०२ स्वन्यायविरोधजातेः प्रमाणविरोधेप्यन्तर्भावः

न केवलमियं जातिः स्ववाक्यविरोधान्तर्गता

स्वन्यायविरोधजातेः प्रमाणविरोधेप्यन्तर्भावः

प्रमाणलक्षणटीका

न केवलमियं जातिः स्ववाक्यविरोधान्तर्गता । किं तु ? मानविरोधेऽपि इत्याह

प्रमाणलक्षणम्

***मानविरोधश्च ***

‘विप्रतिपन्नं प्रमेयं प्रमाणसापेक्षं प्रमेयत्वान् मेये मानापेक्षा नास्तीतित्येतन्मेयवत्’ इत्यनुमानसम्भवात् प्रमाणविरोधे चेयं जातिरन्तर्भवतीति पूर्वावृत्त्या योजनीयम् ।

प्रमाणलक्षणटीकाभावदीपः

वाक्यं पूरयति तेनैव न्यायेन सिद्धत्वादिति । जातिरित्यादि-वाक्यद्वयम् एकवाक्यतया योजयति ॥ यथेत्यादिना ॥ विप्रतिपन्नमेयेऽपीति ॥ यन् मेयं मानसापेक्षं न इत्युच्यते तत्प्रमेयेऽपीत्यर्थः । ॥ पूर्वावृत्येति ॥ दृष्टान्तत्वेन मेयेति वाक्याऽवृत्या इत्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

तृतीयायाः स्वन्यायविरोधरूपतृतीयजातेः ॥ अन्यथेति ॥ मानानपेक्षत्व इत्यर्थः ॥ तत्प्रतिज्ञेति ॥ मेेयस्य मानानपेक्षत्वप्रतिज्ञेत्यर्थः । तत्र हेत्वादिप्रमाणानभिधाने प्रतिज्ञामात्रस्य विवक्षितार्थासाधकत्वेन वैयर्थ्यापातादिति भावः ।

॥ तन्न्यायेनेति ॥ ‘मेये मानापेक्षा नास्ति’ इत्येतदृष्टान्तेनेत्यर्थः ॥ साधयितुमिति ॥ ‘विप्रतिपन्नं किंचित्प्रमेयं प्रमाणसापेक्षं प्रमेयत्वान् मेये मानापेक्षा नास्ति इत्येतन्मेयवत्’ इति साधयितुं शक्यत्वादित्यर्थः ।

इयं जातिः स्वन्यायविरोधरूपा तृतीयजातिः ॥ पूर्वावृत्त्येति ॥ पूर्वस्य जातिर्न मेये मानपेक्षा इत्यस्य । इयम् इत्यध्याहार्यम् । तथा च न मेये मानापेक्षास्ति इत्येवं स्वन्यायविरोधरूपेयं जातिर् मानविरोधश्च इति पूर्वावृत्त्या योज्यमित्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

प्रतिबन्धात्मकतृतीयजातौ परोक्तजातीनामन्तर्भावं वक्तुं जातेर्विभागमाह ॥ त्रिविधेति ॥ पूर्ववृत्येति ॥ द्रव्यं जातिरित्यस्यावृत्येत्यर्थः । निरनुयोज्यानुयोगे च या जातिस्तस्या इत्यर्थः ।