११ तर्काप्रामाण्यशङ्कापरिहारौ

एतेनैव ‘तर्को न प्रमाणं किं तु ? प्रमाणानामनुग्राहकः

तर्काप्रामाण्यशङ्कापरिहारौ

प्रमाणलक्षणटीका

एतेनैव ‘तर्को न प्रमाणं किं तु ? प्रमाणानामनुग्राहकः। प्रमाणविषयविपर्ययशङ्काव्यवच्छेदस्तदनुग्रहः’ इत्येतदपास्तम्। तस्याप्यनुमानवद् यथार्थत्वानुभवाद् अहानेश्च इति ।

प्रमाणलक्षणटीकाभावदीपः

॥ तर्क इति ॥ व्याप्याङ्गीकारे अनिष्टव्यापकप्रसञ्जनरूपतर्क इत्यर्थः ॥ प्रमाणविषयविपर्ययेति ॥ ‘सधूमोऽपि पर्वतो निरग्निकोऽस्तु’ इत्येवंरूपशङ्का ‘अग्न्यभावाङ्गीकारे प्रतीतधूमस्याभावोऽपि अङ्गीकर्तव्यः स्यात्’ इत्यनिष्टप्रसञ्जनेन व्यवच्छिद्यते इति स एवानुग्रह इत्यर्थः । अनुमानवद् धूमज्ञानजन्यवह्निज्ञानस्येव विपर्यये पर्यवसानेन ‘तस्मान् न निरग्निकः’ इत्युत्पन्नज्ञानस्यापि यथार्थत्वानुभवाद् इत्यर्थः ।

यद्वा व्याप्तिलिङ्गपरामर्शस्येव अनिष्टप्रसञ्जनमुखेन हेतोरन्यथोपपन्नत्वशङ्का-व्यवच्छेदद्वारा अन्यथानुपपन्नत्वरूपव्याप्यत्वबुद्धेर् यथार्थत्वानुभवाद् इत्यर्थः । अथ वा आपाद्यधूमाङ्गीकारस्य प्रमितेर्यथार्थत्वानुभवाद् इत्यर्थः ।

यद्वा तर्कताण्डवोक्तरीत्या साध्याभावेन साधनाभावस्य व्यापकत्वप्रमा तर्क्यते अनेन इति करणव्युत्पत्त्यातर्कः । तज्जन्या साधनस्य साध्येन सह व्याप्त्यनुमितिस्तु तर्कणम् इति भावव्युत्पत्त्या तर्कस् तयोरपि प्रमित्योः परामर्शानुमित्योरिव यथार्थत्वानुभवाद् इत्यर्थः । ‘व्याप्यारोपेण व्यापकारोपस्तर्कः’ इति त्वयुक्तम् । बाष्पे धुमभ्रमजन्यभ्रमरूपानुमितावतिव्याप्तेरिति भावः । तर्कस्य प्रामाण्याङ्गीकारे अनिष्टाभावाच्च इत्याह ॥ अहानेश्चेति ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ एतेनेति ॥ मूलवाक्यद्वयेनेत्यर्थः । किं तु ? इत्यनन्तरं स्वयमप्रमाणमेव इति शेषः । कोऽयमनुग्रहः ? इत्यत आह ॥ प्रमाणेति ॥ यथा आहुः,

प्रत्यक्षादेः प्रमाणस्य तर्कोऽनुग्राहको भवेत् ।

पक्षे विपक्षजिज्ञासाऽवच्छेदस्तदनुग्रहः ॥ इति ।

एतेन इत्युक्तं विशदयति ॥ तस्यापीति ॥ अनुमानवदिति ॥ यथा साधनानुमाने न व्यापितिमात्रं नापि पक्षधर्मतामात्रं साध्यप्रमितिसाधनं किं तु ? मिलितमेव , एरम् अनिष्टापादनं विपर्यये पर्यवसानं च उभयं मिलितमेव अनुमितिसाधनं भवतीति तर्कस्य प्रामाण्यमुपपद्यत इत्यर्थः ।

न च विपर्ययपरतन्त्रत्वात् तर्कस्याप्रामाण्यम् इति वाच्यम् । तथात्वे अनुमानस्यापि व्याप्त्यादिपरतन्त्रत्वेन अप्रामाण्यापत्तेरिति द्रष्टव्यम् ।

