्वाद् एवं धूमवत्वस्या-प्यमूर्तवृत्तित्वं स्यात् । न च व्याप्याद्यभावः। तस्यानङ्गीकारात् । अङ्गीकारे वा विरुद्धात्वात् ॥ तत एवेति ॥ विशेषविरुद्धत्वादेवेत्यर्थः ॥ २ ॥