विरोधो मानस्ववाक्याभ्याम्
विरोधविभागः
प्रमाणलक्षणटीका
विरोधाऽदिषु सर्वनिग्रहस्थानानामन्तर्भाव इत्युक्तम् । तत्प्रदर्शनार्थं विरोधे तावद्विषयं विवेचयति ।
प्रमाणलक्षणम्
***विरोधो मानस्ववाक्याभ्याम् ***
द्विविध इति शेषः । विरोधो द्विविधः । समयबन्धाऽदि-रूपवत्यां कथायां सर्वरूपसाधारणोऽसाधारणश्चेति । तत्र असाधारणः प्रमाणेन स्ववाक्येन चेति द्विविधो भवति ।