ननु ‘सोऽयं क्वचिद् विपरीतशङ्कानिरसनद्वारेण प्रमाणान्तरानुग्राहकोऽपि भवति इति पद्धतौ प्रमाणविषयविपर्यासशङ्कानिरासकत्वरूपस्य प्रमाणानुग्राहकत्वस्याङ्गीकृतत्वाद् अत्र पुनस् तद्दूषणाद् विरोध इति चेत्, उच्यते अत्र स्वयम् अप्रमाणस्यैव प्रमाणानुग्राहकत्वं यत् परैरुक्तं तदेव दूषितम् । पद्धतौ तु स्वयं प्रमाणभूत एव तर्को न केवलमुक्तरीत्या साधनानुमानवत् स्वातन्त्र्येणानुमापकः, किं तु ? क्वचित् प्रमाणानुग्राहकोऽपि भवति’ इत्यर्थोऽभिप्रेतः। अत एव अपिशब्दः । स्वयं प्रमाणभूतस्यापि प्रमाणान्तरानुग्राहकत्वं च प्रत्यक्षस्य एनुमानं प्रतीवोपपद्यते । लिङ्गव्याप्त्यादिग्राहकतया प्रत्यक्षस्यापि अनुग्राहकत्व-दर्शनात् । अतो न विरोधः ।

ननु सिद्धान्ते क्वचिद् अनुग्राहकत्वम् अङ्गीकृतम् । तत्प्रकारः कथम् ? इति चेद् उच्यते, अनुमानस्थले तर्कनिवर्त्याशङ्का द्विविधा । एका लिङ्गपरामर्शात् पूर्वं ‘धूमवानपि कश्चिन् निरग्निकः किं न स्यात्’ इति व्यभिचारशङ्का । अपरा परामर्शोत्पत्त्यनन्तरं प्रतिप्रमाणोपलम्भेन ‘धूमवानपि पर्वतो निरग्निकः किं न स्यात्’ इति बाधसत्प्रतिपक्षशङ्का । ततश्च एतन्निवर्तकतर्कसाध्यानुग्रहोऽपि द्विविधः । आद्यो व्यभिचारशङ्कारूपविपरीतशङ्कानिरसनद्वारेण व्याप्तिप्रमाफलकतया लिङ्गपरामर्शरूपप्रमाणनिष्पादनरूपः । द्वितीयस्तु निष्पन्ने लिङ्गपरामर्शे प्रति-प्रमाणशङ्कारूपविपरीतशङ्काविधूननद्वारेण वह्यनुमितिरूपकेवलप्रमाणनिष्पादन-रूपः । ततश्च अनुमाने अयमुभयविधोऽप्यनुग्रहस् तर्कसाध्योऽत्र विवक्षितः। एवं प्रत्यक्षादावपि तर्कसाध्यानुग्रहप्रकारो द्रष्टव्य इत्यादिकमस्मदाचार्याराधित-पूज्यपादैर्वेदेशस्वामिभिः कृतायां पद्धतिटीकायां द्रष्टव्यम् ॥ अहानेश्चेतीति ॥ तर्कस्य प्रामाण्याङ्गीकारे अनिष्टाभावाच्च इत्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

॥ एतेनेति ॥ ननु तर्कस्य प्रमाणानामनुग्राहकत्वदूषणमसङ्गतम् । पद्धतौ तस्य प्रमाणानुग्राहकत्वस्योक्तत्वात् ॥ तयोर्विरोध इति चेत् ॥ पद्धतौ स्वतः प्रामाण्यमङ्गीकृत्य प्रमाणानुग्राहकत्वस्याप्यङ्गीकारात् ।

अत एव तत्र अनुग्राहकोऽपि भवतीत्यपिशब्दः प्रयुक्तः । अत्र पुनः स्वतःप्रमाणत्वमनङ्गीकृत्य प्रमाणानामनुग्राहकत्वमात्रस्य दूष्यमाणत्वात् ।अत एव न प्रमाणं किंतु अनुग्राहक एवेत्यवधारणम् अतो न विरोधो ऽन्तर्भाव इत्युक्तमिति। संवादानुक्तियुतानिग्रह इत्यत्रेति शेषः ।