अहानेश्च
स्मृतिप्रामाण्ये बाधकाभावः
प्रमाणलक्षणटीका
किञ्च स्मृतिप्रामाण्याङ्गीकारे अनिष्टाभावात् तदङ्गीकारो युक्त इत्याह
प्रमाणलक्षणम्
***अहानेश्च ***
हानिपदमनिष्टमात्रोपलक्षणम् ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
॥ अहानेश्चेति ॥ स्मृतिप्रामाण्याङ्गीकारे प्रामाणिकहाना-भावाच्च इत्यर्थः । नन्वनेन प्रामणिकहानाभावमात्रमेवोक्तं न तु अप्रमाणिक-कल्पनाभावः । तथा च अप्रामाणिककल्पनमेतद् इति शङ्का स्यात् । अतो व्याचष्टे ॥ हानिपदमिति ॥ अनिष्टमात्रेति ॥ प्रामाणिकहानाप्रामाणिककल्पना-रूपानिष्टमात्रेत्यर्थः । अजहत्स्वार्थलक्षणायां स्वार्थस्यापि लक्ष्यत्वान्न कश्चित्क्षुद्रोप-द्रवः । यथाऽऽहुः, अनिष्टस्य द्वयी विधाः । प्रामाणिकपरित्यागस्तथेतरपरिग्रहः ॥ इति । सामान्य-विशेषभाव एव लक्षणाबीजभूतः सम्बन्धो द्रष्टव्यः । तथा च ‘अहानेः’ इत्यस्य अनिष्टाभावाद् इत्यर्थो द्रष्टव्यः ।
प्रमाणलक्षणटीकाविवरणं
स्मृतेः प्रामाण्येऽपि आहानेरित्युक्तेः प्रामाणिकहानाभावमात्रं प्रतीयते । अप्रामाणिककल्पना न प्रतीयते । अतो विशेषेण सामान्यं लक्षणीयमित्याह ॥ हानीति ॥ सामान्यविशेषभावस्यैव संबन्धत्वात् ।