तदनेन प्रतिज्ञासंन्यासविरोधापसिद्धान्तानां निरनुयोज्यानुयोगे च जातेर् विरोध एवान्तर्भावः
प्रतिज्ञासंन्यासादीनां प्रमाणविरोधादिष्वन्तर्भावः
प्रमाणलक्षणटीका
तदनेन प्रतिज्ञासंन्यासविरोधापसिद्धान्तानां निरनुयोज्यानुयोगे च जातेर् विरोध एवान्तर्भावः सूचितो भवति । संन्यासस्य मानसिद्धापलापरूपत्वात् । प्रतिज्ञाविरोधस्य एकवाक्यगतपदाऽदिविरोधरूपत्वात् । अपसिद्धान्तस्य साक्षाद् ग्रहणात् । परोक्तजातेः प्रतिषेधाऽत्मकतृतीयजातिरूपत्वादिति ।
प्रमाणलक्षणटीकाभावदीपः
॥ तदनेनेति ॥ विरोधविभागकथनादिनेत्यर्थः ॥ विरोधेति ॥ प्रतिज्ञाविरोधेत्यर्थः । क्रमेणान्तर्गतिं व्यनक्ति ॥ सन्न्यासस्येति ॥ प्रतिज्ञासंन्यास-स्येत्यर्थः । अयं प्रमाणविरोधेऽन्तर्भवतीति भावः ॥ साक्षादिति ॥ स्ववाक्यविरोधो-ऽपसिद्धान्तजातिरूपेण इत्युक्तेरित्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
॥ तदनेनेति ॥ विरोधविभागकथनादिनेत्यर्थः ॥ विरोधेति ॥ प्रतिज्ञाविरोधेत्यर्थः ॥ निरनुयोज्यानुयोगे च जातेरिति ॥ छलं जातिर् हान्याद्याभासो ऽप्राप्तकाले ग्रहणं च इति निरनुयोज्यानुयोगस्य चतुर्विधत्वान् निरनुयोज्यानुयोगे विद्यमानायास् तत्प्रभेदरूपाया इति यावत्
॥ विरोध एवेति ॥ मानविरोधस्ववाक्यविरोधरूपद्विविधविरोध एवेत्यर्थः। तत्र प्रतिज्ञासंन्यासस्य मानविरोधेऽन्तर्भाव इत्याह ॥ संन्यासस्येति ॥ उक्तेः प्रमितत्वादिति भावः ।
प्रतिज्ञाविरोधस्य स्ववचनविरोधेऽन्तर्भाव इत्याह ॥ प्रतिज्ञाविरोधस्येति ॥ साक्षाद् ग्रहणादिति ॥ स्ववाक्यविरोधोऽपसिद्धान्तजातिरूपेण इति स्ववाक्यविरोधप्रभेदत्वेन कण्ठत एव ग्रहणादित्यर्थः ।
जातेस्तु स्वन्यायविरोधे अन्तर्भाव इत्याह ॥ परोक्तजातेरिति ॥ आद्यकक्षो-द्भाव्ये स्थापनानुमाने गते स्वन्यायविरोधे द्वितीयाद्युत्तरकक्षाभाविपरोक्तजातेर् अन्तर्भावासम्भवाद् उक्तं प्रतिषेधात्मकतृतीयजातीति । परनिराकरणोत्तरा-त्मकतृतीयजातीर्त्यथः । तथा च परनिराकरणरूपोत्तरे प्राप्यमाणा या स्वन्याय-विरोधात्मकतृतीयजातिस् तद्रूपत्वाद् इति योज्यम् । अत एव दूषणासमर्थमुत्तरं जातिर् इति वक्ष्यति । अथ वा परप्रतिषेधरूपस्वन्यायविरोधात्मकास्मदुक्त-तृतीयजातिमदुत्तररूपत्वादित्यर्थः । परप्रतिषेधरूपत्वम् उतरस्य विशेषणम् । एवं च न स्थापनानुमाने प्राप्यमाणस्वन्यायविरोधे जातेरन्तर्भावः । किं नाम ? प्रथमं वादिना स्थापनाहेतौ प्रयुक्ते सति दूषणाशक्तं प्रतिवाद्यदीरितं यद् उत्तरं द्वितीयाऽदिकक्षाभावि, तत्र प्राप्तो यः स्वन्यायविरोधस् तत्र परोक्तजातेरन्तर्भाव इति नान्तर्भावासम्भव इति भावः ।
प्रमाणलक्षणटीकाविवरणम्
॥ संन्यासस्येति ॥ उक्तः प्रमितत्वादिति भावः । प्रतिषेधात्मकेति विरोधात्मकेत्यर्थः ।