१३ अपसिद्धान्तजात्योः स्ववाक्यविरोधेऽन्तर्भावः

स्ववाक्यविरोधोऽपसिद्धान्तजातिरूपेण

अपसिद्धान्तजात्योः स्ववाक्यविरोधेऽन्तर्भावः

प्रमाणलक्षणटीका

स्ववाक्यविरोधं विभज्य दर्शयति

प्रमाणलक्षणम्

***स्ववाक्यविरोधोऽपसिद्धान्तजातिरूपेण ***

द्विविध इति शेषः । पूर्वाचार्यवचनस्यापि स्वाभ्युपगत-त्वेन स्ववाक्यत्वाद् अपसिद्धान्तः स्ववाक्यविरोधो भवति ।

प्रमाणलक्षणटीकाभावदीपः

॥ इत्युक्तमिति ॥ संवादानुक्तियुतास्त एव निग्रहा इत्यनेनेति भावः ॥ समयबन्धादीति ॥ प्रश्नप्रतिवचनपक्षपरिग्रहाऽदीनि यानि कथायां सर्वाणि रूपाणि तत्साधारण इत्यर्थः ॥ असाधारणश्चेति ॥ असाधारणोऽनु-मानमात्रनिष्ठ इत्यर्थः ॥ प्रमाणेनेति ॥ विरोधपदमाकृष्यते ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

मूलोक्तोऽयं विरोधविभागो न सामान्यविभागः किं तु ? विशेषविभाग एव इत्याशयेन स्वयं विरोधसामान्यविभागमाह ॥ द्विविधो विरोध इति ॥ समयबन्धादि इत्यत्र आदिपदेन प्रश्नस्वपक्षसाधनपरपक्षनिराकरणग्रहणम् । रूपवत्याम् अङ्गवत्याम् ॥ सर्वरूपसाधारण इति ॥ समयबन्धादिसर्वकथारूपानु-मानोभयसाधारण इत्यर्थः । असाधारणोऽनुमानमात्रनिष्ठः ॥ स्ववाक्यविरोधमिति ॥ मानविरोधनिरूपणस्य बहुत्वात् सूचीकटाहन्यायेन तद् उल्लङ्घ्य पश्चाद् उद्दिष्टं स्ववाक्यविरोधं विभज्य दर्शयतीत्यर्थः ।

ननु कथम् अपसिद्धान्तस्य स्ववाक्यविरोधप्रभेदत्वं ? पूर्वाचार्यैः प्रामाणिकतया अभ्युपगतार्थविरुद्धाङ्गीकारस्यैव अपसिद्धान्तत्वाद् इत्यत आह ॥ पूर्वाचार्येति॥

प्रमाणलक्षणटीकाविवरणम्

अपूर्णत्वाच्छेषंत्वपूरयति द्विविध इति । ननु विरोधो मानस्ववाक्या-भ्यामिति सामान्यत उक्तत्वात् ॥ विरोधमात्रस्य द्वैविध्यं प्रतीयते ॥ तदयुक्तं समयबन्धादिकथारूपेषु मानविरोधाभावादित्यत आह द्विविधो विरोध इति ।

ननु प्रमाणविरोधस्यासाधारणविरोधविभागत्वे समयबंधादौ प्रमाण-विरोधादिप्रपंचः स्वयमेवोदाहर्तव्य इत्युत्तरग्रन्थविरोधः स्यादिति चेन्न । समय-बंधादौ प्रतिज्ञाविरोधैकदेशसद्भावाभिप्रायेणोत्तरग्रन्थस्य प्रवृत्तत्वात् । अत्र तु समयबंधादौ प्रतिज्ञाविरोधमात्रसद्भावेऽपि हेतुदृष्टान्तविरोधाभवेन त्रिविधस्यापि विरोधस्यान्तर्भावाभिप्रायेणास्यासासाधरणविरोधविभागत्वेनोच्यमानत्वात् । अत एवात्र सर्वरूपसाधारणो साधारणश्चेति असाधारणशब्देन सर्वरूपसाधारण्य-भावमात्रमभिप्रेतं न तु पद्धतिवदनुमानमात्रनिष्ठत्वम् । अत एव विरोधत्रैविध्यकथना-वसरे प्रतिज्ञाहेतुदृष्टान्तविरोधमुक्त्वा आद्यः साधारणो ऽन्त्यावसाधारणावित्युक्तम् । अत एव चादिपदेन समयबंधादावपि इयमेव जातिरुदाहर्तव्येति सूच्यतीत्युत्तरग्रन्थविरोधोऽप्यपास्तः । समयबंधादौ सर्वप्रमाणविरोधस्याभावेऽपि प्रतिज्ञाविरोधसत्वादिति । यद्वा प्रमेयस्य प्रमाणानपेक्षत्वं साधनीयमित्येकस्मिन् कथारूपे जातिसत्वेऽपि सर्वभूतेष्वभावादसाधारणविरोधविभागत्वं समयबंधादावुदाहरणं वाऽविरुद्धमिति ।

कश्चिदाह । मानस्ववाक्याभ्यां विरोधो द्विविध इत्यसङ्गतम् । साधारणासाधारणभेदेन पुनर्विधाद्वयस्य सत्वादित्यत आह द्विविधो विरोध इति । तन्न विभक्तविभागांन्तरसत्वेऽपि प्रकृतद्वैविध्ये सङ्गत्यभावात् । अन्यथा केवलस्याऽपि साक्ष्याद्यवान्तरसाप्तविध्यसत्वात् । ईशादिसत्वेन भेदेन चातुर्विध्य-कथनमसङ्गतं स्यात् । अनुमाने स्वार्थपरार्थभेदेन कार्यकारणाकार्यकारणा-नुमानाभेदेन केवलान्वय्यादिभेदेन दृष्टं सामान्यतो दृष्टमिति विभागोऽप्यसङ्गत इति सर्वविभागोच्छेदः स्यात् । तावता विरोधपरिहाराच्चेति । तस्माद्यत्किञ्चिदेतत्।

॥ असाधारण इति ॥ अनुमानमात्रनिष्ठ इत्यर्थः । प्रमाणविरोधप्रपंचस्य बहुत्वात् सूचीकटाहन्यायेन प्रथममुद्दिष्टानुमानविरोधम्प्रपंच्यैवानन्तरोक्तं स्ववाक्यविरोधं विभज्य दर्शयतीत्याह ॥ स्वेति ॥